सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

२४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सम्पन्नश्च। सोऽभीक्ष्णं संज्ञावेदितनिरोधं¹ समापद्यते च व्युत्तिष्ठते च, अस्ति चैतत्
उदायी तु तत्र विबन्धक इति उदायीसूत्रम्' इत्युच्यते । कथमिति ? “श्रावस्त्यां
निदानम् । तत्रायुष्मान् शारिपुत्रो भिक्षूनामन्त्रयते स्म - 'इहायुष्मन्तो भिक्षुः
शीलसम्पन्नश्च भवति समाधिसम्पन्नश्च प्रज्ञासम्पन्नश्च । सोऽभीक्ष्णं संज्ञावेदित-
निरोधं समापद्यते च, व्युत्तिष्ठते च। अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति।
स न हैव दृष्ट एव धर्मे प्रतिपद्येवाज्ञामागराघयति। नापि मरणकालसमये ।
भेदाच्च कायस्यातिक्रम्य देवान् कवडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये
काय उपपद्यते, स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते
च । अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति' । तेन खलु पुनः समये-
नायुष्मानुदायी तस्यामेव पर्षदि सन्निषण्णोऽभूत् सन्निपतितः । अथायुष्मानु-
दाय्यायुष्मन्तं शारिपुत्रमिदवोचत् - 'अस्थानमेतदायुष्मञ्छारिपुत्रानवकाशो
यद्भिक्षुरन्यतमस्मिन् दिव्ये मनोमये काय उपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं
समापद्यते च व्युत्तिष्ठते च, अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति' ।
द्विरपि त्रिरप्यायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदवोचत् - 'अस्थानमेतदायु-
ष्मन्' इति पूर्ववत् । अथायुष्मतः शारिपुत्रस्यैतदभवत् - 'यावत् त्रिरपि मेऽयं
भिक्षुर्भाषितं प्रतिवहति प्रतिक्रोशति, न च मे कश्चित् सब्रह्मचारी भाषितम-
भ्यनुमोदते, न्वहं येन भगवांस्तेनोपसंक्रामेयम्' । अथायुष्मान् शारिपुत्रो येन
भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते
निषण्णः । एकान्ते निषण्णश्चायुष्माञ्छारिपुत्रो भिक्षूनामन्त्रयते स्म - 'इहा-
युष्मन्तो भिक्षुः शीलसम्पन्नश्च भवति' पूर्ववत् । तेन खलु समयेनायुष्मानुदायी
पूर्ववत् । एवं द्विरपि त्रिरप्यायुष्मानुदाय्यायुष्मन्तं शारिपुत्रमिदमवोचत्,
पूर्ववत् । अथायुष्मतः शारिपुत्रस्यैतदभवत् - 'शास्तुरपि मे पुरस्तादयं भिक्षु-
र्यावत् त्रिरपि भाषितं प्रतिवहति प्रतिक्रोशति । न च मे कश्चित् सब्रह्मचारी
भाषितमभ्यनुमोदते, यन्नवहं तूष्णीं स्याम्' । अथायुष्मान् शारिपुत्रस्तूष्णीमभूत् ।
तत्र भगवानायुष्मन्तमुदायिनमामन्त्रयते स्म - 'कं पुनस्त्वमुदायिन्नन्यतमं दिव्यं
मनोमयं कायं सञ्जानीषे' ? 'ननु यावदेवारूपिणं संज्ञाम

निर्देशः ] द्वितीयं कोशस्थानम् २४३
स्थानमिति यथाभूतं प्रजानाति । स न हैव दृष्ट एव धर्मे प्रतिपद्येवाज्ञामाराग-
यति¹ । नापि मरणकालसमये भेदाच्च । कायस्यातिक्रम्य देवान् ²कवडीकारभक्षा-
नन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदित-
निरोधं समापद्यते च व्युत्तिष्ठते च, अस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति"
( ) इति । अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो
भगवता ।
इयं च समापत्तिर्भावाग्रिकी । तत् कथमपरिहीणस्य तल्लाभिनो रूपधातौ
स्यादुपपत्तिः ? चतुर्थध्यानभूमिकामपि निरोधसमापत्तिं निकायान्तरीया इच्छन्ति ।
तेषां विनापि परिहाण्या सिध्यत्येतत् । एतदेव तु न सिध्यति—चतुर्थध्यान-
भूमिकाप्यसावस्तीति । किं कारणम् ? "नवानुपूर्वसमापत्तयः" इति सूत्रे वचनात् ।
इति । तत्र भगवानायुष्मन्तमुदायिनमायुष्मन्तं चानन्दं सम्मुखमवसाद्य
भिक्षूनामन्त्रयते स्म—'इह भिक्षवो भिक्षुः शीलसम्पन्नश्च भवति समाधि-
संम्पन्नश्च, विस्तरेण यावदस्ति चैतत् स्थानमिति यथाभूतं प्रजानाति' इति ।
उक्त्वा भगवानुत्थायासनाद् विहारं प्राविक्षत् प्रतिसंलयनाय" इति ।
अत्रायुष्मानुदायी 'आरूप्यावचरोऽयं मनोमयः काय उक्तः' इति मनसि
कृत्वा प्रतिबन्धमकार्षीत् । तत्र हि रूपं नास्ति, मन एव तु ससम्प्रयोगमस्ति,
तस्मान्मनोमयः कायः । तत्र चेयं समापत्तिर्न समापद्यत इति तस्याभिप्रायः ।
आर्यशारिपुत्रस्य तु रूपावचरो दिव्यो मनोमयः कायोऽभिप्रेतः; शुक्रशोणित-
मनुत्राप्य प्रादुर्भावात् । अत एव चासावायुष्मानुदायी भगवता पृष्टः—'किं
पुनस्त्वमुदायिन्नन्यतमं दिव्यं मनोमयं कायं संजानीषे, ननु यावदेवारूपिणं
संज्ञामयम्' इति। तेनापि 'एवं भदन्त' इति प्रतिपन्नम् । भगवानपि रूपावचरमेव
दिव्यं मनोमयं कायमनिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तमायुष्मन्तमुदायिन-
मवसादयति स्म—'त्वं तावन्मोहपुरुषान्ध एव सन्नचक्षुश्चक्षुष्मता शारिपुत्रेण
भिक्षुणा सार्धमभिधर्मेऽभिविनये संल्लपितव्यं मन्यसे' इति ।
अस्ति चैतत् स्थानमिति । यदेतन्निरोधसमापत्तेः समापदनं व्युत्थानं
चेति, एतत् स्थानम् यथाभूतं प्रजानाति । प्रतिपद्येवेति । पूर्वमेवेत्यर्थः । आज्ञामा-
रागयतीत्यर्हत्त्वं प्राप्नोतीत्यर्थः ।
इयञ्च समापत्तिर्भावाग्रिकीति । विस्तरः—निरोधसमापत्तिर्भावाग्रिकी ।
यश्च तल्लाभी तस्य भवाग्र एवोपपत्तिः स्यात्, न रूपधातौ । उक्तं च सूत्रे—
१. प्रतिपत्त्ये०—का० । २. कवड़ीकाराहार०-का० ।

२४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
यद्येष नियमः, कथं व्युत्क्रान्तसमापत्तयो भवन्ति ? प्राथमकल्पिकं प्रत्येव
नियमः । प्राप्तप्रकामवशित्वात् तु सन्तो विलङ्घ्यापि समापद्यन्ते ।
एवमनयोः समापत्त्योर्भूमितोऽपि विशेषः; चतुर्थध्यानतयाऽग्रभूमिकत्वात् ।
प्रयोगतोऽपि, निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् ।
सन्तानतोऽपि, पृथग्जनार्यसन्तानत्वात् ।
फलतोऽपि, आसंज्ञिकभवाग्रफलत्वात् ।
वेदनीयतोऽपि, नियतोभयथावेदनीयत्वात्¹ ।
प्रथमोत्पादनतोऽपि, द्विधातुमनुष्योत्पादनात् ।
“स तत्र रूपधातावुत्पन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते
च” ( ) इति । तस्मादस्त्यतः परिहाणिरिति गम्यते ।
युज्यत एवैतद् वैभाषिकाणाम् । सौत्रान्तिकानान्तु कथमेतत् । आर्य एव हि
निरोधसमापत्तिलाभी, न चार्यमार्गादस्ति परिहाणिरिति सौत्रान्तिकसिद्धान्तः ।
तस्यार्यस्य कथमुपरिभूमिकादार्यमार्गात् परिहाणिरितीष्यते ? तेषामप्येतत् सूत्रं
न विरुध्यते । कथम् ? यो हि कश्चित् भवाग्रलाभी नियामवक्रामति सोऽनागामी
सन्निरोधसमापत्तिमुत्पादयेत्, स भवाग्रात् निरोधसमापत्तेश्च परिहीयेत, न तु
मार्गात्; ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिदनुत्पादित्वात् । स परिहीणो भूत्वा
ध्यानमुत्पाद्य रूपधातावुत्पद्येत । तस्मादस्त्यतः परिहाणिः, न चार्यमार्गात्
परिहाणिरिति न स्वसिद्धान्तविरोधः । नवानुपूर्वसमापत्तय इति । चत्वारि
ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश्च । प्राथमकल्पिकं प्रतीति । आदितः
समापत्तिविधायकं प्रतीत्यर्थः ।
नियतोभयथावेदनीयत्वादिति । नियतवेदनीयासंज्ञिसमापत्तिरुपपद्यवेदनीय-
त्वात् । उभयथा वेदनीया निरोधसमापत्तिर्नियता नियतवेदनीयेत्यर्थः । नियत-
वेदनीया अनागामिनः; अनियतवेदनीया अर्हतः, इहैव परिनिर्वाणात् ।
प्रथमोत्पादनतोऽपीति । असंज्ञिसमापत्ति कश्चित् प्रथमं मनुष्येषूत्पादयति,
कश्चित् रूपधातौ; निरोधसमापत्ति तु मनुष्येष्वेवोत्पादयति, परिहीणस्तु
रूपधातौ । अथ कस्मान्मनुष्येष्वेवैनामुत्पादयति ? संज्ञावेदनाद्वारेण वितर्क-
विचारादिचेत्तप्रचारपरिखिन्नोऽनागामी तां तेन विहारेण सुखं विहरेयमिति
निरोधसमापत्तिमुत्पादयति । रूपधातुपपन्नस्त्वनागामी रूपधातोः शान्तत्वान्न
तथा तत्रत्यचैतसिकप्रवृत्त्या पीड्यत इति न प्रथमतस्तत्रोत्पादयति, परिहीणस्तु
१. नियतानियतोपपद्योभयथा०--का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २४५
कस्मात् पुनरेते चित्तचैत्तनिरोधस्वभावे सत्याप्यसंज्ञिसमापत्तिः, संज्ञावेदित-
निरोधसमापत्तिश्चोच्येते ? तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात्, वेदनादिज्ञानेऽपि
परचित्तज्ञानवचनवत् ।
कथमिदानीं बहुकालनिरुद्धाच्चित्तात्¹ पुनरपि चित्तं जायते ? अतीतस्या-
प्यस्तित्वाद् इष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् ।
पूर्वाभ्यासस्तस्तामुत्पादयति । आरूप्यधातुपपन्नोऽप्यत एव शान्तत्वाच्चैवासंज्ञाना-
संज्ञायतनोपपन्नो नोत्पादयति । निरुपधिशेषनिर्वाणप्रसङ्गाद्वा, तत्र हि रूपं नास्ति ।
चित्तचेत्ता यदि निरुध्येरन् परिनिर्वाणमेवास्य स्यात् । चित्तविप्रयुक्तानां केवला-
नामवस्थानासामर्थ्यान्नियतवेदनीयस्य च कर्मणोऽपरिसमाप्तफलस्य विघ्नभावे-
नावस्थानान्न परिनिर्वाणसम्भवः । असंज्ञिसमापत्ति तु मोक्षसंज्ञया निःसरण-
संज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधातावपि प्रथमत समापद्यते ।
कस्मात् पुनरेते इति । विस्तरः-सर्वचित्तचैत्तनिरोधस्वभावत्वात्, उभे
अप्येते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्यभिप्रायः । तत्प्रातिकूल्येन
तत्समापत्तिप्रयोगादिति । संज्ञावेदनाप्रतिकूल्येन तयोः समापत्त्योः प्रयोगात् ।
संज्ञाप्रातिकूल्येनासंज्ञिसमापत्तिप्रयोगः संज्ञारोगः संज्ञाशल्यः संज्ञागण्डः एतच्छा-
न्तमेतत् प्रणीतमिति विस्तरः । संज्ञावेदितप्रातिकूल्येन निरोधसमापत्तिप्रयोगः ।
परचित्तज्ञानवचनवदिति । यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न
ज्ञायन्ते कदाचित्, अथ च 'परस्य चित्तं ज्ञास्यामि' इत्येवं प्रथमतः प्रयोगात्
परचित्तज्ञानमित्युच्यते, न परचित्तचैत्तज्ञानमिति; तद्वदिहाप्यनयोः समा-
पत्त्योस्तथा वचनम् ।
तत्राचित्तकान्येव निरोधासंज्ञिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः, अपरि-
स्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः, आलयविज्ञानसचित्तका-
नीति योगाचाराः-इति सिद्धान्तभेदः । तस्मादिदमुपन्यस्यते-कथमिदानी बहु-
कालनिरुद्धादिति । विस्तरः-बहुकालनिरुद्धग्रहणं समनन्तरनिरुद्धनिरासार्थम् ।
समनन्तरनिरुद्धादिदानीं कथं भवति ? यदि समनन्तरनिरुद्धमस्तीत्यभ्युपगतम्,
बहुकालनिरुद्धमप्यस्तीति किं नाभ्युपगम्यत इति वैभाषिकाः । न समनन्तर-
निरुद्धस्यास्तित्वं ब्रूमः, अपि तु वर्त्तमानं चित्तमात्मनोऽन्यचित्तहेतुभावं
व्यवस्थाप्य निरुध्यते, अन्यच्चोत्पद्यते, तुलादण्डनामोन्नामवत् । तच्च निरुद्धम-
परं च चित्तमुत्पन्नं भवतीत्यनन्तरनिरुद्धाच्चित्ताच्चित्तान्तरमुत्पद्यत इत्युच्यते ।
“वर्त्तमानसामीप्ये वर्त्तमानवद्” (पा० सू० ३.३.१३१) इति कृत्वा ।
१. बहुकालं निरु०—का० ।

२४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
अपरे पुनराहुः—कथं तावदारूप्योपपन्नानां चिरनिरुद्धेऽपि रूपे पुनरपि
रूपं जायते ? चित्तादेव हि तज्जायते, न रूपात्। एवं चित्तमप्यस्मादेव सेन्द्रि-
यात् कायात् जायते, न चित्तात् ।
अन्योन्यबीजकं ह्येतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः ।
भदन्तवसुमित्रस्त्वाह परिपृच्छायाम्— “यस्याचित्तिका निरोधसमा-
पत्तिस्तस्यैष दोषः, मम तु सचित्तिका समापत्तिः” इति ।
भदन्तघोषक आह—तदिदं नोपपद्यते; “सति हि विज्ञाने त्रयाणां
सन्निपातः, स्पर्शप्रत्यया च वेदना संज्ञा चेतना” ( ) इत्युक्तं
भगवता । अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् ।
अथापि स्यात् ? यथा “वेदनाप्रत्यया तृष्णा” ( ) इत्युक्तम् ।
सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिः, एवं सत्यपि स्पर्शे वेदनादयो न
स्युरिति ? तस्याविशेषितत्वात् । “अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना
तृष्णा” इत्युक्तम्, न तु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् ।
तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः ।
अपरे पुनराहुरिति । सौत्रान्तिकाः। कथं तावदारूप्योपपन्नानामिति । विस्तरः—
तावच्छब्दः क्रमार्थः । इदमेव तावद् दृष्टान्तार्थं वक्तव्यमित्यर्थः । रूपस्य
हि समनन्तरप्रत्ययो नेष्यते, तत् कथमुत्पद्यते ? तस्माच्चित्तादेव तज्जायते न
रूपाद्दिति ब्रूमः। अन्योन्यबीजकं ह्येतदुभयमिति । चित्तेऽपि सेन्द्रियस्य कायस्य
बीजमस्ति, काये च सेन्द्रिये चित्तस्येति ।
परिपृच्छायामिति । 'परिपृच्छा' नाम शास्त्रम्, कृतिः स्थविरवसुमित्रस्य ।
स तस्यामाह। पञ्चवस्तुकादीन्यपि हि तस्य सन्ति शास्त्राणि, तस्माद् विशिनष्टि ।
तस्यैव दोषः इति । कतमः स दोषः ? कथमिदानीं बहुकालानिरुद्धाच्चित्तादिति
य उक्तः । त्रयाणां सन्निपात इति । इन्द्रियविषयविज्ञानानाम् । संज्ञावेदनयोरप्यत्र
निरोधो न स्यादिति । भदन्तवसुमित्रस्यैतन्मतम् । सचित्तकत्वेऽपि तस्या निरोध-
समापत्तेः संज्ञावेदनयोस्तत्र निरोध इति । तस्माद् भदन्तघोषक एवं प्रसङ्गं करोति ।
अविद्यासंस्पर्शजमिति । अविद्यासहितः संस्पर्शोऽविद्यासंस्पर्शः, तस्माज्जातम्
अविद्यासंस्पर्शजम् । न तु वेदनोत्पत्ताविति । न तु वेदनोत्पत्तौ स्पर्शो विशेषितः—
ईदृशः स्पर्शो वेदनाप्रत्यय इति । स एव भदन्तघोषक उपसंहरति—
तस्मादचित्तिकेति ।

निर्देशः ] द्वितीयं कोशस्थानम् २६७
कथमचित्तिकायाः समापत्तित्वम् ! महाभूतसमतापादनात् । समापत्ति-
चित्तेन च तां समापद्यन्ते = समागच्छन्तीति समापत्तिः ।
किं पुनरेते समापत्ती द्रव्यतः स्तः ? उताहो प्रज्ञप्तितः ? द्रव्यत इत्याह ।
चित्तोत्पत्तिप्रतिबन्धनात् ? न; समापत्तिचित्तेनैव तत्प्रतिबन्धनात् ।
समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते, येन कालान्तरं चित्तस्या-
प्रवृत्तिमात्रं भवति; तद्विरुद्धाश्रयापादनात् । यासौ समापत्तिरिति प्रज्ञप्यते,
तच्चाप्रवृत्तिमात्रं न पूर्वमासीत्, न पश्चाद् भवति व्युत्थितस्येति संस्कृतासौ
समापत्तिः प्रज्ञप्यते ।
अथ वा—आश्रयस्यैव तथा समापादनं समापत्तिः ।
कथमचित्तिकायाः समापत्तित्वमिति । ध्यानादिसमापत्तित्वमर्हति । समा-
धिना

२७८ भाष्यस्फुटार्थासहितोऽभिधर्मकोशे [ इन्द्रिय-
एवमासंज्ञिकमपि द्रष्टव्यम्। चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते,
तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति ॥ ४४ ॥
व्याख्याते समापत्ती ॥
जीवितं कतमत् ?
आयुर्जीवितम्
एवं ह्युक्तमभिधर्मे—"जीवितेन्द्रियं कतमत् ? त्रैधातुकमायुः"
( ) इति । एतच्चैव न ज्ञायते—आयुर्नाम क एष धर्म इति ?
आधार ऊष्मविज्ञानयोर्हि यः ।
इदमुक्तं भगवता—
“आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतनः” ॥ ( ) इति ।
तद् य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुः, तद् ‘आयुः’।
तस्येदानीमायुषः क आधारभूतः ? ते एवोष्मविज्ञाने ।
एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते, यद्भ्रंशादितरौ
निवर्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः ? आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तम्,
कर्मणा तावदनुवर्त्तनात् ।
ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते ? मा भूत् सर्वं विज्ञान-
मामरणाद् विपाक इति ।
ऊष्मणस्तर्हि कर्माधारभूतं भविष्यति, ऊष्मा च विज्ञानस्य ? एवमप्या-
रूप्येष्वनाधारं विज्ञानं स्याद्; ऊष्माभावात् । तस्य पुनः कर्माधारो भविष्यति ?
संस्कृतावस्थाविशेषत्वादस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्यर्थः । एवमासंज्ञिक-
मिति विस्तरः । चित्तमेवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरुद्धं लभते, तच्चा-
प्रवृत्तिमात्रम् । चित्तचेत्तानामिति वाक्यशेषः । असंज्ञिकमिति प्रज्ञप्यते, न
तु द्रव्यतोऽस्तीत्यभिप्रायः ॥ ४४ ॥
य ऊष्मणः इति विस्तरः । ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः ।
तस्माज्जीवितमूष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस्तयोरेव । नित्यानि-
वृत्तिप्रसङ्ग इति । नित्यमेषां स्रोतः प्रसज्येत ।

निर्देशः ] द्वितीयं कोशस्थानम् २७९
न वै लभ्यते कामचारो यत् क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति, क्वचिदेव
कर्मेति । उक्तं चात्र । किमुक्तम् ? "मा भूत् सर्वं विज्ञानमामरणाद् विपाकः"
इति । तस्मादस्त्येव तयोराधारभूतमायुः ।
न हि नास्तीति ब्रूमः, न तु द्रव्यान्तरम् । किं तर्हि ? त्रैधातुकेन कर्मणा
निकायसभागस्य स्थितिकालावेधः । यावद्धि कर्मणा निकायसभागस्यावेधः कृतो
भवति—'एतावन्तं कालमवस्थातव्यम्' इति, तावत् सोऽवतिष्ठते, तद् 'आयुः'
इत्युच्यते । सस्यानां पाककालावधिवत्, क्षिप्तेषुस्थितिकालावेधवच्च ।
यस्तु मन्यते—संस्कारो नाम कश्चिद् गुणविशेष इषौ जायते, यद्वशाद्
गमनमिषोरापतनाद् भवतीति ? तस्य तदेकत्वात् प्रतिबन्धाभावाच्च देशान्तरैः शीघ्र-
निकायसभागस्य स्थितिकालावेध इति । निकायसभागो व्याख्यातः । त
एव तथाभूताः संस्कारा रूपादिस्कन्धस्वभावा इति । तेषां स्थितिः, प्रबन्धः,
तस्या कालो यावत् तेन स्थातव्यम्, त एव तावन्तः संस्कारक्षणाः, तस्या-
वेधः प्रतिसन्धिक्षणे पूर्वजन्मकर्मणो हेतुभावव्यवस्थानम् । कः पुनरसौ हेतुः ?
सामर्थ्यविशेषः । स हि स्कन्धप्रबन्धलक्षणायाः स्थितेः क्षणपरम्परया कारणं
भवति । अत एव स्थितिकालावेध उच्यते; तावत्कालं प्रवाहाक्षेपलक्षणत्वात् ।
तावत् सोऽवतिष्ठत इति । स निकायसभागः । सस्यानां पाककालावधिवत् । यथा
सस्यानां पाककालावधः सामर्थ्यविशेषस्वभावो बीजेनाङ्कुर एवाधीयते, य
क्षणपरम्परया आ पाककालात् सस्यसन्तानहेतुर्भवति, तद्वदेतत् । क्षिप्तेषुस्थिति-
कालावधिवच्च । यथा क्षिप्तस्येषोः शरस्य स्थितिः = आकाशदेशान्तरोत्पत्तिः
सन्तानानुवृत्तिः, तस्याः कालः = मर्यादा यतः परेण सा न भवति, तस्यावेधो
हेतुव्यवस्थानम् । कः पुनरसौ हेतुः ? प्रयत्नभूतातिशयनिर्वृत्तवायुधातुजनित-
सामर्थ्यविशेषः । तद्यथा क्षिप्तेषुस्थितिकालावेधो न द्रव्यान्तरम्, तद्वदयमायु-
र्लक्षणमावेधो द्रष्टव्यः ।
यस्तु मन्यत इति । वैशेषिकः । संस्कारो नाम गुणविशेष इति । पृथिव्यादीनां
वैशेषिको गुणः संस्कारो नाम कर्मजः कर्महेतुश्च वेगद्वितीयेनामा इषौ जायते ।
यद्वशात् यस्य गुणस्य वशात्, गमनमिषोरापतनाद् भवतीति तं प्रत्यदृष्टान्त एषः ।
यथा हि संस्कारो नाम भावान्तरमस्ति, एवमायुरपि स्यादिति, तेन तन्मतं
दूषयत्याचार्यः—तन्मतेति । विस्तरः—तस्य वैशेषिकस्य तदेकत्वात् संस्कारै-
कत्वात् । प्रतिबन्धाभावाच्च । प्रतिबन्धस्य काष्ठप्रघातादिलक्षणस्याभावाच्च ।
१ प्रतिपक्षाभावाच्च—का० ।

२५० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तरतमप्राप्तिकालभेदानुपपत्तिः, पतनानुपपत्तिश्च । वायुना तत्प्रतिबन्ध इति चेत् ?
अर्वाक्पतनप्रसङ्गो न वा कदाचिद् वायोरविशेषात् । एवं तु वर्णयन्ति—
द्रव्यान्तरमेवायुरस्तीति ।
अथ किमायुःक्षयादेव मरणं भवति ? आहोस्विदन्यथापि ? प्रज्ञाप्तावुक्तम्—
“आयुःक्षयान्मरणम्, न पुण्यक्षयात्” ( ) इति । चतुष्कोटिः ।
प्रथमा कोटिः—आयुर्विपाकस्य कर्मणः पर्यादानात् । द्वितीया—भोगविपाकस्य ।
तृतीया—उभयोः । चतुर्थी—विषमापरिहारेण ।
आयुरुत्सर्गाच्चेति वक्तव्यम् ? न वक्तव्यम् । आयुःक्षयादेव तन्मरणम्;
प्रथमाकोट्यन्तर्गमात् । क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् ।
तस्माद् ‘उभयक्षये सति मरणमायुःक्षयाद्’ इत्युक्तम् ।
ज्ञानप्रस्थानेऽप्युक्तम्—“आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।
सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह—कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं
निरोधसमापत्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।
समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम्”
( ) ।
किम् ? देशान्तरे शीघ्रतरतमप्राप्तिकालभेदानुपपत्तिः । शीघ्रा, शीघ्रतरा, शीघ्रतमा
प्राप्तिः शीघ्रतरतमप्राप्तिः । कैः ? सह देशान्तरैराकाशदेशादिभिः, तस्याः कालः,
तस्य भेदः, तस्यानुपपत्तिः । शीघ्रा, शीघ्रतरा, शीघ्रतमा देशान्तरैः सह प्राप्तिर्नो-
पपद्यते । पूर्वोक्तादस्मात् कारणद्वयात् संस्कारस्याविशिष्टत्वात् पतनानुपपत्तिश्च ।
पतनं चेषोर्नोपपद्यते । सति संस्कारे न ह्येतदिष्टम्—सति कारणे कार्यं न भव-
तीति । वायुना तत्प्रतिबन्ध इति चेत् ? स्यान्मतम्—वायुरत्र प्रतिबन्धः, प्रति-
बन्धविशेषाच्छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद् द्रव्य-
संयोगादभावः कर्मणः इति वचनात् । अत्रोच्यते—अर्वाक्पतनप्रसङ्गः । ज्यावि-
भागानन्तरमेवार्वाग्वरत एव वायुसंयोगात् स इषुः पतेत् । अथ प्रतिबध्यमा-
नोऽपि वायुना नार्वाक् पतेत्, न वा कदाचित् पतेत्, न पश्चादपि पतेदित्यर्थः ।
किं कारणम् ? वायोरविशेषात् । यथा हि समीपे वायुः, एवं दूरेऽपीति ।
'चतुर्थी विषमापरिहारेणेति । अत्यशनादेर्विषमस्यापरिहारेण । क्षीणे त्वायुषि
पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् । तेन तृतीया कोटिर्न प्राप्नोति । तस्मादुभय-
क्षये सति मरणमुभयक्षयादिति । उभयक्षये सतीति योऽर्थः सोऽर्थ उभयक्षयादि-

निर्देशः ] द्वितीयं कोशस्थानम् २५१
कोऽस्य भाषितस्यार्थः ? यस्याश्रयोपघाताद् उपघातस्तत्सन्तत्यधीनत्वात्
प्रथमम्। यस्य त्वाश्रयोपघात एव नास्ति तद्यथोत्पन्नावस्थानाद् द्वितीयम् ।
सान्तरायं प्रथमं, निरन्तरायं द्वितीयमिति काश्मीरगः ।
तस्मादस्त्यकालमृत्युः ।
सूत्रेऽप्युक्तम्— “चत्वार आत्मभावप्रतिलम्भाः । अस्त्यात्मभावप्रतिलम्भो
यत्रात्मसञ्चेतना क्रमते; न परसञ्चेतना” इति । चतुष्कोटिकः — १. आत्मसञ्चेतनैव
क्रमते कामधातौ क्रीडाप्रमोषकाणां देवानाम्, मनःप्रदूषकाणां च । तेषां हि
प्रहर्षमनःप्रदोषाभ्यां तस्मात् स्थानाच्च्युतिर्भवति, नान्यथा । बुद्धानां चेति वक्तव्यम् ;
स्वयम्मृत्युत्वात् । २. परसञ्चेतनैव क्रमते गर्भाण्डगतानाम् । ३. उभयमप्येषां
कामावचराणां प्रायेण । ४.

is there a 'v' in 'कचिद्'? Let's look at line 23:
"कचिदन्यत्राप्येवं" -> It is spelled "कचिद्" (without va) or "क्वचिद्"?
Wait, look at the letter 'क':
Does it have a 'va' below? No, it's just 'क'!
Wait, let's look at line 10:
"कचिदादिसम्प्रत्ययः, कचिदादिना पर्यन्तोऽपि"
Wait, look at line 21:
"कचिदादिसम्प्रत्यय इति" -> wait, line 20:
"पर्यन्तग्रहणात् तर्हीति । तदर्थान्तरविवक्षायां निपातः । तदादिसम्प्रत्यय इति ।"
Line 23:
"दिसम्प्रत्ययः । अस्ति कचिदन्यत्राप्येवं दृष्टमिति ? अस्तीत्याह-कचिदादिना पर्यन्त"
Wait, in line 23: "कचिदन्यत्राप्येवं" - look at the first letter: is it 'क' or 'क्व'?
It is 'क'! The typesetter consistently used 'कचिद्' or the 'v' is faint? No, it's 'कचिद्' (Prakritic/scribe spelling common in some Buddhist Sanskrit prints).
Wait, let's look at line 10 again:
"कचिदादिसम्

निर्देशः ] द्वितीयं कोशस्थानम् २५३
प्रतीयते, यदाह— “तद्यथा देवा ब्रह्मकायिकाः । इयं प्रथमा सुखोपपत्तिः”
इति । क्वचित् पर्यन्तेनादिरपि प्रतीयते, यदाह— “तद्यथा देवा आभास्वराः ।
इयं द्वितीया सुखोपपत्तिः” इति ।
अयमत्र 'तद्यथा' शब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसम्प्रत्ययः ।
एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते । स चेह तद्यथा-
शब्दो नास्तीत्यनुपसंहार एषः ।
यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्याद्, इह न प्राप्नुयात्—सन्ति
सत्त्वा नानात्वकाया नानात्वसंज्ञिनः, तद्यथा मनुष्यस्तदेकत्याश्च देवा इति ? तस्मा-
दुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमप्रसङ्गेन ॥
उक्तं जीवितम् ॥
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ ४५ ॥
एतानि हि संस्कृतस्य चत्वारि लक्षणानि । यत्रैतानि भवन्ति स धर्मः-
संस्कृतो लक्ष्यते । विपर्ययादसंस्कृतः ।
इत्यादि । तद् यथा देवा ब्रह्मकायिका इति । देवा ब्रह्मकायिकाः, तत्पर्यन्तग्रहणाच्च
ब्रह्मपुरोहिता महाब्रह्माणश्च । प्रथमा सुखोपपत्तिः । तद्यथा देवा आभास्वरा इति ।
आभास्वराः, तदादिग्रहणाच्च परीत्ताभाः, अप्रमाणाभाश्च । द्वितीया सुखोप-
पत्तिरिति । तिस्र एव हि सुखोपपत्तय इष्यन्ते ।
“सुखोपपत्तयस्तिस्रो नव त्रिध्यानभूमयः” (अभि० को० ३.७१) इति वच-
नात् । एष हि दृष्टान्तधर्म इति । एतद्दृष्टान्तचरितं यदेकमपि तत्प्रकारं निर्दि-
शते, न सर्वम्, शेषसम्प्रत्ययश्च भवति । तद्यथा—'अनित्यः शब्दः कृतकत्वात्,
यथा घटः' इति घटादीन्यपि हि गृह्यन्ते, 'तद्यथा'शब्दस्य दृष्टान्तवाचकत्वात् ।
अनुपसंहार एष इति । अदृष्टान्त इत्यर्थः । मनुष्यस्तदेकत्याश्च देवा इति । तदेके
देवाः षट् कामावचरा देवाः, प्रथमाभिनिर्वृत्तवर्ज्याश्च प्रथमध्यानोपपन्ना
देवा इत्येतावन्त एव नानात्वकाया नानात्मसंज्ञिनः सत्त्वाः, नैतद्व्यतिरिक्ताः
सन्तीति । नायं तद्यथाशब्दो दृष्टान्तवाचकः । तस्मादुपदर्शनार्थ एवायं द्रष्टव्यः ।
उपदर्शनार्थत्वे च सति तदेव स्थितमेतत्—पर्यन्तग्रहणात् तदादिसम्प्रत्यय इति ॥
विपर्ययादसंस्कृत इति । यत्रैतानि न भवन्ति सोऽसंस्कृत इति । ननु च
स्थितिरसंस्कृतलक्षणमस्ति, नासंस्कृतस्य स्थितिर्द्रव्यान्तररूपास्ति । द्रव्यान्तर-
रूपाणि चेह संस्कृतलक्षणानीष्यन्त इत्यचोद्यमेतत् ।

२५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तत्र जातिस्तं धर्मं जनयति, स्थितिः स्थापयति, जरा जरयति, अनित्यता
विनाशयति ।
ननु “त्रीणीमानि संस्कृतलक्षणानि” इति सूत्र उक्तम्, चतुर्थमप्यत्र
वक्तव्यं स्यात्, किं चात्र नोक्तम् ? आह—स्थितिः । यत् तर्हि “इदं स्थित्यन्य-
थात्वम्” इति ? जराया एष पर्यायः; तद्यथा जातेरुत्पाद इति, अनित्यतायाश्च
व्ययः इति ।
ये हि धर्माः संस्काराणामध्वसञ्चाराय प्रवृत्ताः, त एव सूत्रे लक्षणान्युक्तान्यु-
द्वेजनार्थम् । जातिर्हि या संस्कारानागतादध्वनः प्रत्युत्पन्नमध्वानं सञ्चारयति ।
जराऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य विघातात्¹ । तद्यथा किल गहन-
प्रविष्टस्य पुरुषस्य त्रयः शत्रवः—तत एक एनं गहनादाकर्षेत्, द्वौ पुनर्जीवि-
ताद् व्यपरोपयेताम्, तद्वदिति । स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमि-
ननु च त्रीणीमानीति विस्तरः । कथम् ? सूत्रे—“त्रीणीमानि भिक्षवः
संस्कृतस्य संस्कृतलक्षणानि । कतमानि त्रीणि ? संस्कृतस्य भिक्षवः उत्पादोऽपि
प्रज्ञायते, व्ययोऽपि प्रज्ञायते, स्थित्यन्यथात्वमपि” ( ) इति ।
चतुर्थमप्यत्र वक्तव्यं स्यादिति वैभाषिकाः । किञ्चात्र नोक्तमिति चोदकः । स्थिति-
रिति वैभाषिकाः। यत्तर्हीदं स्थित्यन्यथात्वमपीति । स्थितिशब्दोऽत्र श्रूयते कथमिव-
मुच्यते—स्थितिनोक्तेति चोदकाभिप्रायः । जराया एष पर्याय इति । जरेयमुक्ता,
स्थितेरन्यथात्वं स्थित्यन्यथात्वमिति । तद् यथा जातेरुत्पाद इति पर्यायः ।
अनित्यतायाश्च व्ययः । तथा जरायाः स्थित्यन्यथात्वं पर्याय इति ।
कस्मात् पुनर्लक्षणचतुष्ट्वे सति भगवता त्रीण्येवोक्तानीति ? अत आह—ये
हि धर्मा इति । विस्तरः--उद्वेजनार्थं विनेयानाम् । जातिजरानित्यता इति धर्माणां
लक्षणान्युक्तानि । आभिप्रायिको हि सूत्रनिर्देशः, न लाक्षणिकः, यथाभिधर्मः ।
जरानित्यते पुनः प्रत्युत्पन्नादतीतमिति । सञ्चारयत इत्यधिकारोऽनुवर्त्तते । जरा-
नित्यते प्रत्युत्पन्नादध्वनोऽतीतमध्वानं सञ्चारयतः । कस्मात् ? दुर्बलीकृत्य
विघातात् । जरा दुर्बलीकरोति । अनित्यता निहन्तीति कृत्वा । ननु चानित्यतैव
धर्मं प्रत्युत्पन्नादध्वनोऽतीतमध्वानं सञ्चारयति; न जरा; जरा हि केवलं धर्मं
दुर्बलीकरोति, कस्मादेवमुच्यते—जरानित्यते प्रत्युत्पन्नादतीतं सञ्चारयत इति ?
आह—दुर्बलीकरणमपि तदध्वसञ्चारायैव वर्त्तते । न ह्यदुर्बलीकृतस्याध्वसञ्चा-
१. प्रतिघातात्—का० ।

निर्देश: ] द्वितीय कोशस्थानम् २५५

वेच्छन्ती। अतोऽसौ संस्कृतलक्षणं न व्यवस्थापिता। असंस्कृतस्यापि च
स्वलक्षणस्थितिभावात्¹ ।
अन्ये पुनः कल्पयन्ति—स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं
लक्षणमुक्तं सूत्रे । किं प्रयोजनम् ? एषा ह्येषु सङ्गास्पदम्, अतः श्रियमिवैनां
कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति ।
अतश्चत्वार्येव संस्कृतलक्षणानि ॥ ४५ ॥
तेषामपि नामजात्यादीनां संस्कृतत्वादन्त्यैर्जात्यादिभिर्भवितव्यम् ? भवन्त्येव ।
जातिजात्यादयस्तेषां
रोऽस्तीति जरापि तत्सञ्चारे व्यवस्थाप्यते । असंस्कृतस्यापि च स्वलक्षणस्थिति-
भावादिति । स्वलक्षणे स्थितिः, स्थित्या भावः, तस्मात् स्थितिभावात् । असौ
स्थितिः संस्कृतलक्षणं न व्यवस्थापिता । स्थितिर्ह्यसंस्कृतावस्थाविशेषलक्षणया
स्थित्या सदृशीति तस्यासंस्कृतस्य संस्कृतत्वप्रसङ्गपरिजिहीर्षया न लक्षणमुक्त-
मित्यभिप्रायो भगवतो धर्मस्वामिनः ।
अन्ये पुनः कल्पयन्तीति । सूत्रेऽपि स्थितिरुक्तेति कथयन्ति । स्थिति जरां
चाभिसमस्य । स्थितिश्च स्थित्यन्यथात्वं च स्थित्यन्यथात्वमित्यभिसमस्यैकं
लक्षणमुक्तं सूत्रे, न विभागशः । कस्मात् ? “त्रीणीमानि संस्कृतलक्षणानि”
इति वचनविरोधप्रसङ्गात् । किमत्र प्रयोजनम् ? इत्यत आह—एषा ह्येषु सङ्ग-
स्पदमिति । विस्तरः-एषा हि स्थितिरेषु जात्यादिषु सङ्गास्पदं सङ्गस्थानम्,
धर्मोऽनया तिष्ठतीति । अतः श्रियमिवैनां स्थितिं कालकर्णीसहितामलक्ष्मीसहितां
दर्शयामास भगवान् तस्यां स्थित्यामनासङ्गार्थम् । 'नास्यामासङ्गः कर्त्तव्यः, यस्मा-
दियमनित्यतयानुबद्धा लक्ष्मीरिवालक्ष्म्या' इति तदेकीयं व्याख्यानम् । अपरे तु
व्याचक्षते—'नास्यामासंक्तव्यम्, यस्मादियं जरयानुबद्धा लक्ष्मीरिवालक्ष्म्या'
इति । जरया ह्यन्यथात्वलक्षणयास्या एकीकरणम्, नानित्यतयेति ।
अतश्चत्वार्येव संस्कृतलक्षणानीति । उभयोरपि पक्षयोरयमुपसंहारः ॥ ४५ ॥
अन्त्यैर्जात्यादिभिर्भवितव्यमिति । जातिसामर्थ्यात् कश्चित् संस्कृतो धर्मा
जायते, जातिरपि संस्कृता, तस्मात् तस्या अप्यन्यया जात्या भवितव्यम्,
स्वात्मनि वृत्तिविरोधात् । "सर्वं संस्कृतलक्षणैः" ( अभि० को० २.२४ ) इति
च सिद्धान्तात् । एवं जरादयोऽपि योज्याः ।
“जातिजात्यादयस्तेषाम्” इति । जातिजात्यादयश्च तेषामिति चशब्दो
लुप्तनिर्दिष्टो द्रष्टव्यः ।
१. स्वलक्षणे स्थिति०-का० ।

२५६ भाष्यस्फुटार्थसहितोऽभिधर्मकोशे [ इन्द्रिय-
तेषामपि चत्वार्यनुलक्षणानि भवन्ति—जातिजातिः, स्थितिस्थितिः,
जराजरा, अनित्यताऽनित्यता इति ।
ननु चैकस्यैकस्य चतुलक्षणी प्राप्नोति अपर्यवसानदोषश्च, तेषां पुनरन्य-
जात्यादिप्रसङ्गात् ? न प्राप्नोति; यस्मात्
तेऽष्टधर्मैकवृत्तयः ।
तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः । किमिदं वृत्तिरिति ? कारित्रं
पुरुषकारः । जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म
उत्पद्यते ? सार्धं लक्षणानुलक्षणैरष्टाभिः । तत्र जातिरात्मानं विरहय्यान्यानष्टौ
धर्मान् जनयति । जातिजातिस्तु तामेव जातिम् । तद्यथा किल काचित् कुक्कुटी
बहून्यपत्यानि प्रजायते, काचिदल्पानि; तद्वत् स्थितिरप्यात्मानं वर्जयित्वाऽन्यानष्टौ
धर्म

निर्देशः ] द्वितीयं कोशस्थानम् २५७
तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः । न ह्येते जात्यादयो धर्मा
द्रव्यतः संविद्यन्ते यथा विभज्यन्ते१ । किं कारणम् ? प्रमाणाभावात् । न ह्येषां
द्रव्यतोऽस्तित्वे किञ्चिदपि प्रमाणमस्ति—प्रत्यक्षमनुमानमाप्तगमो वा, यथा
रूपादीनां धर्माणामिति ।
यत्तर्हि सूत्र उक्तम्—"संस्कृतस्योत्पादोऽपि प्रज्ञायते, व्ययोऽपि, स्थित्य-
न्यथात्वमपि” ( ) इति ?
ग्रन्थज्ञो देवानां प्रियो न त्वर्थज्ञः । अर्थश्च प्रतिसरणमुक्तं२ भगवता ।
अनित्यतात्मानं विरहय्याष्टौ धर्मान् विनाशयति, अनित्यता:नित्यता पुनस्ता-
मेवानित्यतामिति ।
तदेतदाकाशं पाट्यत इति । विभिद्यत इत्यभिप्रायः । सप्रतिघद्रव्याभावमात्र-
माकाशम् । नाकाशं नाम किञ्चिदस्ति । तद् विभक्तं यथा न शक्यते न युज्यते
वा, एवमिमे जात्यादयोऽसन्तो धर्मा विभक्तुं न शक्यन्ते, न युज्यन्ते वा । तत
आह—न ह्येत इति । विस्तरः—नह्येते द्रव्यतः स्वलक्षणतः संविद्यन्ते यथा विभ-
ज्यन्ते, जातिरात्मानं विरहय्याष्टौ धर्मान् जनयतीत्येवं विस्तरेण विभज्यन्ते । यथा
रूपादीनां धर्माणामिति । अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणम् ।
तत्र रूपशब्दादि तावत् प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते ।
वेदनाद्यपि प्रत्यक्षेणैवोपलभ्यते; स्वसंवेद्यत्वात् । चक्षुरादि तु चक्षुर्विज्ञानादिना-
नुमानेनानुमीयते । चक्षुर्विज्ञानादिसन्निश्चयो रूपप्रसादश्चक्षुरादीनि, तद्भावा-
भावयोस्तद्भावाभावात् । आगमोऽपि चक्षुषा रूपाणि दृष्ट्वेति विस्तरः । एवं
श्रोत्रेण शब्दाञ्छ्रुत्वेति विस्तरेण । एवं गन्धादिष्वपि योज्यम् । तथा यत्किञ्चिद्
रूपमतीतानागतप्रत्युत्पन्नमिति विस्तरः । एवं वेदनादिष्वपि योज्यम् । पारसा-
न्तानिकानां त्वरूपिणां वेदनादीनामस्तित्वानुमानमात्मीयवच्छरीरविकारं दृष्ट्वा
तत्सम्प्रतिपत्तेः । आगमोऽपि—चक्षुः प्रतीत्य रूपाणि चोत्पद्यन्ते चक्षुर्विज्ञानं सह-
जाता वेदना संज्ञा चेतनेति विस्तरः । जात्यादयस्तु न चक्षुरिन्द्रियादिप्रत्यक्षा
भवन्ति । न चैषामस्तित्वे समर्थमनुमानमस्ति, न चाप्यागमो द्रव्यतोऽस्तित्वे ।
यत्तर्हि सूत्र उक्तमिति विस्तरः । ननु चायमागमोऽस्ति—संस्कृतस्योत्पादोऽपि
प्रज्ञायत इति विस्तरः । अर्थश्च प्रतिसरणमुक्तं भगवतेति । "चत्वारीमानि
भिक्षवः प्रतिसरणानि । कतमानि चत्वारि ? धर्मं प्रतिसरणं न पुद्गलः, अर्थः
प्रतिसरणं न व्यञ्जनम्, नीतार्थसूत्रं प्रतिसरणं न नेयार्थम्, ज्ञानं प्रतिसरणं न
विज्ञानम्” ( ) इति । तथार्थप्रतिसरणो भवति न व्यञ्जनप्रतिसरण इति ।
१. अभिव्यज्यन्ते—का० । २. प्रतिशरण०—का० ।
अभि० को० १७

कः पुनरस्यार्थः ? अविद्यान्धा हि बालाः संस्कारप्रबन्धमात्मत¹ आत्मीयत-
श्चाधिमुक्ताः कृतरुचयोऽभिष्वजन्ते² । तस्य मिथ्याधिमोक्षस्य व्यावर्तनार्थं
भगवांस्तस्य संस्कारप्रवाहस्य संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वं³ द्योतयितुकाम
इदमाह— “त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि” । न तु क्षणस्य । न हि
क्षणस्योत्पादादयः प्रज्ञायन्ते । न चाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति । अत
एवात्र सूत्रे— “संस्कृतस्योत्पादोऽपि प्रज्ञायते” इत्युक्तम् ।
पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञायेत ? मैवं विज्ञायि;
संस्कृतस्य वस्तुनोऽस्तित्वे लक्षणानि जलबलाकावत्, साध्वसाधुत्वे वा कन्या-
लक्षणवदिति ।
कः पुनरस्यार्थ इति । अन्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य । तमर्थमाह—
अविद्यान्धा हि बाला इति । विस्तरः—संस्कारप्रबन्धमात्मत आत्मीयतश्चाधिमुक्तः
कृतरुचयोऽभिष्वजन्त इत्यर्थः । संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वमिति पर्यायावेतौ ।
समेत्य सम्भूय प्रत्ययैः कृतम् संस्कृतम्, तं तं प्रत्ययं प्रतीत्य समुत्पन्नं प्रतीत्य-
समुत्पन्नमिति । न तु क्षणस्येति । प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदमाह-
न तु क्षणस्य संस्कृतत्वम् । न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्व-
लक्षणा धर्माः प्रज्ञायन्ते; क्षणस्य दुरवधारत्वात् । ब्रूयास्त्वम्—अप्रज्ञायमाना
अप्येते लक्षणं भवितुमर्हन्तीति ? अत आह—न चाप्रज्ञायमाना एते लक्षणं
भवितुमर्हन्तीति । प्रज्ञायमानमेव हि लक्षणं भवति, तद्यथा—जलस्य बलाकेति ।
अत एवात्रेति । अत एवात्र सूत्रे 'प्रज्ञायते' इति पदग्रहणम् ; अन्यथा हि
'संस्कृतस्योत्पादोऽपि व्ययोऽपि स्थित्यन्यथात्वमपि' इत्येवावक्ष्यत् ।
संस्कृतत्वे लक्षणानीति । संस्कृतमिति लक्षणानीत्यर्थप्रतिग्रहार्थं पुनः संस्कृत-
ग्रहणम् । जलबलाकावदिति । वैधर्म्यदृष्टान्तोऽयम् । यथा बलाका जलास्तित्वे
लक्षणम्, न पुनर्जलस्य जलत्वे लक्षणम् । मैवं विज्ञायि । किम् ? संस्कृतस्य
वस्तुनोऽस्तित्वेऽमूनि लक्षणानि । साध्वसाधुत्वे वा कन्यालक्षणवदिति । यथा
कन्यायाः शुभाशुभानि लक्षणानि यथाक्रमं साध्वसाधुत्वे लक्षणानीति । यदि
ह्यमूनि तथा संस्कृतस्य वस्तुनोऽस्तित्वे साध्वसाधुत्वे लक्षणानीष्येरन्, 'त्रीणीमानि
संस्कृतलक्षणानि' इत्युच्येत, संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत, कृतं च,
तेन ज्ञायते—संस्कृतत्वे लक्षणानीति । कथं पुनरविद्यमाना जात्यादयः प्रवाहे
१. ॰प्रवाहमा०—का० । २. श्चाधिमुक्ता अभि०—का० ।
३. ॰समुत्पन्नतां—का० ।

निर्देशः ] द्वितीयं कोशस्थानम् २५९
तत्र प्रवाहस्यादिरुत्पादः, निवृत्तिर्व्ययः, स एव प्रवाहोऽनुवर्त्तमानः
स्थितिः, तस्याः१ पूर्व्वापरविशेषः स्थित्यन्यथात्वम्। एवं च कृत्वोक्तम्—“विदिता
एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते, विदिता इव२ तिष्ठन्ति, विदिता इव
अस्तं परिक्षयं पर्य्यादानं गच्छन्ति” इति। आह चात्र—
“जातिरादिः प्रवाहस्य व्ययच्छेदः स्थितिस्तु सः।
स्थित्यन्यथात्वं तस्यैव पूर्व्वापरविशिष्टता॥
“जातिर्पूर्वो भावः स्थितिः प्रबन्धो व्ययस्तदुच्छेदः।
स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेषः” इति।
“क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् '
न च व्येत्येव तेनास्य वृथा तत्परिकल्पना॥”
व्यवस्थाप्यन्ते, प्रज्ञायन्ते वा? न ब्रूमः—जात्यादयो न संविद्यन्त इति, यथा
तु द्रव्यरूपेण विभज्यन्ते तथा न संविद्यन्त इति ब्रूमः।
यथा तर्हि भवतां संविद्यन्ते तथा कथ्यताम्? अत आह—प्रवाहस्यादिरुत्पाद
इति विस्तरः। निवृत्तिर्व्यय इति। प्रवाहस्योपरतिः=व्ययः। स एव प्रवाहो-
ऽनुवर्त्तमान इति। सदृशक्षणानुवृत्तेरनुवर्त्तमानः प्रवाहः स्थितिरित्युच्यते।
तस्याः पूर्व्वापरविशेष इति। पूर्व्वस्मादपरस्य क्षणस्य विशेषः, पूर्व्वापरयोः क्षणयोर्वा
विशेषः पूर्व्वापरविशेषः। एवञ्च कृत्वोक्तमिति। प्रवाहरूपानेवोत्पादादीन् कृत्वा-
नित्योपस्थितस्मृतितामायुष्मतः सुन्दरनन्दस्यारभ्योक्तम्। प्रवाहगता हि वेदना-
स्तस्य विदिता इवोत्पद्यन्ते विदिता इव तिष्ठन्ते। विदिता इव अस्तं परिक्षयं
पर्य्यादानं गच्छन्ति, न क्षणगताः, क्षणस्य दुरवधारत्वादिति। विदितस्य च
क्षणस्यावस्थानासम्भवात्।
एतमेवार्थं श्लोकद्वयेन संगृह्णन्नाह—जातिरादिः प्रवाहस्येति सर्व्वम्। स्थितिस्तु
स इति। स एव प्रवाहः स्थितिः। तस्यैवेति। तस्यैव प्रवाहस्य।
तदुच्छेद इति। प्रबन्धोच्छेदः।
क्षणिकस्य हि धर्मस्येति श्लोकः। क्षणिको हि धर्मः, स्थितिमन्तरेण विनश्ये-
दित्यर्थः। स्थितिरस्तीति मन्यसे चेत् : स च धर्मो व्येत्येव सत्यामपि स्थितौ,
विनश्यत्येव क्षणिकत्वात्। विनाशहेत्वभावात्। तस्माद् वृथा तत्परिकल्पना।
निष्प्रयोजना स्थितिपरिकल्पनेत्यर्थः। द्वितीयादिक्षणावस्थानेन हि स्थिति-
१. तस्य—का०। २. अवतिष्ठन्ते—का०।

तस्मात् प्रवाह एव स्थितिः । एवं च कृत्वायमप्यभिधर्मनिर्देश उपपन्नो
भवति—"स्थितिः कतमा ? उत्पन्नानां संस्काराणामविनाशः" इति । न हि
क्षणस्योत्पन्नस्याविनाशोऽस्तीति ।
यदपि च ज्ञानप्रस्थान उक्तम्—"एकस्मिंश्चित्ते क उत्पादः ? आह—
जातिः । को व्ययः ? मरणम् । किं स्थित्यन्यथात्वम् ? जरा" ( )
इति । तत्रापि निकायसभागचित्तं युज्यते ।
प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते, विनापि द्रव्यान्तर-
कल्पनया । कथमिति ? प्रतिक्षणमभूत्वाभाव उत्पादः, भूत्वाऽभावो व्ययः, पूर्वस्य
पूर्वस्योत्तरोत्तरक्षणानुबन्ध स्थितिः, तस्याविसदृशत्वं स्थित्यन्यथात्वमिति ।
यदा तर्हि सदृशा उत्पद्यन्ते, न ते निर्विशेषा भवन्ति । कथमिदं ज्ञायते ?
परिकल्पना न वृथा भवेत् । तस्मात् प्रवाह एव स्थितिः; यस्मात् क्षणिकस्य हि
धर्मस्य स्थितिपरिकल्पना व्यर्थेति ।
एवं च कृत्वायमपीति । प्रवाह एव स्थितिरिति कृत्वेत्यर्थः । न हि क्षणस्यो-
त्पन्नस्याविनाशोऽस्तीति । अत्र कस्यचिदेवमभिप्रायो भवेत्—स्थितिसद्भावा-
देवं क्षणमविनाशो धर्मस्योत्पन्नस्य । यदि हि स्थितिर्न स्यात्, सोऽप्येकः
क्षणो न स्यादिति ? न; हेतुप्रत्ययपूर्वकत्वात् तदस्तित्वस्य; "अस्मिन् सतीदं
भवति" इति वचनात् । स्थितिरुपगृह्णातीति चेत् ? स्यान्मतं हेतुप्रत्ययेभ्य
उत्पद्यमानं धर्मं स्थितिरुपगृह्णातीति । यदि स्थितिर्नोपगृह्णीयात्, किं स्यात् ?
आत्मसत्ता धर्मस्य न भवेत् । जनिका तर्हि स्थितिः प्राप्नोति, न स्थापिका ।
सन्तानमवस्थापयतीति चेत् ? हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते; हेतुप्रत्ययानां
सन्तानहेतुत्वात् ।
निकायसभागचित्तं युज्यत इति । एकस्मिन् निकायसभागेऽनेकमपि चित्त-
मेकमित्युच्यते, तन्निरात्मकसन्तानत्वादित्यभिप्रायः । तच्चित्तं युज्यत
एकस्मिंश्चित्त इति वक्तुम्, अन्यथा हि कथमेकस्यैव चित्तक्षणस्य जातिश्च मरणं
चान्यथात्वं च स्यात् ।
उत्तरोत्तरक्षणानुबन्धः स्थितिरिति । पूर्वस्य क्षणस्योत्तरः क्षणः प्रतिनिधि
भूतः; सादृश्यात् । अतः स पूर्वः क्षणोऽद्याप्यवतिष्ठत इवेति कृत्वोत्तरः क्षणः
स्थितिरुच्यते ।
यदा तर्हि सदृशा उत्पद्यन्त इति । यदा सदृशा उत्पद्यन्ते, तदा विसदृशत्वं
नास्ति । विसदृशत्वं च स्थित्यन्यथात्वमुक्तम् । अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं

निर्देशः ] द्वितीयं कोशस्थानम् २६१
क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात् तन्महाभूतानां
परिणामविशेषसिद्धेः । नातिबहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा
एव दृश्यन्ते ।
अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणा-
भावात् स्थित्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति ? न वै
संस्कृतस्य स्थितिरेवोच्यते, लक्षणम्, अपि तु स्थित्यन्यथात्वम् । अतो यस्यास्ति
स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः ।
समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता---“संस्कृतं
नाम यद्भूत्वा भवति, भूत्वा च पुनर्न भवति, यस्यास्य स्थितिसंज्ञकः प्रबन्धः
नास्तीत्यव्यापिलक्षणं स्यादित्यभिप्रायः । क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्येति ।
विस्तरः---क्षिप्तं च तदक्षिप्तं च क्षिप्ताक्षिप्तम्, बलिदुर्बलाभ्यां क्षिप्तं बलिदुर्बल-
क्षिप्तम् । क्षिप्ताक्षिप्तं च तद् बलिदुर्बलक्षिप्तं च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तम् ।
किं तत् ? वज्रादि । आदिग्रहणेन लोहपाषाणादेर्ग्रहणम् ।
अपरे पुनरेवं विग्रहं कुर्वन्ति---क्षिप्तश्चाक्षिप्तश्च क्षिप्ताक्षिप्तौ, बलिदुर्बलाभ्यां
क्षिप्तौ बलिदुर्बलक्षिप्तौ । क्षिप्तस्यैवायं द्विधाभेदः । क्षिप्ताक्षिप्तौ च बलिदुर्बलक्षिप्तौ
च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तम् । वज्रमादिरस्य वज्रादिः । अस्मिन् विग्रहे
वज्रादि विशेषणम्, क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं विशेष्यम् ।
तस्य वज्रादेरेवंविधस्य यथासम्भवं चिराशुतरपातः; क्षिप्तस्य चिरं पातः,
अक्षिप्तस्य चिरतरः पातः; दुर्बलक्षिप्तस्याशुपातः, बलिक्षिप्तस्याशुतरः पातः,
तस्य कालः, कालस्य भेदः, चिराशुतरपातकालभेदात् । तद्गतानां वज्रादिमहाभूता-
नाम् । परिणामविशेषः क्षिप्तस्यान्यथापरिणामो येन चिरं पातः । एवं यावद्
बलिक्षिप्तस्यान्यथापरिणामो येनाशुतरः पातः, तस्य परिणामविशेषस्य सिद्धिः,
तस्याः परिणामविशेषसिद्धेः । न ते निर्विशेषा भवन्तीत्यधिकृतम् ।
अन्तिमस्य तर्हीति । शब्दस्यार्चिषश्च, दीपादेर्याऽन्त्यः क्षणः सन्तानोपरति-
काले, निरुपधिशेषनिर्वाणकाले वा अर्हतः । तस्य षडायतनस्योत्तरक्षणाभावात्
स्थितिर्नास्ति । स्थितेरभावात् स्थित्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था
प्राप्नोति, येयमुक्ता तस्याविसदृशत्वं स्थित्यन्यथात्वमिति । यस्यास्ति स्थितिस्तस्या-
वश्यमन्यथात्वं भवति । यस्य नास्ति स्थितिस्तस्य नास्ति स्थित्यन्यथात्वमित्युक्तं
भवति । सम्भवं हि प्रत्येवमुक्तं सूत्रे---'त्रीणीमानि संस्कृतलक्षणानि' इति ।
तस्मादन्त्यशब्दार्चिःक्षणप्रभृतीनामुत्पादव्ययावेव द्वे लक्षणे---इत्यभिप्रेयते,