अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 266, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् २४५
कस्मात् पुनरेते चित्तचैत्तनिरोधस्वभावे सत्याप्यसंज्ञिसमापत्तिः, संज्ञावेदित-
निरोधसमापत्तिश्चोच्येते ? तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात्, वेदनादिज्ञानेऽपि
परचित्तज्ञानवचनवत् ।
कथमिदानीं बहुकालनिरुद्धाच्चित्तात्¹ पुनरपि चित्तं जायते ? अतीतस्या-
प्यस्तित्वाद् इष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् ।
पूर्वाभ्यासस्तस्तामुत्पादयति । आरूप्यधातुपपन्नोऽप्यत एव शान्तत्वाच्चैवासंज्ञाना-
संज्ञायतनोपपन्नो नोत्पादयति । निरुपधिशेषनिर्वाणप्रसङ्गाद्वा, तत्र हि रूपं नास्ति ।
चित्तचेत्ता यदि निरुध्येरन् परिनिर्वाणमेवास्य स्यात् । चित्तविप्रयुक्तानां केवला-
नामवस्थानासामर्थ्यान्नियतवेदनीयस्य च कर्मणोऽपरिसमाप्तफलस्य विघ्नभावे-
नावस्थानान्न परिनिर्वाणसम्भवः । असंज्ञिसमापत्ति तु मोक्षसंज्ञया निःसरण-
संज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधातावपि प्रथमत समापद्यते ।
कस्मात् पुनरेते इति । विस्तरः-सर्वचित्तचैत्तनिरोधस्वभावत्वात्, उभे
अप्येते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्यभिप्रायः । तत्प्रातिकूल्येन
तत्समापत्तिप्रयोगादिति । संज्ञावेदनाप्रतिकूल्येन तयोः समापत्त्योः प्रयोगात् ।
संज्ञाप्रातिकूल्येनासंज्ञिसमापत्तिप्रयोगः संज्ञारोगः संज्ञाशल्यः संज्ञागण्डः एतच्छा-
न्तमेतत् प्रणीतमिति विस्तरः । संज्ञावेदितप्रातिकूल्येन निरोधसमापत्तिप्रयोगः ।
परचित्तज्ञानवचनवदिति । यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न
ज्ञायन्ते कदाचित्, अथ च 'परस्य चित्तं ज्ञास्यामि' इत्येवं प्रथमतः प्रयोगात्
परचित्तज्ञानमित्युच्यते, न परचित्तचैत्तज्ञानमिति; तद्वदिहाप्यनयोः समा-
पत्त्योस्तथा वचनम् ।
तत्राचित्तकान्येव निरोधासंज्ञिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः, अपरि-
स्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः, आलयविज्ञानसचित्तका-
नीति योगाचाराः-इति सिद्धान्तभेदः । तस्मादिदमुपन्यस्यते-कथमिदानी बहु-
कालनिरुद्धादिति । विस्तरः-बहुकालनिरुद्धग्रहणं समनन्तरनिरुद्धनिरासार्थम् ।
समनन्तरनिरुद्धादिदानीं कथं भवति ? यदि समनन्तरनिरुद्धमस्तीत्यभ्युपगतम्,
बहुकालनिरुद्धमप्यस्तीति किं नाभ्युपगम्यत इति वैभाषिकाः । न समनन्तर-
निरुद्धस्यास्तित्वं ब्रूमः, अपि तु वर्त्तमानं चित्तमात्मनोऽन्यचित्तहेतुभावं
व्यवस्थाप्य निरुध्यते, अन्यच्चोत्पद्यते, तुलादण्डनामोन्नामवत् । तच्च निरुद्धम-
परं च चित्तमुत्पन्नं भवतीत्यनन्तरनिरुद्धाच्चित्ताच्चित्तान्तरमुत्पद्यत इत्युच्यते ।
“वर्त्तमानसामीप्ये वर्त्तमानवद्” (पा० सू० ३.३.१३१) इति कृत्वा ।
१. बहुकालं निरु०—का० ।