अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 277, कुल 1258 में से
संदर्भ में पढ़ें२५६ भाष्यस्फुटार्थसहितोऽभिधर्मकोशे [ इन्द्रिय-
तेषामपि चत्वार्यनुलक्षणानि भवन्ति—जातिजातिः, स्थितिस्थितिः,
जराजरा, अनित्यताऽनित्यता इति ।
ननु चैकस्यैकस्य चतुलक्षणी प्राप्नोति अपर्यवसानदोषश्च, तेषां पुनरन्य-
जात्यादिप्रसङ्गात् ? न प्राप्नोति; यस्मात्
तेऽष्टधर्मैकवृत्तयः ।
तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः । किमिदं वृत्तिरिति ? कारित्रं
पुरुषकारः । जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म
उत्पद्यते ? सार्धं लक्षणानुलक्षणैरष्टाभिः । तत्र जातिरात्मानं विरहय्यान्यानष्टौ
धर्मान् जनयति । जातिजातिस्तु तामेव जातिम् । तद्यथा किल काचित् कुक्कुटी
बहून्यपत्यानि प्रजायते, काचिदल्पानि; तद्वत् स्थितिरप्यात्मानं वर्जयित्वाऽन्यानष्टौ
धर्म