सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 315, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 315

अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्” ।
इदमपि शास्त्रम्—“यो धर्मो यस्य धर्मस्य हेतुः कदाचित् स धर्मस्तस्य
धर्मस्य न हेतुः ? आह—कदाचिद्” इति ?
सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोष एषः ;
यस्तु मन्यते—अनागतोऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे
नियतीभूतो भवति, अतस्तां चरमावस्थामभिसन्धायोक्तम्—“न कदाचिन्न
हेतुः” इति ?
तस्यायमपरिहारः; यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुर-
भूत्वा पश्चाद् भवति ।
इहापि च प्रश्ने—यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्म-
स्तस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यात्—न कदाचिदिति ।
त्पन्नान्यतीतानि पश्चादुत्पन्नातीतानामिति विभज्य व्याख्येयम् । अतीतप्रत्युत्प-
न्नान्यनागतानां सभागहेतुः, न त्वनागतान्यनागतानामित्युक्तम् । अतो गम्यते-
नास्त्यनागतः सभागहेतुरिति । न कदाचिदिति । न कदाचिन्न हेतुरित्यधि-
कृतम्, हेतुरेवेत्यर्थः । तस्मादस्त्यनागतः सभागहेतुरित्यभिप्रायः ।
सहभूविति । विस्तरः—सहभूसम्प्रयुक्तकविपाकहेतुष्वभिसन्धिरभिप्रायः,
तेन वचनम्, तस्मात् । सहभूसम्प्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः, न
कदाचिन्न हेतुरिति वचने । बाहुलिको ह्येष निर्देश इष्यते ।
चरमावस्थामभिसन्धायेति । अन्त्यामनागतावस्थामभिप्रेत्येत्यर्थः । अध्व-
त्रयेऽपि हेतुर्भवतीति तस्याभिप्रायः ।
तस्यायमपरिहार इति विस्तरः । तस्य वादिनोऽयमपरिहारः । कस्मात् ?
यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चाद् भवति, न नित्यं
सभागहेतुरित्यर्थः । बह्वीनामनागतावस्थानामेका चरमावस्था सभागहेतुत्वे
नियतीभूता । तदन्या बह्व्यस्तत्रानियतीभूताः सन्ति । तत्र च सामान्येनोक्तम्-
न कदाचिन्न हेतुरिति । एवं कृत्वायमपरिहारः । एकस्यामपि ह्यवस्थायां स
न सभागहेतुरिति शक्यमेव वक्तुं स्यात् ।
यो धर्मो यस्य धर्मस्य समनन्तर इति । समनन्तरप्रत्यय इत्यर्थः । शक्यमनया
कल्पनयेति । स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो
भवति । अतः शक्यं तां चरमावस्थामभिसन्धायेत्यनया कल्पनया वक्तुम्—