सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 323, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 323

३०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तरे¹ हेतूपचिततराः ।¹
यद्यप्येकसन्ताने श्रद्धधर्मानुसारिमार्गयोरसम्भवः; उत्पन्नस्त्वनागतस्य
हेतुः ॥ ५२ ॥
कथं हेतूपचयतः ? ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा
भवतीत्यत इदमुच्यते । तत्र दर्शनादिमार्गाणामिति । विस्तरः—आदिग्रहणेन
भावनाशैक्षमार्गोपसंग्रहः । ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेरधोभूमिकं दुःखे
धर्मज्ञानं हेतूपचयतो विशिष्टं भवति । दुःखे धर्मज्ञानादप्यूर्ध्वभूमिकादधर-
भूमिका दुःखेऽन्वयज्ञानक्षान्तिर्यावदूर्ध्वभूमिकान्मार्गे धर्मज्ञानदधरभूमिका मार्गे-
ऽन्वयज्ञानक्षान्तिर्हेतूपचयतो विशिष्टा भवति; एकैकाधिकसभागहेतूपचि-
तत्वात् । दर्शनमार्गादूर्ध्वभूमिकादधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो
भवति । दर्शनमार्गो हि दर्शनमार्गहेतूपचितः । भावनामार्गस्तु दर्शनभावना-
मार्गहेतूपचितः । ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्यामधरभूमिकोऽशैक्षमार्गो
हेतूपचयतो विशिष्टो भवति; दर्शनभावनामार्गहेतूपचितत्वात् । ऊर्ध्वभूमि-
कस्य दर्शनमार्गस्याधोभूमिको. दर्शनमार्गो हेतूपचयतः समानक्षणापेक्षया
समो भवति । एवं भावनामार्गस्य भावनामार्गः, अशैक्षमार्गस्याशैक्षमार्ग इति ।
तदेवं कश्चिदिन्द्रियतः समो भवति, हेतूपचयतो विशिष्टः सत्यप्यधरभूमि-
कत्वे, तद्यथा—प्रथमध्यानभूमिकाच्छ्रद्धानुसारिमार्गादधरभूमिकौ श्रद्धाधिमुक्त-
समयविमुक्तमार्गौ । कश्चिद्धेतूपचयतः समो भवतीन्द्रियतो विशिष्टः, तद्यथा—
चतुर्थध्यानभूमिकाच्छ्रद्धानुसार्यादिमार्गादधोभूमिकधर्मानुसार्यादिमार्गः समान-
क्षणापेक्षया । कश्चिदिन्द्रियतो हेतूपचयतश्च विशिष्टः, तद्यथा—चतुर्थध्यानभूमि-
काच्छ्रद्धानुसारिमार्गादधरभूमिकौ दृष्टिप्राप्तसमयविमुक्तमार्गौ । मृदुमृद्वादीनां
चोत्तरोत्तरे हेतूपचिततरा इति । दर्शनमार्गवर्ज्याः । तस्मिन् मृदुमृद्याद्यसम्भवात् ।
तत्र मृदुमृदोः प्रकारादूर्ध्वभूमिकादधरभूमिकोऽपि मृदुमध्यो यावदधिमात्र-
मध्यादधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो
वा भवति; एकैकाधिकप्रकारहेतूपचितत्वात् ।
यदुक्तम्—'श्रद्धानुसारिमार्गः षण्णां सभागहेतुः' इति, कथं श्रद्धानुसारिमार्गो
धर्मानुसारिमार्गस्य सभागहेतुर्भवति, न हि तयोरेकसन्ताने सम्मुखीभावो-
ऽस्ति ? तेनाह—यद्यप्येकसन्ताने श्रद्धधर्मानुसारिमार्गयोरसम्भवः, उत्पन्नस्त्वना-
गतस्य हेतुरिति । असम्भवो ह्यत्रासम्मुखीभावः । न त्वभावः, सन्ति हि मृद्वि-
न्द्रियाणां मृद्विन्द्रियमार्गवदात्मीयास्तीक्ष्णेन्द्रियमार्गा अपि । दृष्टिप्राप्तसमयविमु-


१-१. चोत्तरोत्तरहेतू०—का० ।