अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 269, कुल 1258 में से
संदर्भ में पढ़ें२७८ भाष्यस्फुटार्थासहितोऽभिधर्मकोशे [ इन्द्रिय-
एवमासंज्ञिकमपि द्रष्टव्यम्। चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते,
तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति ॥ ४४ ॥
व्याख्याते समापत्ती ॥
जीवितं कतमत् ?
आयुर्जीवितम्
एवं ह्युक्तमभिधर्मे—"जीवितेन्द्रियं कतमत् ? त्रैधातुकमायुः"
( ) इति । एतच्चैव न ज्ञायते—आयुर्नाम क एष धर्म इति ?
आधार ऊष्मविज्ञानयोर्हि यः ।
इदमुक्तं भगवता—
“आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतनः” ॥ ( ) इति ।
तद् य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुः, तद् ‘आयुः’।
तस्येदानीमायुषः क आधारभूतः ? ते एवोष्मविज्ञाने ।
एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते, यद्भ्रंशादितरौ
निवर्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः ? आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तम्,
कर्मणा तावदनुवर्त्तनात् ।
ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते ? मा भूत् सर्वं विज्ञान-
मामरणाद् विपाक इति ।
ऊष्मणस्तर्हि कर्माधारभूतं भविष्यति, ऊष्मा च विज्ञानस्य ? एवमप्या-
रूप्येष्वनाधारं विज्ञानं स्याद्; ऊष्माभावात् । तस्य पुनः कर्माधारो भविष्यति ?
संस्कृतावस्थाविशेषत्वादस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्यर्थः । एवमासंज्ञिक-
मिति विस्तरः । चित्तमेवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरुद्धं लभते, तच्चा-
प्रवृत्तिमात्रम् । चित्तचेत्तानामिति वाक्यशेषः । असंज्ञिकमिति प्रज्ञप्यते, न
तु द्रव्यतोऽस्तीत्यभिप्रायः ॥ ४४ ॥
य ऊष्मणः इति विस्तरः । ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः ।
तस्माज्जीवितमूष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस्तयोरेव । नित्यानि-
वृत्तिप्रसङ्ग इति । नित्यमेषां स्रोतः प्रसज्येत ।