अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 265, कुल 1258 में से
संदर्भ में पढ़ें२४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
यद्येष नियमः, कथं व्युत्क्रान्तसमापत्तयो भवन्ति ? प्राथमकल्पिकं प्रत्येव
नियमः । प्राप्तप्रकामवशित्वात् तु सन्तो विलङ्घ्यापि समापद्यन्ते ।
एवमनयोः समापत्त्योर्भूमितोऽपि विशेषः; चतुर्थध्यानतयाऽग्रभूमिकत्वात् ।
प्रयोगतोऽपि, निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् ।
सन्तानतोऽपि, पृथग्जनार्यसन्तानत्वात् ।
फलतोऽपि, आसंज्ञिकभवाग्रफलत्वात् ।
वेदनीयतोऽपि, नियतोभयथावेदनीयत्वात्¹ ।
प्रथमोत्पादनतोऽपि, द्विधातुमनुष्योत्पादनात् ।
“स तत्र रूपधातावुत्पन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते
च” ( ) इति । तस्मादस्त्यतः परिहाणिरिति गम्यते ।
युज्यत एवैतद् वैभाषिकाणाम् । सौत्रान्तिकानान्तु कथमेतत् । आर्य एव हि
निरोधसमापत्तिलाभी, न चार्यमार्गादस्ति परिहाणिरिति सौत्रान्तिकसिद्धान्तः ।
तस्यार्यस्य कथमुपरिभूमिकादार्यमार्गात् परिहाणिरितीष्यते ? तेषामप्येतत् सूत्रं
न विरुध्यते । कथम् ? यो हि कश्चित् भवाग्रलाभी नियामवक्रामति सोऽनागामी
सन्निरोधसमापत्तिमुत्पादयेत्, स भवाग्रात् निरोधसमापत्तेश्च परिहीयेत, न तु
मार्गात्; ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिदनुत्पादित्वात् । स परिहीणो भूत्वा
ध्यानमुत्पाद्य रूपधातावुत्पद्येत । तस्मादस्त्यतः परिहाणिः, न चार्यमार्गात्
परिहाणिरिति न स्वसिद्धान्तविरोधः । नवानुपूर्वसमापत्तय इति । चत्वारि
ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश्च । प्राथमकल्पिकं प्रतीति । आदितः
समापत्तिविधायकं प्रतीत्यर्थः ।
नियतोभयथावेदनीयत्वादिति । नियतवेदनीयासंज्ञिसमापत्तिरुपपद्यवेदनीय-
त्वात् । उभयथा वेदनीया निरोधसमापत्तिर्नियता नियतवेदनीयेत्यर्थः । नियत-
वेदनीया अनागामिनः; अनियतवेदनीया अर्हतः, इहैव परिनिर्वाणात् ।
प्रथमोत्पादनतोऽपीति । असंज्ञिसमापत्ति कश्चित् प्रथमं मनुष्येषूत्पादयति,
कश्चित् रूपधातौ; निरोधसमापत्ति तु मनुष्येष्वेवोत्पादयति, परिहीणस्तु
रूपधातौ । अथ कस्मान्मनुष्येष्वेवैनामुत्पादयति ? संज्ञावेदनाद्वारेण वितर्क-
विचारादिचेत्तप्रचारपरिखिन्नोऽनागामी तां तेन विहारेण सुखं विहरेयमिति
निरोधसमापत्तिमुत्पादयति । रूपधातुपपन्नस्त्वनागामी रूपधातोः शान्तत्वान्न
तथा तत्रत्यचैतसिकप्रवृत्त्या पीड्यत इति न प्रथमतस्तत्रोत्पादयति, परिहीणस्तु
१. नियतानियतोपपद्योभयथा०--का० ।