अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 281, कुल 1258 में से
संदर्भ में पढ़ेंतस्मात् प्रवाह एव स्थितिः । एवं च कृत्वायमप्यभिधर्मनिर्देश उपपन्नो
भवति—"स्थितिः कतमा ? उत्पन्नानां संस्काराणामविनाशः" इति । न हि
क्षणस्योत्पन्नस्याविनाशोऽस्तीति ।
यदपि च ज्ञानप्रस्थान उक्तम्—"एकस्मिंश्चित्ते क उत्पादः ? आह—
जातिः । को व्ययः ? मरणम् । किं स्थित्यन्यथात्वम् ? जरा" ( )
इति । तत्रापि निकायसभागचित्तं युज्यते ।
प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते, विनापि द्रव्यान्तर-
कल्पनया । कथमिति ? प्रतिक्षणमभूत्वाभाव उत्पादः, भूत्वाऽभावो व्ययः, पूर्वस्य
पूर्वस्योत्तरोत्तरक्षणानुबन्ध स्थितिः, तस्याविसदृशत्वं स्थित्यन्यथात्वमिति ।
यदा तर्हि सदृशा उत्पद्यन्ते, न ते निर्विशेषा भवन्ति । कथमिदं ज्ञायते ?
परिकल्पना न वृथा भवेत् । तस्मात् प्रवाह एव स्थितिः; यस्मात् क्षणिकस्य हि
धर्मस्य स्थितिपरिकल्पना व्यर्थेति ।
एवं च कृत्वायमपीति । प्रवाह एव स्थितिरिति कृत्वेत्यर्थः । न हि क्षणस्यो-
त्पन्नस्याविनाशोऽस्तीति । अत्र कस्यचिदेवमभिप्रायो भवेत्—स्थितिसद्भावा-
देवं क्षणमविनाशो धर्मस्योत्पन्नस्य । यदि हि स्थितिर्न स्यात्, सोऽप्येकः
क्षणो न स्यादिति ? न; हेतुप्रत्ययपूर्वकत्वात् तदस्तित्वस्य; "अस्मिन् सतीदं
भवति" इति वचनात् । स्थितिरुपगृह्णातीति चेत् ? स्यान्मतं हेतुप्रत्ययेभ्य
उत्पद्यमानं धर्मं स्थितिरुपगृह्णातीति । यदि स्थितिर्नोपगृह्णीयात्, किं स्यात् ?
आत्मसत्ता धर्मस्य न भवेत् । जनिका तर्हि स्थितिः प्राप्नोति, न स्थापिका ।
सन्तानमवस्थापयतीति चेत् ? हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते; हेतुप्रत्ययानां
सन्तानहेतुत्वात् ।
निकायसभागचित्तं युज्यत इति । एकस्मिन् निकायसभागेऽनेकमपि चित्त-
मेकमित्युच्यते, तन्निरात्मकसन्तानत्वादित्यभिप्रायः । तच्चित्तं युज्यत
एकस्मिंश्चित्त इति वक्तुम्, अन्यथा हि कथमेकस्यैव चित्तक्षणस्य जातिश्च मरणं
चान्यथात्वं च स्यात् ।
उत्तरोत्तरक्षणानुबन्धः स्थितिरिति । पूर्वस्य क्षणस्योत्तरः क्षणः प्रतिनिधि
भूतः; सादृश्यात् । अतः स पूर्वः क्षणोऽद्याप्यवतिष्ठत इवेति कृत्वोत्तरः क्षणः
स्थितिरुच्यते ।
यदा तर्हि सदृशा उत्पद्यन्त इति । यदा सदृशा उत्पद्यन्ते, तदा विसदृशत्वं
नास्ति । विसदृशत्वं च स्थित्यन्यथात्वमुक्तम् । अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं