अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
१३६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
न्धबधिरयोरकान्तरूपत्वात् । आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् ।
चक्षुःश्रोत्रविज्ञानयो संसम्प्रयोगयोरुत्पत्तौ । रूपदर्शनशब्दश्रवणयोश्चासाधा-
रणकारणत्वे ।
घ्राणजिह्वाकायानामात्मभावशोभाया पूर्ववत्, आत्मभावपरिकर्षणे तै
कवलीकाराहारपरिभोगात् । घ्राणादिविज्ञानाना ससम्प्रयोगाणामुत्पत्तौ ।
गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पर्शनानां चासाधारणकारणत्व इति ।
द्वयोः किल ।
चतुर्णां,
स्त्री-पुरुष-जीवित-मनइन्द्रियाणां द्वयोरर्थयोः प्रत्येकमधिपत्यम् । स्त्रीपुरुषे-
न्द्रिययोस्तावत् सत्त्वभेदविकल्पयोः । तत्र सत्त्वभेदः—स्त्री, पुरुष इति ।
सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् ।
दृष्ट्वा श्रुत्वा च
निर्देश १ ] द्वितीयं कोशस्थानम् १३७
संक्लेशव्यवदानयोरित्यपरे । तथा हि—तद्वियुक्तविकलान१ षण्ढपण्डको-
भयव्यञ्जनानामसंवरानन्तर्यकुशलमूलसमुच्छेदा न भवन्ति, संवरफलप्राप्ति-
वैराग्याणि चेति ।
संक्लेशव्यवदानयोरित्यपर इति पूर्वाचार्यः, न सत्त्वभेदविकल्पयो., अन्तरेणापि
पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धे । विकल्पकृतश्च सत्त्वभेद इत्यभिप्राय ।
तद्वियुक्तविकलानामिति । वियुक्ताश्च ते विकलाश्च वियुक्तविकला, ताभ्या
स्त्रीपुरुषेन्द्रियाभ्यां वियुक्तविकला. तद्वियुक्तविकला । के ? षण्ढपण्डकोभय-
व्यञ्जना २ । तद्वियुक्ता षण्ढपण्डका., तेषा स्त्रीपुरुषेन्द्रियाभावात् । षण्ढ-
पण्डकाना गुण क.विशेष. ? षण्ढका स्वभावतो नि.स्त्रीपुरुषेन्द्रिया., पण्डका
उपक्रमेणोपहतेन्द्रियाः । विनये तु पण्डका एव पञ्च पठ्यन्ते—१ प्रकृति-
पण्डक , २ ईर्ष्यापण्डक , ३ पक्षपण्डक., ४ आसेकपण्डक , ५ लूनपण्डक-
श्चेति । तत्र प्रकृतिपण्डक षण्ढ इहाभिप्रेतः । यस्य हि प्रकृत्या व्यञ्जनं नास्ति
स प्रकृतिपण्डक । शेषा इह पण्डका इष्यन्ते । लूनपण्डवो हि तावदिन्द्रिय-
च्छेदादिन्द्रियविकल इति स्फुट एष. । पक्षपण्डकादयस्त्विन्द्रियाकर्मण्यत्वेन
तद्विकला एव । इन्द्रियकर्मण्यत्वकालेऽपि तद्विकला इति व्यवस्थाप्यन्त एव,
तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात्, प्रसवाजनकत्वाच्च । इन्द्रिय-
सद्भावाशङ्कानिवृत्त्यर्थमेव चेह षण्ढपण्डका इति पृथक् पाठ, अन्यथा हि
विनयवदिहाप्यभिधर्मे 'पण्डका' इत्येव पठ्येरन् । उभयव्यञ्जनास्तद्विकला ,
स्थानभ्रंशवैकल्याद्, अल्पसुखहेतुत्ववैकल्याच्च ।
अपरे व्याचक्षते—'तद्वियुक्ता षण्ढा , तद्विकला पण्डका., उपक्रम-
वैकल्यात् । उभयव्यञ्जनाश्च तद्विकला , स्थानभ्रंशवैकल्याद्, अल्पसुखहेतुत्व-
वैकल्याच्च' इति ।
तेषामसंवरादीनि न भवन्ति, "नृणामसंवरो हित्वा षण्ढपण्डद्विधाकृतीन् '
( अभि० ४४४ ) । आनन्तर्यं षण्ढादीना तु नेष्यते, "अल्पोपकारालज्जित्वात्"
अभि. ४.९८), "छिनत्ति स्त्रीपुमान् दृष्टिचरित" ( अभि० ४८१ ) इति
वचनात् । स्त्रीपुरुषाणा तु तानि भवन्ति । अत संक्लेशे आधिपत्यं स्त्रीपुरुषे-
न्द्रिययो । संवरफलप्राप्तिवैराग्याणि चेति । संवरस्त्रिविध.—प्रातिमोक्षसंवर ,
ध्यानसंवर , अनास्रवसंवरश्चेति । तेषामेकोऽपि संवरो न भवति, किमङ्ग सर्व.,
"संवरोऽशेषम्' (४ ४४, इति वचनात् । अत एव च स्रोतआपत्त्यादिफल-
१ तद्विप्रयुक्तविकल्पाना—का० । २. ०षण्ठ०—इति मुद्रित पाठ सर्वत्र ।
३. इत्येव—मुद्रित पाठ ।
१३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
जीवितेन्द्रियस्य निकायसभागसम्बन्धसाधारणयोः ।
मनइन्द्रियस्य पुनर्भवसम्बन्धवशिभावानुवर्त्तनयोः ।
तत्र पुनर्भवसम्बन्धे यथोक्तम्- “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्त-
योरन्यतरान्यतरचित्तं सम्मुखीभूतं भवति— अनुनयसहगतं वा, प्रतिघसहगतं वा”
( ) इति ।
वशिभावानुवर्त्तने यथोक्तम्— “चित्तेनायं लोको नीयते” ( )
इति विस्तरः ।
यत् पुनः सुखादीन्द्रियपञ्चकम्, यानि चाष्टौ श्रद्धादीनि, तेषां
पञ्चकाष्टानां संक्लेशव्यवदानयोः । ९ ।।
आधिपत्यं यथाक्रमं पञ्चाना सुखादीना संक्लेशे; रागादीनां तऽनुशा-
यित्वात् । श्रद्धादीना व्यवदाने । तैर्हि१ व्यवदायते' । व्यवदानेऽपि सुखा-
प्राप्तिः । कामादिवैराग्यं च तेषा न सम्भवति । स्त्रीपुरुषाणा तु भवतीति,
अतो व्यवदानेऽपि स्त्रीपुरुषेन्द्रिययोराधिपत्यमिति ।
निकायसभागसम्बन्धसन्धारणयोरिति । जीवितेन्द्रियस्य निकायसभागोत्पत्तौ
निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते, ' निकायसभागसन्धारणे
चाधिपत्यम्, जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात् । मनइन्द्रियस्य पुनर्भवसम्बन्ध
इति । क्लिष्टेन पुनर्भवसम्बन्धात् । जीवितेन्द्रियादस्य को विशेष ? जीविते-
न्द्रियस्य अन्तराभव एव सम्बन्धनम्, मन इन्द्रियस्य तूपपत्तिभवेऽपि ।
समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति, मनइन्द्रियं
तु भिन्नकालमपि पुनर्भवे तत्सम्बन्धनं करोति । वशिभावानुवर्तन इति । चित्तस्य
वशिभावमनुवर्तते लोको धर्मो वा । यथोक्तम्—'चित्तेनायं लोको नीयते' इति
विस्तरः । गाथायामप्युक्तम्—
“चित्तेन नीयते लोकः, चित्तेन परिकृष्यते । –
एकधर्मस्य चित्तस्य सर्वधर्मा वशानुगाः ॥”
( सं० नि० १.२.७ ) इति ।
रागादीनां तदनुशायित्वादिति । तेषु सुखादिषु अनुशयितुं शीलमेषाम्—
आलम्बनतः, सम्प्रयोगतो वा । त इमे तदनुशायिनो रागादयः, तद्भावस्तदनु-
शायित्वम्, तस्मादिति । यथोक्तम्—"सुखाया वेदनाया रागोऽनुशेते, दुःखाया
१-१. तैर्व्यवदायत—का० ।
निर्देश ] द्वितीयं कोशस्थानम् १३०
दीनामाधिपत्यमित्यपरे । "यस्मात् सुखितस्य चित्तं समाधीयते" (
) इत्युक्तं सूत्रे १ ।
दुःखोपनिपच्छ्रद्धाषण्णैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः ।
अपरे पुनराहुः—नैवम्; चक्षुःश्रोत्राभ्यामात्मभावपरिकर्षणं विज्ञाय विषम-
परिहारात् । विज्ञाने तु तयोराधिपत्यम् । नापि विज्ञानादन्यरूपदर्शनं शब्दश्रवणं
वाऽस्ति; यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत । तस्मान्नैवमेषा-
मिन्द्रियत्वम् ॥ १ ॥
द्वेष, अदुःखासुखाया मोहः" ( ) इति । तैर्हि व्यवदायत
इति । तैर्विशुध्यतीत्यर्थः । तदेवं क्लेशविशुद्धावस्था श्रद्धादीनामाधिपत्यमुक्तं
भवति । व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपरे इति । न केवलं संक्लेश सुखा-
दीनामाधिपत्यम्, किं तर्हि ? व्यवदानेऽपि—इति अपिशब्दस्यार्थः । आभिधार्मिकाः
केचिदेवमाहुः । "व्यवदानेऽपि तेषामाधिपत्यमस्ति" ( ) इत्या-
गममानयन्ति । यस्मात् 'सुखितस्य चित्तं समाधीयते' इत्युक्तं सूत्रे । दुःखोपनिप-
च्छ्रद्धा । दुःखमुपनिषदस्याः । सेयं श्रद्धा दुःखोपनिषद्, दुःखहेतुकेत्यर्थः । दुःखे
सति कस्यचिद् धर्मे रत्नत्रये वा श्रद्धा जायते, प्रव्रज्या वाभिलषति । षण्णैष्क-
म्याश्रिताः सौमनस्यादय इति । षण्णैष्क्रम्याश्रितानि सौमनस्यानि, षण्णैष्क्रम्या-
श्रितानि दौर्मनस्यानि, षण्णैष्क्रम्याश्रिता उपेक्षा । नैष्क्रम्यम्—सास्रवः, अना-
स्रवो मार्गः । धातोः संसाराद् वा निष्क्रमणं वैराग्यमित्यपरे । यथोक्तं
सूत्रे—"चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम्"
( ) । नैष्क्रम्यालम्बनमित्यर्थः । नैष्क्रम्यानुकूलमिति वा । एवं
"यावन्मनः प्रतीत्य धर्मांश्चोत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम्" ( )
इति । तथा "चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम्" ।
एवं यावन्मनः । तथा "चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्या-
श्रिता ।" एवं यावन्मनः । 'नैष्क्रम्यं प्राप्स्यामि' इति कस्यचित् सौमनस्यम्, 'न
नैष्क्रम्याय मया यत्न क्रियते' इति कस्यचिद् दौर्मनस्यम् । कस्यचित् प्रति-
संख्यायोपेक्षा तेषु रूपादिषु भवति ।
अपरे पुनराहुरिति सौत्रान्तिकाः । विज्ञाय विषमपरिहारादिति । विज्ञानेन
विषमपरिहारः क्रियते, न चक्षुःश्रोत्रेणेत्यभिप्रायः । नापि विज्ञानादन्यद् रूप-
दर्शनं शब्दश्रवणं वास्तीति । न रूपदर्शनं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते ।
१-१. का० पुस्तके नास्ति ।
१४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
कथं तर्हि १
स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम् ।
चक्षुरादीनां पञ्चानां स्वस्य स्वस्यार्थस्योपलब्धावाधिपत्यम्। मनसः पुन
सर्वार्थोपलब्धावाधिपत्यम् । अत एतानि षट् प्रत्येकमिन्द्रियम् । ननु चार्थाना-
मप्यत्राधिपत्यम् २ नाधिपत्यम् । अधिकं हि प्रभुत्वम् = आधिपत्यम् । चक्षुषश्चक्षू-
रूपोपलब्धावधिकमैश्वर्यम्, सर्वरूपोपलब्धौ सामान्यकारणत्वात् तत्पटुमन्दता-
द्यनुविधानाच्चोपलब्धेः । न रूपस्य; तद्विपर्ययात् । एवं यावत् मनसो
धर्मेषु योज्यम् ।
स्त्रीत्वपुंस्त्वाधिपत्यात् कायात् स्त्रीपुरुषेन्द्रिये ॥ २ ॥
कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक् व्यवस्थाप्येते; नार्थान्तरभूते ।
कश्चिदसौ कायेन्द्रियभाग उपस्थप्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां प्रतिलभते;
ग्रहणं च विज्ञानमेवेति नान्यद् भवति । तस्माच्चक्षु श्रोत्रविज्ञानयो. ससम्प्र-
योगयोरुत्पत्तौ यदाधिपत्यमुक्तं तदेव तद् भवति, नान्यत्राधिपत्यमेतदित्यभि-
प्रायः ॥ १ ॥
मनसः पुनः सर्वार्थोपलब्धाविति । 'स्वार्थोपलब्ध्याधिपत्यात्' इत्येव सिद्धे
'मनसः सर्वार्थोपलब्धौ' इति वचनं धर्मधातोस्सर्वधर्मस्वभावत्वात् । व्याख्यातं
चैतत् पुरस्तात् । ननु चार्थानमप्यत्राधिपत्यमिति । "द्वयं प्रतीत्य विज्ञानस्यो-
त्पत्तिः" ( ) इति वचनात् । अधिकं हि प्रभुत्वमाधिपत्यमिति ।
अधिकं प्रभु.=अधिपतिः, तद्भाव आधिपत्यमिति। सर्वरूपोपलब्धौ सामान्य-
कारणत्वादिति । नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुष कारणत्वात् ।
न तु रूपस्यैकरूपस्य नीलपीतादिसर्वरूपोपलब्धौ कारणत्वम् । न हि नीलरूपं
पीतरूपोपलब्धौ कारणं भवति । तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेरिति ।
यस्मादुपलब्धिश्चक्षुरादिपटुमन्दतामनुविधत्ते । तद्यथा-पटुनि चक्षुषि पट्वी
तदुपलब्धि., मन्दे मन्देति । आदिशब्देन अकुशल-कुशल-संवेदना-वेदनानुविधा-
नम् । अकुशले मनसि अकुशलोपलब्धि , कुश` कुशला, सवेदने सवेदना,
अवदेने चावेदनेति । न रूपस्य पटुमन्दताद्यनुविधत्ते उपलब्धिः । तेनाह-
तद्विपर्ययादिति । तस्माच्चक्षुरादीनामधिकमैश्वर्यम्, न रूपादीनाम् ।
"कायात् स्त्रीपुरुषेन्द्रिये" इति । अत्र साधनम्-'कायेन्द्रियस्वभावं स्त्री-
पुरुषेन्द्रियम्, स्प्रष्टव्यविज्ञानजनकत्वात्, अस्त्रीपुरुषेन्द्रियस्वभावकायेन्द्रियवत्,
निर्देशः ] द्वितीयं कोशस्थानम् १४१
यथाक्रमं स्त्रीत्वपुंस्त्वयोराधिपत्यात् । तत्र स्त्रीभावः—स्त्र्याकृतिस्वरचेष्टा-
भिप्रायाः१, एतद्धि स्त्रियाः स्त्रीत्वम् । पुंभावः—पुरुषाकृति. स्वरचेष्टा अभिप्रायाः,
एतद्धि पुंसः पुंस्त्वम् ।
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ ३ ॥
निकायभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् ।
तथा हि—"सुखायां वेदनायां रागोऽनुशेते, दुःखायां प्रतिघः, अदुःखादुःखा-
यामविद्या" ( ) इत्युक्तं सूत्रे । व्यवदाने श्रद्धादीनां
पञ्चानाम् । तथा हि तैः क्लेशाश्च विष्कम्भ्यन्ते२, मार्गश्चावाह्यते , अत एतेऽपि
प्रत्येकमिन्द्रियमिष्टाः ।
आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।
उत्तरोत्तरसम्प्राप्तिनिर्वाणाद्याधिपत्यतः ॥ ४ ॥
प्रत्येकमिन्द्रियमित्युपदर्शनार्थं तथाशब्दः । तत्राज्ञास्यामीन्द्रियस्याज्ञे-
न्द्रियस्य प्राप्तावाधिपत्यम् । आज्ञेन्द्रियस्याज्ञातावेन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य
परिनिर्वाणे । न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति ।
वैधर्म्येण चक्षुरिन्द्रियवत् । स्त्र्याकृतिस्वरचेष्टाभिप्रायाः इति । स्त्र्यभिप्रायः पुरुषा-
भिप्रायो विपर्ययेण । तदेवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोराधि-
पत्यम् ॥ २ ॥
निकायभागस्थितौ जीवितेन्द्रियस्याधिपत्यम् । नतु वैभाषिकवत् ।। निकाय-
भागसम्बन्धे तत्र मनस एवाधिपत्यात् । संक्लेशं वेदनानामिति। अत्र वैभाषिकैः
सार्धमैकमत्यम् । तथा हि तैरिति । तथा हि—तैः श्रद्धादिभि क्लेशाश्च विष्क-
म्भ्यन्ते लौकिकमार्गगतैर्मार्गश्चावाह्यते निर्वेधभागीयादिगतेः। तदेवं व्यवदान-
सम्भारे श्रद्धादीनां प्रत्येकमाधिपत्यमुक्तं भवति ॥ ३ ॥
न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति । आज्ञातावीन्द्रियं क्षयज्ञानाद्यना-
स्रवमिन्द्रियम् । तदेव च विमुक्तं क्लेशविमुक्त्या, सन्तानविमुक्त्या च । तत्प्राप्तस्य
निरुपधिशेषनिर्वाणं भवति । तस्मादाज्ञातावीन्द्रियस्य निरुपधिशेषनिर्वाण
आधिपत्यं व्यवस्थाप्यते ।
१. स्त्र्याकृति स्वरचेष्टा अभिप्राया.—का० । २. विष्कभ्यन्ते—का० ।
१४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-५ ।
आदिशब्दोऽन्यपर्यायद्योतनार्थः। कतमोऽन्यः पर्यायः? दर्शनहेयक्लेश-
परिहाणं प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम्। भावनाहेयक्लेशप्रहाणं मत्याज्ञेन्द्रियस्य।
दृष्टधर्मसुखविहार प्रत्याज्ञातावीन्द्रियस्य, विमुक्तिप्रीतिसुखप्रतिसंवेदनादिति¹ ॥
आधिपत्यादिन्द्रियत्वेऽविद्यादीनामुपसंख्यानं कर्तव्यम्? अविद्यादीनामपि हि
संस्कारादिष्वाधिपत्यम्, अत एषामपीन्द्रियत्वमुपसंख्यातव्यम्, वागादीनां च,
वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम्; वचनादानविहरणोत्सर्गा-
नन्देष्वाधिपत्यात्? न खलूपसंख्यातव्यम्; यस्मादिहेष्टम्—
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च।
संभारो व्यवदानं च यावता, तावदिन्द्रियम् ॥ ५ ॥
तत्र चित्ताश्रयः षडिन्द्रियाणि। एतच्च षडायतनं मौलं सत्त्वद्रव्यम्।
तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रियाभ्यां स्थितिर्जीवितेन्द्रियेण, संक्लेशो
दृष्टधर्मसुखविहारं प्रतीति विस्तरः। दृष्टो धर्मः दृष्टधर्म दृष्टजन्मेत्यर्थः,
सुखो विहारः सुखविहारः; दृष्टधर्म सुखविहार दृष्टधर्मसुखविहारः। त प्रत्या-
ज्ञातावीन्द्रियस्याधिपत्य विमुक्तप्रीतिसुखप्रतिसंवेदनादिति। विमुक्तिः = क्लेश-
प्रहाणम्, प्रीति =सौमनस्यम्, सुखम्=प्रस्रब्धिसुखम्। विमुक्त्या प्रीतिसुखस्य
प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम्, तस्मादिति; तदुक्तं भवति—
विमुक्तिप्रीतिसुखप्रतिसंवेदनमेव दृष्टधर्मसुखविहार इति ॥ ४ ॥
वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यमिति। साङ्ख्याः चक्षु-
रिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति - वागिन्द्रियं येन वचनं
क्रियते, पाणीन्द्रियं येन किञ्चिद् द्रव्यमादीयते, पादेन्द्रियं येन विहरणं क्रियते,
चंक्रमणमित्यर्थः, पाय्विन्द्रियं येन पुरीषोत्सर्गं क्रियते, उपस्थेन्द्रियं कायेन्द्रियैक-
देशव्यतिरिक्तं येनानन्दः सुखविशेषः प्राप्यते। न खलूपसंख्यातव्यमविद्यादीना-
मिन्द्रियत्वम्, येनार्थेन भगवता द्वाविंशतिरिन्द्रियाण्युक्तानि, तत्राविद्यादीना-
मयोगात्।
कोऽसावर्थ इत्याह—“चित्ताश्रयस्तद्विकल्पः” इति। विस्तरः—
चित्तस्याश्रयः, तदाश्रयस्य विकल्पः स्थिति संक्लेशः व्यवदानसम्भारो व्यव-
दानं चेति। एतच्च षडायतनं मौलं सत्त्वद्रव्यमिति। तदितरेषां तदाश्रितत्वात्।
तथा हि—षाडेन्द्रियाधिपत्यसम्भूतमिन्द्रियाधिष्ठानम्, षड् वा विषया विज्ञान-
१. ॰सुखसंवेदनादिति—का०।
निर्देश ] द्वितीयं कोशस्थानम् १४१
वेदनाभिः । व्यवदानसम्भरणं पञ्चभिः, व्यवदानं त्रिभिः । अतो नाविद्यादीना-
मिन्द्रियत्वमिष्टम् ।
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथान्यानि निवृत्तेरिन्द्रियाणि वा ॥ ६ ॥
मतविकल्पार्थो वाशब्दः । अपरे पुनराहुः—प्रवृत्तेराश्रयः षडिन्द्रियाणि ।
उत्पत्तिः स्त्रीपुरुषेन्द्रिये; तत उत्पत्तेः । स्थितिर्जीवितेन्द्रियम्; तेनावस्थानात् ।
उपभोगो वेदनादिभिः । अत एतानि चतुर्दशेन्द्रियाणि । तेनैव प्रकारेण
निवृत्तेरन्यानि । श्रद्धादयो¹ हि निवृत्तेराश्रया । आज्ञास्यामीन्द्रियं प्रभवः,
स्थितिराज्ञेन्द्रियम्, उपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि । अत
एव चैषामेषोऽनुक्रम ।
कायाश्च—तदेतदपि सत्त्वद्रव्यमिष्यते, न तु मौलम् । न ह्यधिष्ठानाद्याधिपत्य-
सम्भूतं षडायतनमिति । व्यवदानसम्भरणं पञ्चभिरिति । श्रद्धादिभिः । व्यवदानं
त्रिभिरिति । अनाज्ञातमाज्ञास्यामीन्द्रियादिभि ॥ ५ ॥
अपर कल्प —"प्रवृत्तेराश्रयोत्पत्ति०" इति । विस्तर.—प्रवृत्तिपक्षं निवृत्ति-
पक्षं चाधिकृत्योच्यते । प्रवृत्ते = संसारस्याश्रयः, उत्पत्तिः, स्थितिः, उपभोगश्च ।
निवृत्तेरपि निर्वाणस्याश्रयः, उत्पत्तिः, स्थितिः, उपभोगश्च । एतावता च पुरुषार्थ-
परिसमाप्तिरिति । निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः, भवतामपि पुरुषार्थपरिसमाप्ति
पठ्यते, तस्य शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्त इति ? तत्र षडा-
यतनं मूलसत्त्वद्रव्यभूतं ससरतीति प्रवृत्तेराश्रयः । उत्पत्तिः स्त्रीपुरुषेन्द्रिय इति ।
उत्पद्यतेऽस्या इत्युत्पत्ति । कस्माद् ? इत्याह—तत उत्पत्ते । कस्य ? षडायत-
नस्य । मन कायेन्द्रिययोः साक्षात् ताभ्यामुत्पत्तेश्चक्षुरादीनां चतुर्णां क्रमेणोत्पत्तेः ।
स्थितिर्जीवितेन्द्रियेण षडायतनावस्थानात् । उपभोगो वेदनादिभिः । सुखादिभिः ।
श्रद्धादयो हि निवृत्तेराश्रया इति । श्रद्धादीनां प्रतिष्ठाभूतत्वात् । आज्ञास्यामीन्द्रियं
प्रभव इति । आदिभवः, प्रथमतोजनास्रवोत्पत्तेः । स्थितिराज्ञेन्द्रियम्, प्राबन्धिक-
त्वात् । उपभोग आज्ञातावीन्द्रियेणेति, तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात् । अत
एतावन्त्येवेन्द्रियाणीति । नाविद्यादीनामिन्द्रियत्वमिष्टमित्यर्थः । अत एव चैषा-
मेषोऽनुक्रम इति । चक्षुरिन्द्रियं यावदाज्ञातावीन्द्रियमिति प्रवृत्तिनिवृत्त्योराश्र-
यादिभावात् ।
१ श्रद्धादीनि—का० ।
१४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
वाचस्तु नेन्द्रियत्वम्; वचने शिक्षाविशेषापेक्षत्वात्। पाणिपादस्य चादान-
विहरणादनन्यत्वात्। तदेव हि तदन्यथा अन्यत्र चोत्पन्नमादानं विहरणं
चोच्यते; विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीनाम्।
पायोरपि नेन्द्रियत्वम्; उत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात्। वायुना
च तत्प्रेरणात्।
उपस्थस्यापि नेन्द्रियत्वम्; आनन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत् सौख्यमिति।
कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनवि-
काशक्रियास्विन्द्रियत्वं प्रसज्येत, सर्वस्य वा कारणभूतस्य स्वस्यां क्रियायाम्।
इत्युक्तं वागादीनामिन्द्रियत्वम्॥ ६॥
वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात्। जातमात्रो हि बालको
विनैव शिक्षया चक्षुषा रूपाणि पश्यति, न त्वेवं वचनं करोति। तस्मादि-
न्द्रियधर्मातिक्रान्तत्वान्न वाक् इन्द्रियं भवितुमर्हति। जिह्वेन्द्रियाधिष्ठानस्यैव
त्वेतत् कर्मवचनमिति। पाणिपादस्य चादानविहरणादनन्यत्वादिति। पाणिरेव
हि अन्यथान्यत्र चोत्पन्न आदानमुच्यते। पाद एव चान्यथान्यत्र चोत्पन्नो विहरण-
मिति, कर्माभावात्। स्वात्मनि च वृत्तिविरोधात् न पाणिपादस्येन्द्रियत्वम्।
उरगप्रभृतीनामिति। सर्पादीना पाणिपादं नास्ति, अथ च तेषामादानविहरणं
भवति। (इति) न पाणिपादस्येन्द्रियत्वम्। तेषामप्यस्ति सूक्ष्ममिति चेत्?
न, साध्यत्वात्।
पायोरपि नेन्द्रियत्वमुत्सर्गे इति। अशुच्युत्सर्गे। गुरुद्रव्यस्य यस्य कस्यचिद्
आकाशे छिद्रे सर्वत्र पात्यमानादन्यथापि पतनात्। गुरुद्रव्यस्य गुरुत्वादेव स्वयं
पतनम्, नेन्द्रियकम्। वायुना च तत्प्रेरणादिति। वायुना तस्य गुरोरशुचिद्रव्यस्य
प्रेरणा। वायोरेव तत्त् कर्म स्यात्, न पाय्विन्द्रियस्य, तदनुपलब्धे।
उपस्थस्यापि नेन्द्रियत्वमानन्द इति। कायेन्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्त-
कल्पितस्य उपस्थस्य नेन्द्रियत्वमानन्दे। कायेन्द्रियैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं
हि तत् क्लिष्टं सौख्यमिति वाक्यार्थः।
कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वणामपीति। विस्तर.—यद्यथोक्तात् कारणादे-
तावन्त्येवेन्द्रियाणीति नेष्यते, कण्ठस्याभ्यवहरणे, दन्तस्य चर्वणे, अक्षिवर्त्मन
उन्मेषनिमेषे, पर्वणोऽस्थिसन्धिसङ्कोचविकाशक्रियायामिन्द्रियत्वं प्रसज्येत।
सर्वस्य वा कारणभूतस्येति। विस्तर—सर्वस्य वा कारणभूतस्य बीजादे
स्वस्यां क्रियायां स्वकार्यक्रियायामङ्कुरादिलक्षणायामिन्द्रियत्वं प्रसज्येतेत्यधि-
[नि ] द्वितीयं कोशस्थानम् १४५
तत्र चक्षुरादीना पुरुषेन्द्रियपर्यन्ताना कृतो निर्देशः । जीवितेन्द्रियस्य
विप्रयुक्तत्वाद् विप्रयुक्तेष्वेव ( अ० को० २.४५ ) करिष्यते निर्देशः । श्रद्धा-
दीना चैत्तेषु ( अ० को० २ २४ ) करिष्यते । सुखादीनामाज्ञास्यामीन्द्रिया-
दीना च कर्तव्यः । सोऽयं क्रियते--
दुःखेन्द्रियमसाता या कायिकी वेदना
असातेत्युपघातिका, दुःखेत्यर्थः ।
क्तम् । यदि यस्य यत्र पुरुषकारोऽस्ति, तस्य तत्रेन्द्रियत्वमिष्यते, स च नियमहेतु
पूर्वोक्तो नेष्यते । तस्मादयुक्तं वागादीनामिन्द्रियत्वम् ॥ ६ ॥
तत्र चक्षुरादीनामिति । विस्तर--तत्रेति वाक्योपन्यासे । कृतो निर्देश
इति । "तद्विज्ञानाश्रया रूपप्रसादश्चक्षुरादय" ( अभि० को० १९ ), "कायात्
स्त्रीपुरुषेन्द्रिये" ( अभि० को० २२ ), "विज्ञानं प्रतिविज्ञप्तिः" ( अभि०
को० १ १६ ) इति । जीवितेन्द्रियस्येति । "आयुर्जीवितमाधार ऊष्मविज्ञान-
योर्हि य" ( अभि० को० २ ४५ ) इत्यत्र । श्रद्धादीना चैत्तेष्विति । "श्रद्धा-
प्रमाद प्रश्रब्धि" ( अभि० को० २ २५ ) इत्यत्र प्रदेशे । ननु च वेदनाया
अपि कृतो निर्देशः, चैत्तेष्वपि करिष्यते--"वेदनाऽनुभव" ( अभि०को० १ १४ )
इति, "वेदना चेतना संज्ञा" ( अभि० को० २ २४ ) इति वचनात् ? सत्यम्,
सामान्यं रूपं वेदनाया उक्तम्, वक्ष्यते च, विशेषविभागरूपं त्विह विवक्षितमिति
'सुखादीना कर्तव्यो निर्देशः' इत्याह । आज्ञास्यामीन्द्रियादीना तर्हि न कर्तव्यः,
यस्मान्मनसो लक्षणमुक्तम्, श्रद्धादीना चैत्तेषु करिष्यते, सुखसौमनस्यो-
पेक्षाणामिह क्रियते ? एषामपि कर्तव्य एव, यस्मान्नवद्रव्यस्वभावत्वमेषा
दर्शयितव्यम् । एतस्या चावस्थायामेतानि नव द्रव्याण्यनाज्ञातमाज्ञास्यामी-
न्द्रियाख्या लभन्ते, एतस्यामवस्थायामाज्ञेन्द्रियाख्याम्, एतस्यामाज्ञातावीन्द्रि-
याख्या लभन्ते--इति स एषामवस्थाविशेषो दर्शयितव्य इत्यतः सूक्तमेतत्--
सुखादीनामाज्ञास्यामीन्द्रियादीना च कर्तव्य इति ।
"असाता या कायिकी वेदना" इति । 'असाता' इति सातानिवृत्त्यर्थम् ।
'कायिकी' इति मानसीनिवृत्त्यर्थम् । तत्र काया चक्षुरादय पञ्च, परमाणुस-
ञ्चयात्मकत्वात् । तत्र काये भवा, कायेन वा आश्रयेण सह चरतीति
कायिकी । या उपघातिका पञ्चेन्द्रियाश्रया वेदना, तद् "दुःखेन्द्रियम्"
इत्यवगन्तव्यम् ।
अभि० को० १०
१४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सुखम् ।
साता
सुखेन्द्रियं कायिकी साता वेदना । शातेत्यनुग्राहिका, सुखेत्यर्थः ।
ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ ७ ॥
तृतीये तु ध्याने सैव साता वेदना चैतसी सुखेन्द्रियम् । नहि तत्र
कायिकी वेदनास्ति, पञ्चविज्ञानकायाभावात् ॥ ७ ॥
अन्यत्र सा सौमनस्य
तृतीयाद् ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैतसिकी
साता वेदना सौमनस्येन्द्रियम् । तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रिय-
मेव सा, न सौमनस्येन्द्रियम् । प्रीतिर्हि सौमनस्यम् ।
असाता चैतसी पुनः ।
दौर्मनस्यम्, उपेक्षा तु मध्या
“सुखम् साता” इति । अत्र ‘इन्द्रियम्’ इत्यनुवर्तते, ‘कायिकी’ इति च ।
‘साता’ इति ग्रहणमसातानिवृत्त्यर्थम् । तदेतदुक्तं भवति—तत् सुखेन्द्रियम्, या
अनुग्राहिका पञ्चेन्द्रियाश्रया वेदनेति ।
“ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्” इति । तृतीये तु ध्याने चैतस्यपि
साता वेदना सुखेन्द्रियमिति व्यवस्थाप्यते । कस्मात् चेतस्येव साता तत्र
गृह्यते, न कायिकी ? इत्यत आह—न हि तत्र कायिकी वेदनास्ति; पञ्चविज्ञान-
कायाभावाद् इति ॥ ७ ॥
तृतीये ध्याने कस्मात् सा न सौमनस्येन्द्रियम् ? अत आह—तृतीये तु
ध्याने प्रीतिविरागात् सुखेन्द्रियमेव सा, न सौमनस्येन्द्रियम् । सातत्वाद्धि
सुखमुच्यते, न प्रीति, शमप्रहर्षाकारत्वात् । तथा हि सूत्रे उक्तम्—“प्रीतेर्वि-
रागादुपेक्षको विहरति” इति विस्तरेण यावत् “स्मृतिमान् सुखविहारी तृतीयं
ध्यानमुपसम्पद्य विहरति” ( ) इति । सौमनस्यादन्या
प्रीतिरिति चेद् ? अत आह—प्रीतिर्हि सौमनस्यमिति ।
“असाता चैतसी पुनः दौर्मनस्यम्” इति । उपघातिका चैतसिकी
वेदना दौर्मनस्यम् ।
“उपेक्षा तु मध्या” इति । उपेक्षेन्द्रियं तु या मध्या वेदना (सा) नैव
साता नासातेत्यर्थ ।
निर्देशः ] द्वितीयं कोशस्थानम् १४७
नैवसातानासाता अदुःखसुखा वेदना मध्येत्युच्यते। सोपेक्षेन्द्रियम्।
किं कायिकी चैतसिकी ? इत्याह—
उभयी
किं पुनः कारणम्—इयमभिसमस्यैकमिन्द्रियं क्रियते ?
अविकल्पनात् ॥ ८ ॥
चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते, न तु कायिकम्; विषय-
वशादर्हतामप्युत्पत्तेः । अतस्तयोरिन्द्रियत्वेन भेदः । उपेक्षा तु स्वरसेनेवाविकल्प-
यत¹ एवोत्पद्यते कायिकी चैतसिकी ² चेत्येकमिन्द्रियं क्रियते। अन्यथा च कायिकं
सुखमनुगृह्णाति, अन्यथा चैतसिकम्। एवं दुःखमन्यथा कायिकमुपहन्त्यन्यथा
चैतसिकम्। उपेक्षायां नैष³ विकल्पोऽस्ति, अत उपेक्षणं प्रत्यविकल्पनादभेदः।
दृग्भावनाऽशैक्षपथे नव त्रीणि
'उभयी' इति। उभयावयवावस्या⁴ उभयी। कायिकी, चेतसिकीत्यर्थः ।
“अविकल्पनात्” इति। अभिनिरूपणविकल्पाभावादित्यर्थः । प्रायेनेति ग्रहणं
समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम् । न तु कायिकमिति । न कायिकं
सुखदुःखं विकल्पनादुत्पद्यते, किं कारणम् ? इत्याह—विषयवशादर्हतामप्यु-
त्पत्तेरिति । प्रहीणप्रियाप्रियविकल्पानामप्यर्हतां विषयवशेनैव कायिकसुखदुःखो-
त्पादात्। अतस्तयोरिन्द्रियत्वेन भेद इति । तयोः कायिकचैतसिकयोः सुखयोः,
दुःखयोश्च इन्द्रियत्वेन भेद = पृथक्त्वम्—सुखेन्द्रियम्, सौमनस्येन्द्रियम्;
दुःखेन्द्रियम्, दौर्मनस्येन्द्रियमिति । उपेक्षा तु स्वरसेनेव अनभिसंस्कारेणा-
विकल्पयत एव अनभिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा
नैष्यन्दिनी वा। तस्माद् एकमिन्द्रियं क्रियते इन्द्रियत्वेनाभेद उपेक्षेन्द्रियमिति ।
अन्यथा च कायिकमिति । विस्तर —अन्येनानुभवरूपविशेषेण कायिकमुपहन्ति,
अन्येन चैतसिकमिति। उपेक्षायां नैष विकल्प इति। एष स्वरूपविशेषलक्षणो
विकल्पो नास्ति। अत उपेक्षणं प्रति उपेक्षाक्रिया प्रति अविकल्पनाद् अस्व-
भावविशेषादभेदः॥ ८ ॥
“दृग्भावनाऽशैक्षपथे” इति। दृग्=दर्शनम् । दृशो भावनाया अशैक्षस्य च
पन्था दृग्भावनाशैक्षपथः, तस्मिन्नेव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षा-
१ स्वरसेना विकल्पयत—का०। २ चेत्ये०—का०। ३. त्वेष—का०।
४ उभयावयवावस्था—इति मुद्रित पाठ।
१४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
मन सुखसौमनस्योपेक्षा, श्रद्धादीनि च पञ्च—तानि नवेन्द्रियाणि त्रिषु
मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते—दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियम्, भावना-
मार्गे आज्ञेन्द्रियम्, अशैक्षमार्गे आज्ञातावीन्द्रियमिति ।
किं कारणम् ? दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः। भावनामार्गे नास्त्यपूर्व-
माज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम्। अशैक्षमार्गे त्वाज्ञातमित्यवगम
आज्ञाताव., सोऽस्यास्तीति आज्ञातावी। आज्ञातमवितुं शीलमस्येति वा;
क्षयानुत्पादज्ञानलाभात्। "दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यम्" ( )
इति तथाभूतस्येन्द्रियमाज्ञातावीन्द्रियम्॥
स्वभावनिर्देशं कृत्वा प्रकारभेदो वक्तव्यः—कति सास्रवाणि, कत्यना-
स्रवाणि इन्द्रियाणीत्येवमादि। तत्र तावद् यदेतदनन्तरोक्तमाज्ञास्यामीन्द्रियादि-
कम्, एतत्—
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्याणि, तानि दर्शनमार्गे अनाज्ञात-
माज्ञास्यामीन्द्रियम्, भावनामार्गे आज्ञेन्द्रियम्, अशैक्षमार्गे आज्ञातावीन्द्रियमिति
व्यवस्थाप्यन्ते, अन्योन्यमपेक्षमाणानि तानि नव द्रव्याणि तत्तन्नाम लभन्ते।
"नव" इति च कलापान्तरापेक्षयैवमुक्तम्। न त्वेकस्मिन् चित्तकलापे नव
द्रव्याणि भवन्ति, सुखसौमनस्योपेक्षेन्द्रियाणामेकतरस्यैव भावात्। यदि हि स
मार्गोऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनभूमिक, तत्रो-
पेक्षेन्द्रियमेव, न सुखसौमनस्येन्द्रिये। यदि प्रथमद्वितीयध्यानभूमिक., तत्र
सौमनस्येन्द्रियमेव। यदि तृतीयध्यानभूमिक, तत्र सुखेन्द्रियमेव, नान्यदिति।
अनाज्ञातमाज्ञातुं प्रवृत्त इति। अनाज्ञातं सत्यचतुष्टयम्, आज्ञातुम् = वेदितुम्,
प्रवृत्त.=आज्ञास्यामीति प्रारब्ध । तस्येन्द्रियमनाज्ञातमाज्ञास्यामीन्द्रियम् ।
अलुक्समासः (पा० सू० ६.३ १४)। आख्यातप्रतिरूपकश्चायम् 'आज्ञास्यामि'
इति शब्द । भावनामार्गे नास्त्यपूर्वमाज्ञेयम्, तदेव तु सत्यचतुष्टयमाजानाति ।
शेषानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम् । तस्याज्ञस्य' पुद्गलस्येन्द्रियम्
आज्ञेन्द्रियम्। आज्ञमेवेन्द्रियमिति वा। अशैक्षमार्गे त्वाज्ञातमित्यवगम आज्ञा-
ताव इति । अर्थकथनमात्रमेतत् । शब्दविग्रहस्त्वेवं कर्तव्य —आज्ञातमित्याव
आज्ञाताव.। अवतेर्धञि रूपमेतद्-आव इति। सोऽस्यास्तीति मत्वर्थीय आज्ञा-
तावी। आज्ञातमवितुं शीलमस्येति वेति ताच्छीलिको णिनिः। तथाभूतस्ये-
न्द्रियमिति। तथाभूतस्य पुद्गलस्येन्द्रियम्, आज्ञाताविन इत्यर्थः।१
'निर्देशः ] द्वितीयं कोशस्थानम् १४९
अमलं त्रयम् ।
अनास्रवमित्यर्थः । मलानामास्रवपर्यायत्वात् ।
रूपीणि जीवितं दुःखे सास्रवाणि
रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दु खदौर्मनस्येन्द्रिये चैकान्तसास्र-
वाणि । रूपीणि पुनः सप्त चक्षुश्रोत्रघ्राणजिह्वाकायस्त्रीपुरुषेन्द्रियाणि रूपस्कन्ध-
संग्रहात् ।
द्विधा नव ॥ ९॥
मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि
सास्रवाणि, अनास्रवाण्यपि । अनास्रवाण्येव श्रद्धादीनि—इत्येके । उक्तं हि
भगवता—“यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सन्ति तमहं बाह्यं
पृथग्जनपक्षावस्थितं वदामि” ( ) इति । नेदं ज्ञापकम्; तेषाम-
नास्रवत्वमधिकृत्य वचनात् । तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा ‘यस्येमानि’ इत्याह ।
“अमलं त्रयम्” इति । अमलमेव त्रयमित्यवधार्यते । ननु चायमनास्रव-
सास्रवप्रकारभेद उक्तो धातुनिर्देशे—“अनास्रवा मार्गसत्यम्” (अभि० को०
१ ५) इति, तथा “सास्रवानास्रवा एते त्रय., शेषास्तु सास्रवा.” (अभि०
को० १३१) इत्यादिवचनात् ? सत्यमुक्तोऽयमेवमादिः प्रकारभेद, स तु
सामान्यरूपेणोक्त, न भेदरूपेण । अत शिष्यसुखप्रतिपत्त्यर्थमयमेवमादिप्रकार-
भेद प्रतिपन्नरूपेण पुनरभिधीयत इत्येवमवगन्तव्यम् ।
“द्विधा नव” इति न सूत्रयितव्यम्, एकान्तानास्रवसास्रवनिर्धारणादेव
द्विधा नवेति सिद्धे. ? यदि ह्येतानि नवैकान्तेनानास्रवाणि स्यु, एकान्ता-
नास्रवेष्वाज्ञास्यामीन्द्रियादिषु पठेयेरन्, तथेकान्तसास्रवाणि स्यु., एकान्तसास्र-
वेषु रूपीन्द्रियजीवितदु खदौर्मनस्येषु पठेयेरन्, न चैवम्, अतो नव द्विधेति
सिद्धम् ? अस्त्येतदेवम्, मतान्तरनिवृत्त्यर्थं तु पुनरिदमुच्यते—“नव द्विधा” इति ।
द्विधैव नव नानास्रवाणि यथैके कथयन्ति, तत्सिद्धये चागममानयन्ति—यस्ये-
मानीति । विस्तरः—सर्वेण सर्वाणि न सन्तीति । सर्वेण प्रकारेण मृदुमध्याधि-
मात्रभेदेन । सर्वाणीति पञ्चापि न सन्तीत्यर्थः । पृथग्जनपक्षावस्थितं वदामीति
वचनात् । यद्येतदुक्तं भवति—यस्येमानि सन्ति स आर्यं इति । नेदं ज्ञापकं
तेषामनास्रवत्वमधिकृत्येत्याचार्यः । तथा हि आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानी-
त्याहेति । कथम् ? “पञ्चेमानि, भिक्षव., इन्द्रियाणि । कतमानि पञ्च ? श्रद्धे-
न्द्रियं यावत् प्रज्ञेन्द्रियम् । एषा पञ्चानामिन्द्रियाणा तीक्ष्णत्वात् परिपूर्णत्वा-
'?
Wait, in line 24: "सहापतर्ब्रह्मलोके" - here 'स' has a loop.
In line 27: "अथ ब्रह्मा सहा-" - wait, why would Brahma be called "ब्रह्मा सहापतिः"? Brahma Sahāmpati! In Pali/Sanskrit Buddhist texts, he is Brahmā Sahāmpati (ब्रह्मा सहाम्पतिः / ब्रह्मा सहापतिः).
Line 29 also says: "ब्रह्मा सहापतिर्ब्रह्मलोकेऽन्तर्हितो".
So line 27-28 is definitely "सहापतिस्तद्यथा"!
Wait, let's look at the letter in L27: is it 'स' or 'म'? It really looks like 'स'! It has the left downward curve of 'स'. So it is "सहा-".
Wait, look at L28: "पतिस्तद्यथा" - yes, 'प', 'ति', 'स्त', 'द्य', 'था'.
Line 28:
पतिस्तद्यथा बलवान् पुरुष. सम्मिञ्जितं बाहुं प्रसारयेत्, प्रसारितं वा सम्मिञ्ज-
Line 29:
येत् एवमेव ब्रह्मा सहापतिर्ब्रह्मलोकेऽन्तर्हितो भगवत. पुरस्तात् प्रत्यस्थात् ।
Wait, let's look at the first word of line 29:
Does it say "येत् एवमेव"?
Look at:
First glyph
निर्देशः ] द्वितीयं कोशस्थानम् १५१
पुनश्चोक्तम्— "यावच्चाहमेषां पञ्चानामिन्द्रियाणां समुदय चास्तङ्ग च
स्वादं चादीनवं च निस्सरणं च यथाभूतं नाद्यज्ञासिषं न तावदहमस्मान् सदेव-
काल्लोकाद्" ( ) इति विस्तरः। न चानास्रवाणामेष' परीक्षा
प्रकारः ॥ ९ ॥
कतीन्द्रियाणि विपाकः ? कति न विपाकः ? एकान्तेन तावत्—
विपाको जीवितं
अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं विपाक ?
शास्त्रे (ज्ञा० प्र० १२, १४) उक्तम्— "कथमायु. सस्कारान् स्थापयति ?
अर्हन् भिक्षुः ऋद्धिमाश्रितोवशित्व प्राप्तः संघाय वा पुद्गलाय वा पात्रं वा चीवरं
वा अन्यतमान्यतम वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत् प्रणिधाय प्रान्त-
अथ भगवानस्यां वेलायाम् इमे गाथे अभाषत—
'कृच्छ्रेण मे अधिगतो ब्रह्मन् खिलो प्रविदार्य ।
भवरागपरीतैश्च नायं धर्म सुसम्बोघ ॥
प्रतिस्रोतोपमं मार्गं गम्भीरमतिदुर्दर्शम् ।
न द्रक्ष्यन्ति रागरक्तास्तम स्कन्धेन चावृता ॥'
ब्रह्मावोचत्—'सन्ति, भदन्त, सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया
अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपि इत्यप्रवर्तित एव स्वधर्मचक्रे' (म० व०
१. ५ ७-८) इति । विस्तर. - इन्द्रियाणि श्रद्धादीनि, यस्ते भव्या उक्ता ।
यस्माद् “अप्रवर्तितेऽपि धर्मचक्रे सन्ति तीक्ष्णेन्द्रिया" इत्याद्युक्तम्, तस्मात्
सन्त्येव सास्रवाणि श्रद्धादीनीति । सदेवकाल्लोकादिति । विस्तर.-"न तावदहं
अस्मात् सदेवकाल्लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः
सदेवमानुषाया मुक्तो निःसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा
बहुलं व्यवहार्षम्" इति विस्तरवचनम् । न चानास्रवाणामेष परीक्षाप्रकार इति ।
न ह्यनास्रवाणामास्वाद आदीनवो निःसरणं वा युज्यते ॥ ९ ॥
अर्हन्निति । नानागामी, क्लेशविमुक्तसन्तानत्वात् । ऋद्धिमानिति । प्राप्ता-
भिज्ञः। चेतोवशित्वं प्राप्त इति असमयविमुक्तः । जीवितपरिष्कारमिति । जीविताय
परिष्कारः तदनुगुणत्वात् । दत्त्वा तत्प्रणिधायेति । तदायुः प्रणिधाय चेतसि
कृत्वेत्यर्थः । कथम् ? इत्याह—यन्मे भोगविपाकं कर्म तदायुर्विपाकं भवतु इति ।
१. चानास्रवाणा धर्माणा०—का० ।
कोटिकं चतुर्थं ध्यानं समापद्यते। स तस्मात् व्युत्थाय चित्तमुत्पादयति वाचं च
भाषते—'यन्मे भोगविपाकं कर्म¹ तदायुर्विपाकं² भवतु' इति तस्य यत्
भोगविपाकं तदायुर्विपाकं भवति
येषा पुनरयमभिप्राय—विपाकोच्छेषं विपच्यत इति। त आहु—“पूर्व-
जातिकृतस्य कर्मणो विपाकोच्छेषम्। स भावनाबलेनाकृष्य प्रतिसंवेदयते”
( ) इति। कथमायुस्संस्कारानुत्सृजति? तथैव दानं दत्त्वा
प्रणिधाय प्रान्तकोटिकं चतुर्थं ध्यानं समापद्यते—'यन्मे आयुर्विपाकं तद्
भोगविपाकं भवतु' इति। तस्य तथा भवति।
भदन्तघोषकस्त्वाह—“तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि
ध्यानबलेन संमुखीकरोत्यायुषोऽनुकूलानि वैरोधिकानि च। एवमायुःसंस्कारान्
स्थापयति, एवमुत्सृजति” ( ) इति।
एवं तु भवितव्यम्—समाधिप्रभाव एव स तेषां तादृशो येन पूर्वकर्मजं³
स्थितिकालावेधमिन्द्रियमहाभूतानां व्यावर्तयन्ति⁴, अपूर्वं च समाधिजमावेधमाक्षि-
पन्ति। तस्मान्न तज्जीवितेन्द्रियं विपाकम्, ततोऽन्यत् तु विपाकः।
प्रान्तकोटिकमिति। “वृद्धिकाष्ठागतम्” (अभि० को० ७.४१) इति लक्षण-
मस्य वक्ष्यते। चित्तमुत्पादयति, वाचं च भाषत इति। चित्तवाचावपि तत्सिद्धये
कुर्यात्। नैककारणसाध्यं हि कार्यम्, तदनेन विपाक एव जीवितेन्द्रियमिति
दर्शयति। यन्मे भोगविपाकं कर्म तदायुर्विपाकदायि भवत्विति। ध्यानभावनाबलं
तु तस्या आकर्षकमिति।
विपाकोच्छेषं विपच्यत इति। अकालमरणेनापरिसमाप्तफलस्य त्यक्तस्य
जन्मान्तरकर्मणो भावनाबलेन विपाकोच्छेषमाकृष्य प्रतिसंवेदयते। तेषा तादृश
इति। तेषाम्=योगिनाम्।
पूर्वकर्मजं स्थितिकालावेधमिति। पूर्वस्मिन् जन्मनि कर्म पूर्वकर्म, ततो जातं
पूर्वकर्मजं, स्थितिरिन्द्रियं महाभूतानां प्रवाहः, स्थितेः कालः स्थितिकालः,
तस्यावेधः आक्षेपः। स्थितिकालावेधस्तावत् संस्कारक्षणानुबन्धसामर्थ्याक्षेपः,
तेन ह्यसौ स्थितिकाल आविध्यते। तं पूर्वकर्मजं स्थितिकालावेधमिन्द्रियमहा-
भूतानां व्यावर्तयन्ति योगिनः, अपूर्वं च समाधिजमावेधमाक्षिपन्ति।
१ का० पुस्तके नास्ति। २ तदायुर्विपाकदायि—का०।
३ पूर्वकर्मजं च—का०। ४ व्यावर्तयन्ते—पाठ०।
निर्देशः ] द्वितीयं कोशस्थानम् १५३
प्रश्नात् प्रश्नान्तरमुपजायते—किमर्थमायुःसंस्कारानधितिष्ठन्ति ? पर-
हितार्थम्, शासनस्थित्यर्थं च१। ते ह्यात्मनः क्षीणमायुः पश्यन्ति, न च
तत्रान्यं शक्त पश्यन्ति ।
अथ किमर्थमुत्सृजन्ति ? अल्पं च परहित जीविते पश्यन्ति रोगादिभूतं२
चात्मभवम् । यथोक्तम्—
"सुचीर्णे ब्रह्मचर्येऽस्मिन् मार्गे चैव सुभाविते ।
तुष्ट आयुःक्षयात् भवति रोगस्यापगमे यथा ॥" इति ।
अथैतदायूःसंस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य च३ वेदि-
तव्यम् ? मनुष्येष्वेव त्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिक-
ध्यानलाभिनः । तस्य हि समाधौ च४ वशित्वम् । क्लेशैश्चानुपस्तब्धा सन्ततिः ।
सूत्र उक्तम्—"भगवान् जीवितसस्कारानधिष्ठायायुःसंस्कारानुत्सृष्टवान् ।"
तेषां को विशेष ? न कश्चिदित्येके । तथा ह्युक्तम्—"जीवितेन्द्रियं
कतमत् ? त्रैधातुकमायु ( मू० शा० ) इति ।
पूर्वकर्मफलमायुस्संस्काराः, प्रत्युत्पन्नकर्मफलं जीवितसस्कारा इत्यपरे ।
प्रश्नात् प्रश्नान्तरमुपजायत इति । 'अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्था-
पयति तज्जीवितेन्द्रियं कस्य विपाक' इत्यस्मात् प्रश्नात् किमर्थमायुःसंस्कारा
नधितिष्ठन्तीति प्रश्नान्तरम् । परहितार्थं शासनस्थित्यर्थं चेति । परहितार्थमेव
बुद्धा भगवन्त, शासनस्थित्यर्थमेव श्रावका । रोगादिभूतं चात्मभावमिति ।
रोगगण्डशल्यादिभूतम्, त्रिदु खतायोगात् ।
क्व कस्य चेति । 'क्व' इत्यस्य प्रश्न विमर्जनम्—मनुष्येष्वेव त्रिषु द्वीपेष्विति ।
'कस्य' इत्यस्य विसर्जनम्—स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिन
इति । तस्य हीति । विस्तर—समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिन.,
तीक्ष्णेन्द्रियत्वात् । क्लेशैरानुपस्तब्धा सन्ततिः, निरवशेषक्लेशप्रहाणात् । दृष्टि-
प्राप्तस्य यद्यपि समाधौ वशित्वमस्ति, न तु तस्य क्लेशैरनुपस्तब्धा सन्ततिः ।
समयविमुक्तस्य यद्यपि क्लेशैरनुपस्तब्धा सन्तति , न तु समाधौ वशित्वम्
असमयविमुक्तस्य तूभयमस्ति ।
१ वा—का० । २ रोगाभिभूत—का० ।
३ वा—वा० । ४ का० पुस्तके नास्ति ।
१५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय--
यैर्वा निकायभागस्थितिस्त आयुःसंस्काराः । यैस्तु कालान्तरं जीवति ते
जीवितसंस्कारा इति ।
बहुवचनं बहूनामायुर्जीवितसंस्काराणाम्¹ उत्सर्जनाधिष्ठात् । न ह्येकस्य
क्षणस्योत्सर्जनमधिष्ठानं चास्ति । न च कालान्तरस्थावरमेकमायुर्द्रव्यं न भवतीति
द्योतनार्थमित्येके ।
बहुष्वेव संस्कारेष्वायुराख्या । नैकमायुर्नाम द्रव्यमस्ति; अन्यथा हि नैव
संस्कारग्रहणमकरिष्यदित्यपरे ।
किमर्थं पुनर्भगवता आयुस्संस्कारा उत्सृष्टाश्च, अधिष्ठिताश्च ² मरणवशित्व-
ज्ञापनार्थमुत्सृष्टाः, जीवितवशित्वज्ञापनार्थमधिष्ठिताः—त्रैमास्यमेव नोर्ध्वम्,
विनेयकार्याभावात् । यच्चापि तत् प्रतिज्ञातम्—"एवम्भावि तैरहं चतु-
र्भिर्ऋद्धिपादैराकाङ्क्षन् कल्पमपि तिष्ठेयम्, कल्पाव
निर्देशः ] द्वितीयं कोशस्थानम् १५५
स्कन्धमरणमारयोर्निर्जयार्थमिति वैभाषिकाः । बोधिमूले क्लेशदेवपुत्रमारौ
निर्जिताविति ।
निष्ठातमानुषङ्गिकम् ॥
प्रकृतमेवारभ्यते—
द्वेधा द्वादश
कतमानि द्वादश ?
अन्त्याष्टकादृते ।
दौर्मनस्याच्च
अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्य च वर्जयित्वा ।
जीवितेन्द्रियादन्यानि द्वादश द्विविधानि इन्द्रियाणि¹—विपाकश्चाविपाकश्च ।
तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाक¹, शेषाणि विपाकः । मनोदुःखसुख-
सौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टानि², तान्यविपाक.² । ऐर्यापथिकशैल्पस्थानिक-
प्रतिज्ञातसम्पादनार्थम्। अन्यथा वचनमात्रं स्यादिति । कल्पावशेष । कल्प एक.
सकल, कल्पाधिक, कल्प मातिरेक इत्यर्थ ।
स्कन्धमरणमारयोरिति । चत्वारो मारा —देवपुत्रमार, क्लेशमार, स्कन्ध-
मार, मरणमारश्चेति । तत्र प्रथमे यामे देवपुत्रमारो निर्जित । द्वितीये यामे
दिव्येन चक्षुषा लोक व्यवलोक्य तृतीये यामे क्लेशमारो निर्जित. । वैशाल्या तु
त्रेमास्य जीवितसंस्कारानधिष्ठाय आयु संस्कारानुत्सृष्टवान् । स्कन्धमारनिर्ज-
यार्थमुत्सृष्टा स्कन्धा., तेषूत्सृष्टेषु मर्तव्यं स्यात् । अतो मरणमारनिर्जयार्थमधि-
ष्ठिता इति वभाषिकाः ।
निष्ठातमानुषङ्गिकं यत् प्रश्नात् प्रश्नान्तरमुपजातम् ॥
“द्वेधा द्वादश” इति । द्वेधैव द्वादश एवेत्यवधार्यते । ऋते अन्त्यादष्टकाच्छ्र-
द्धादिकादाज्ञातावीपर्यन्ताद् ।
“दौर्मनस्याच्च” । जीवितान्द्रियादेकान्तविपाकादन्यानि द्वादशेन्द्रियाणि
विपाकश्च, अविपाकश्च । तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्रत्य-
यिनिर्वृत्तानि औपचयिकान्यविपाकः । मनोदुःखसुखमिति विस्तर । यानि
मनादीनि कुशलक्लिष्टानि तान्यविपाकः । यानि च यथायोगमैर्यापथिक-शैल्प-
१. वा० पुस्तके नास्ति । २-२. कुशलक्लिष्टान्यविपाक.-का० ।