अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 271, कुल 1258 में से
संदर्भ में पढ़ें२५० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
तरतमप्राप्तिकालभेदानुपपत्तिः, पतनानुपपत्तिश्च । वायुना तत्प्रतिबन्ध इति चेत् ?
अर्वाक्पतनप्रसङ्गो न वा कदाचिद् वायोरविशेषात् । एवं तु वर्णयन्ति—
द्रव्यान्तरमेवायुरस्तीति ।
अथ किमायुःक्षयादेव मरणं भवति ? आहोस्विदन्यथापि ? प्रज्ञाप्तावुक्तम्—
“आयुःक्षयान्मरणम्, न पुण्यक्षयात्” ( ) इति । चतुष्कोटिः ।
प्रथमा कोटिः—आयुर्विपाकस्य कर्मणः पर्यादानात् । द्वितीया—भोगविपाकस्य ।
तृतीया—उभयोः । चतुर्थी—विषमापरिहारेण ।
आयुरुत्सर्गाच्चेति वक्तव्यम् ? न वक्तव्यम् । आयुःक्षयादेव तन्मरणम्;
प्रथमाकोट्यन्तर्गमात् । क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् ।
तस्माद् ‘उभयक्षये सति मरणमायुःक्षयाद्’ इत्युक्तम् ।
ज्ञानप्रस्थानेऽप्युक्तम्—“आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।
सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह—कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं
निरोधसमापत्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।
समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम्”
( ) ।
किम् ? देशान्तरे शीघ्रतरतमप्राप्तिकालभेदानुपपत्तिः । शीघ्रा, शीघ्रतरा, शीघ्रतमा
प्राप्तिः शीघ्रतरतमप्राप्तिः । कैः ? सह देशान्तरैराकाशदेशादिभिः, तस्याः कालः,
तस्य भेदः, तस्यानुपपत्तिः । शीघ्रा, शीघ्रतरा, शीघ्रतमा देशान्तरैः सह प्राप्तिर्नो-
पपद्यते । पूर्वोक्तादस्मात् कारणद्वयात् संस्कारस्याविशिष्टत्वात् पतनानुपपत्तिश्च ।
पतनं चेषोर्नोपपद्यते । सति संस्कारे न ह्येतदिष्टम्—सति कारणे कार्यं न भव-
तीति । वायुना तत्प्रतिबन्ध इति चेत् ? स्यान्मतम्—वायुरत्र प्रतिबन्धः, प्रति-
बन्धविशेषाच्छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद् द्रव्य-
संयोगादभावः कर्मणः इति वचनात् । अत्रोच्यते—अर्वाक्पतनप्रसङ्गः । ज्यावि-
भागानन्तरमेवार्वाग्वरत एव वायुसंयोगात् स इषुः पतेत् । अथ प्रतिबध्यमा-
नोऽपि वायुना नार्वाक् पतेत्, न वा कदाचित् पतेत्, न पश्चादपि पतेदित्यर्थः ।
किं कारणम् ? वायोरविशेषात् । यथा हि समीपे वायुः, एवं दूरेऽपीति ।
'चतुर्थी विषमापरिहारेणेति । अत्यशनादेर्विषमस्यापरिहारेण । क्षीणे त्वायुषि
पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् । तेन तृतीया कोटिर्न प्राप्नोति । तस्मादुभय-
क्षये सति मरणमुभयक्षयादिति । उभयक्षये सतीति योऽर्थः सोऽर्थ उभयक्षयादि-