सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 278, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 278

निर्देशः ] द्वितीयं कोशस्थानम् २५७
तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः । न ह्येते जात्यादयो धर्मा
द्रव्यतः संविद्यन्ते यथा विभज्यन्ते१ । किं कारणम् ? प्रमाणाभावात् । न ह्येषां
द्रव्यतोऽस्तित्वे किञ्चिदपि प्रमाणमस्ति—प्रत्यक्षमनुमानमाप्तगमो वा, यथा
रूपादीनां धर्माणामिति ।
यत्तर्हि सूत्र उक्तम्—"संस्कृतस्योत्पादोऽपि प्रज्ञायते, व्ययोऽपि, स्थित्य-
न्यथात्वमपि” ( ) इति ?
ग्रन्थज्ञो देवानां प्रियो न त्वर्थज्ञः । अर्थश्च प्रतिसरणमुक्तं२ भगवता ।
अनित्यतात्मानं विरहय्याष्टौ धर्मान् विनाशयति, अनित्यता:नित्यता पुनस्ता-
मेवानित्यतामिति ।
तदेतदाकाशं पाट्यत इति । विभिद्यत इत्यभिप्रायः । सप्रतिघद्रव्याभावमात्र-
माकाशम् । नाकाशं नाम किञ्चिदस्ति । तद् विभक्तं यथा न शक्यते न युज्यते
वा, एवमिमे जात्यादयोऽसन्तो धर्मा विभक्तुं न शक्यन्ते, न युज्यन्ते वा । तत
आह—न ह्येत इति । विस्तरः—नह्येते द्रव्यतः स्वलक्षणतः संविद्यन्ते यथा विभ-
ज्यन्ते, जातिरात्मानं विरहय्याष्टौ धर्मान् जनयतीत्येवं विस्तरेण विभज्यन्ते । यथा
रूपादीनां धर्माणामिति । अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणम् ।
तत्र रूपशब्दादि तावत् प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते ।
वेदनाद्यपि प्रत्यक्षेणैवोपलभ्यते; स्वसंवेद्यत्वात् । चक्षुरादि तु चक्षुर्विज्ञानादिना-
नुमानेनानुमीयते । चक्षुर्विज्ञानादिसन्निश्चयो रूपप्रसादश्चक्षुरादीनि, तद्भावा-
भावयोस्तद्भावाभावात् । आगमोऽपि चक्षुषा रूपाणि दृष्ट्वेति विस्तरः । एवं
श्रोत्रेण शब्दाञ्छ्रुत्वेति विस्तरेण । एवं गन्धादिष्वपि योज्यम् । तथा यत्किञ्चिद्
रूपमतीतानागतप्रत्युत्पन्नमिति विस्तरः । एवं वेदनादिष्वपि योज्यम् । पारसा-
न्तानिकानां त्वरूपिणां वेदनादीनामस्तित्वानुमानमात्मीयवच्छरीरविकारं दृष्ट्वा
तत्सम्प्रतिपत्तेः । आगमोऽपि—चक्षुः प्रतीत्य रूपाणि चोत्पद्यन्ते चक्षुर्विज्ञानं सह-
जाता वेदना संज्ञा चेतनेति विस्तरः । जात्यादयस्तु न चक्षुरिन्द्रियादिप्रत्यक्षा
भवन्ति । न चैषामस्तित्वे समर्थमनुमानमस्ति, न चाप्यागमो द्रव्यतोऽस्तित्वे ।
यत्तर्हि सूत्र उक्तमिति विस्तरः । ननु चायमागमोऽस्ति—संस्कृतस्योत्पादोऽपि
प्रज्ञायत इति विस्तरः । अर्थश्च प्रतिसरणमुक्तं भगवतेति । "चत्वारीमानि
भिक्षवः प्रतिसरणानि । कतमानि चत्वारि ? धर्मं प्रतिसरणं न पुद्गलः, अर्थः
प्रतिसरणं न व्यञ्जनम्, नीतार्थसूत्रं प्रतिसरणं न नेयार्थम्, ज्ञानं प्रतिसरणं न
विज्ञानम्” ( ) इति । तथार्थप्रतिसरणो भवति न व्यञ्जनप्रतिसरण इति ।
१. अभिव्यज्यन्ते—का० । २. प्रतिशरण०—का० ।
अभि० को० १७