सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 279, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 279

कः पुनरस्यार्थः ? अविद्यान्धा हि बालाः संस्कारप्रबन्धमात्मत¹ आत्मीयत-
श्चाधिमुक्ताः कृतरुचयोऽभिष्वजन्ते² । तस्य मिथ्याधिमोक्षस्य व्यावर्तनार्थं
भगवांस्तस्य संस्कारप्रवाहस्य संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वं³ द्योतयितुकाम
इदमाह— “त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि” । न तु क्षणस्य । न हि
क्षणस्योत्पादादयः प्रज्ञायन्ते । न चाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति । अत
एवात्र सूत्रे— “संस्कृतस्योत्पादोऽपि प्रज्ञायते” इत्युक्तम् ।
पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञायेत ? मैवं विज्ञायि;
संस्कृतस्य वस्तुनोऽस्तित्वे लक्षणानि जलबलाकावत्, साध्वसाधुत्वे वा कन्या-
लक्षणवदिति ।
कः पुनरस्यार्थ इति । अन्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य । तमर्थमाह—
अविद्यान्धा हि बाला इति । विस्तरः—संस्कारप्रबन्धमात्मत आत्मीयतश्चाधिमुक्तः
कृतरुचयोऽभिष्वजन्त इत्यर्थः । संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वमिति पर्यायावेतौ ।
समेत्य सम्भूय प्रत्ययैः कृतम् संस्कृतम्, तं तं प्रत्ययं प्रतीत्य समुत्पन्नं प्रतीत्य-
समुत्पन्नमिति । न तु क्षणस्येति । प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदमाह-
न तु क्षणस्य संस्कृतत्वम् । न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्व-
लक्षणा धर्माः प्रज्ञायन्ते; क्षणस्य दुरवधारत्वात् । ब्रूयास्त्वम्—अप्रज्ञायमाना
अप्येते लक्षणं भवितुमर्हन्तीति ? अत आह—न चाप्रज्ञायमाना एते लक्षणं
भवितुमर्हन्तीति । प्रज्ञायमानमेव हि लक्षणं भवति, तद्यथा—जलस्य बलाकेति ।
अत एवात्रेति । अत एवात्र सूत्रे 'प्रज्ञायते' इति पदग्रहणम् ; अन्यथा हि
'संस्कृतस्योत्पादोऽपि व्ययोऽपि स्थित्यन्यथात्वमपि' इत्येवावक्ष्यत् ।
संस्कृतत्वे लक्षणानीति । संस्कृतमिति लक्षणानीत्यर्थप्रतिग्रहार्थं पुनः संस्कृत-
ग्रहणम् । जलबलाकावदिति । वैधर्म्यदृष्टान्तोऽयम् । यथा बलाका जलास्तित्वे
लक्षणम्, न पुनर्जलस्य जलत्वे लक्षणम् । मैवं विज्ञायि । किम् ? संस्कृतस्य
वस्तुनोऽस्तित्वेऽमूनि लक्षणानि । साध्वसाधुत्वे वा कन्यालक्षणवदिति । यथा
कन्यायाः शुभाशुभानि लक्षणानि यथाक्रमं साध्वसाधुत्वे लक्षणानीति । यदि
ह्यमूनि तथा संस्कृतस्य वस्तुनोऽस्तित्वे साध्वसाधुत्वे लक्षणानीष्येरन्, 'त्रीणीमानि
संस्कृतलक्षणानि' इत्युच्येत, संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत, कृतं च,
तेन ज्ञायते—संस्कृतत्वे लक्षणानीति । कथं पुनरविद्यमाना जात्यादयः प्रवाहे
१. ॰प्रवाहमा०—का० । २. श्चाधिमुक्ता अभि०—का० ।
३. ॰समुत्पन्नतां—का० ।