अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 331, कुल 1258 में से
संदर्भ में पढ़ें३१० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
स्यादार्यपुद्गलः कामवैराग्यात् परिहीयमाणो यः १ ' तत्प्रथमतः क्लिष्टां चेतनां
सम्मुखीकरोति" इति ? अप्रहीणहेतुमेतत् सन्धायोक्तम् । दर्शनप्रहातव्यो हि
तस्या हेतुः प्रहीणत्वान्नोक्तः ।
उक्तः सर्वत्रगहेतुः ॥
विपाकहेतुः कतमः ?
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ ५४ ॥
अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः; विपाकधर्मत्वात् ।
कस्मादव्याकृता धर्माः विपाकं न निर्वर्तयन्ति ? दुर्बलत्वात्, पूति-
बीजवत् ।
केवलमकुशलहेतुकाः, प्रज्ञप्तिभाष्यं कथं नीयते । स्यात् आर्यपुद्गलः कामवैराग्यात्
परिहीयमाणो यस्तत्प्रथमतः क्लिष्टां चेतनां सम्मुखीकरोतीति । कामवैराग्यपरिहाणि-
काले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च सम्प्रयुक्तकहेतुना अकुशलहेतु-
केव,नाव्याकृतहेतुका; सत्कायान्तग्राहदृष्ट्योः प्रहीणत्वात्-इति प्रज्ञप्तिभाष्यार्थो
लक्ष्यत इति, अनेनाभिप्रायेण चोदयति । वैभाषिक आह—अप्रहीणं हेतुमेतत्
सन्धायोक्तमिति । अप्रहीणं सहभूहेतुं सम्प्रयुक्तकहेतुञ्च सन्धाय अभिप्रेत्य एतत्
प्रज्ञप्तिभाष्यमुक्तम् । दर्शनप्रहातव्यो हि सत्कायदृष्ट्यादिकः तस्याश्चेतनाया
हेतुः । प्रहीणत्वात् दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति ।
अकुशलाः कुशलसास्रवाश्चेति । अकुशला अवश्यं सास्रवा एवेति न विशे-
ष्यन्ते । कुशलास्तु द्विप्रकाराः—सास्रवाः, अनास्रवाश्चेति । अतो विशेष्यन्ते ।
ये सास्रवाः कुशलाः, ते विपाकहेतुः, नानास्रवा इति । विपाकधर्मत्वादिति ।
विपक्तिप्रकृतित्वादित्यर्थः ।
दुर्बलत्वात् पूतिबीजवदिति विस्तरः । यथा पूतीनि बीजान्यांभष्यन्दितान्यपि
दुर्बलत्वान्नाङ्कुरोत्पत्तिहेतुर्भवन्ति, एवमव्याकृता धर्मास्तृष्णाभिष्यन्दिता अपि
न विपाकोत्पत्तिहेतुर्भवन्ति; दुर्बलत्वात् । अनास्रवा बलवन्तोऽपि तृष्णानभिष्य-
न्दित्वाद् विपाकं न निर्वर्तयन्ति । यथाद्भिरनभिष्यन्दित्वाच्छुष्काणि बल-
वन्त्यपि सारबीजानि नाङ्कुरं निर्वर्तयन्ति, तद्वत् । पूर्वेषां स्वशक्तिवैकल्यम्,
अपरेषां सहकारिकारणान्तरवैकल्यम् ।
१. यां—का० ।