अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 314, कुल 1258 में से
संदर्भ में पढ़ेंर्देशः ] द्वितीयं कोशस्थानम् २९३
ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुम्, तेषामेष ग्रन्थ इच्छाविधा-
नाय सम्प्रवर्त्तते—“अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिः”
) इति ।
किं पुनः सर्वे सदृशाः सभागहेतुः ? नेत्याह । किं तर्हि ?
स्वनिकायभुवः
स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः ।
पञ्च निकायाः—दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः ।
नव भूमयः—कामधातुरष्टौ च ध्यानारूप्याः ।
तत्र दुःखदर्शनहेया दुःखदर्शनहेयानां सभागहेतुः, नान्येषाम् । एवं यावद्
भावनाहेया भावनाहेयानाम् ।
तेऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां
यावद् भवाग्रभूमिकास्तद्भूमिकानामेव नान्येषाम् ।
तेऽपि न सर्वे, किं तर्हि ?
अग्रजाः ।
पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः । अनागता नैव सभाग-
हेतुः । एवमतीते :
कुत एतत् ? आह—शास्त्रात् । “सभागहेतुः कतमः ?
पूर्वोत्पन्नानि कुशलमूलानि पश्चादुत्पन्नानां कुशलमूलानां तत्सम्प्रयुक्तानां च
धर्माणां स्वधातौ सभागहेतुना हेतुः । एवमतीतानि अतीतप्रत्युत्पन्नानाम् ।
अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपतिरिति । हेतुप्रत्ययः,
अधिपतिप्रत्ययश्चेत्यर्थः । अयुगपद्भावान्न सहभूहेतुः, अत एवाचित्तचैत्तत्वाच्च
न सम्प्रयुक्तकहेतुः, असर्वत्रगत्वान्न सर्वत्रगहेतुः, अव्याकृतत्वान्न विपाकहेतुः,
पारिशेष्यात् सभागहेतुरेवेत्यवगम्यते । यदि सदृशाः सदृशानां सभागहेतुः,
एवं पश्चादुत्पन्नोऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति, सहोत्पन्नोऽपि सहोत्-
पन्नस्य, अनुत्पन्नोऽप्यनुत्पन्नस्य ? इत्यत आह—तेऽपि न सर्वे । किं तर्हि ?
“अग्रजाः”। अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः । अनागता
न सभागहेतुरित्यर्थादुक्तं भवति । एवमतीतान्यतीतप्रत्युत्पन्नानामिति । पूर्वो-