अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 268, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २६७
कथमचित्तिकायाः समापत्तित्वम् ! महाभूतसमतापादनात् । समापत्ति-
चित्तेन च तां समापद्यन्ते = समागच्छन्तीति समापत्तिः ।
किं पुनरेते समापत्ती द्रव्यतः स्तः ? उताहो प्रज्ञप्तितः ? द्रव्यत इत्याह ।
चित्तोत्पत्तिप्रतिबन्धनात् ? न; समापत्तिचित्तेनैव तत्प्रतिबन्धनात् ।
समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते, येन कालान्तरं चित्तस्या-
प्रवृत्तिमात्रं भवति; तद्विरुद्धाश्रयापादनात् । यासौ समापत्तिरिति प्रज्ञप्यते,
तच्चाप्रवृत्तिमात्रं न पूर्वमासीत्, न पश्चाद् भवति व्युत्थितस्येति संस्कृतासौ
समापत्तिः प्रज्ञप्यते ।
अथ वा—आश्रयस्यैव तथा समापादनं समापत्तिः ।
कथमचित्तिकायाः समापत्तित्वमिति । ध्यानादिसमापत्तित्वमर्हति । समा-
धिना