अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 157, कुल 1258 में से
संदर्भ में पढ़ें१३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
जीवितेन्द्रियस्य निकायसभागसम्बन्धसाधारणयोः ।
मनइन्द्रियस्य पुनर्भवसम्बन्धवशिभावानुवर्त्तनयोः ।
तत्र पुनर्भवसम्बन्धे यथोक्तम्- “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्त-
योरन्यतरान्यतरचित्तं सम्मुखीभूतं भवति— अनुनयसहगतं वा, प्रतिघसहगतं वा”
( ) इति ।
वशिभावानुवर्त्तने यथोक्तम्— “चित्तेनायं लोको नीयते” ( )
इति विस्तरः ।
यत् पुनः सुखादीन्द्रियपञ्चकम्, यानि चाष्टौ श्रद्धादीनि, तेषां
पञ्चकाष्टानां संक्लेशव्यवदानयोः । ९ ।।
आधिपत्यं यथाक्रमं पञ्चाना सुखादीना संक्लेशे; रागादीनां तऽनुशा-
यित्वात् । श्रद्धादीना व्यवदाने । तैर्हि१ व्यवदायते' । व्यवदानेऽपि सुखा-
प्राप्तिः । कामादिवैराग्यं च तेषा न सम्भवति । स्त्रीपुरुषाणा तु भवतीति,
अतो व्यवदानेऽपि स्त्रीपुरुषेन्द्रिययोराधिपत्यमिति ।
निकायसभागसम्बन्धसन्धारणयोरिति । जीवितेन्द्रियस्य निकायसभागोत्पत्तौ
निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते, ' निकायसभागसन्धारणे
चाधिपत्यम्, जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात् । मनइन्द्रियस्य पुनर्भवसम्बन्ध
इति । क्लिष्टेन पुनर्भवसम्बन्धात् । जीवितेन्द्रियादस्य को विशेष ? जीविते-
न्द्रियस्य अन्तराभव एव सम्बन्धनम्, मन इन्द्रियस्य तूपपत्तिभवेऽपि ।
समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति, मनइन्द्रियं
तु भिन्नकालमपि पुनर्भवे तत्सम्बन्धनं करोति । वशिभावानुवर्तन इति । चित्तस्य
वशिभावमनुवर्तते लोको धर्मो वा । यथोक्तम्—'चित्तेनायं लोको नीयते' इति
विस्तरः । गाथायामप्युक्तम्—
“चित्तेन नीयते लोकः, चित्तेन परिकृष्यते । –
एकधर्मस्य चित्तस्य सर्वधर्मा वशानुगाः ॥”
( सं० नि० १.२.७ ) इति ।
रागादीनां तदनुशायित्वादिति । तेषु सुखादिषु अनुशयितुं शीलमेषाम्—
आलम्बनतः, सम्प्रयोगतो वा । त इमे तदनुशायिनो रागादयः, तद्भावस्तदनु-
शायित्वम्, तस्मादिति । यथोक्तम्—"सुखाया वेदनाया रागोऽनुशेते, दुःखाया
१-१. तैर्व्यवदायत—का० ।