सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

विनिश्चयः ] अष्टमं कोशस्थानम् १२०५
एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति । यदि तु रूपवन्तं पुद्गलं
पश्येत्, सत्कायदृष्टिप्रसङ्गः स्यात् । अपाठ एव चात्र¹ शरणं स्यात् ।
तस्मात् प्रज्ञप्तिसत्पुद्गलो राशिधारादिवत्² ।
यद्येवम्, तर्हि न बुद्धः सर्वज्ञः प्राप्नोति, न हि किञ्चिच्चित्तमस्ति
चैत्ता वा यत् सर्वं जानीयाद्; क्षणिकत्वात् । पुद्गलस्तु जानीयात् ? एवं
तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं
भवति ? नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे । किं
तर्हि ? सामर्थ्यात् । याह्य सौ बुद्धाख्या सन्ततिस्तस्या इदमस्ति सामर्थ्यं
यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् । आह चात्र—
“सन्तानेन समर्थत्वाद् यथाग्निः सर्वभुङ्‌मतः ।
तथा सर्वविदेष्टव्योऽसकृत्सर्वस्य वेदनात्” ।।
कथमिदं गम्यते ? अतीतादिवचनात् ।
“ये चाम्यतीताः सम्बुद्धा ये च बुद्धा अनागताः ।
यश्च एतर्हि सम्बुद्धो बहूनां शोकनाशनः” ।। इति ।।
समनुस्मरन्तः समन्वस्माषुः, समनुस्मरन्ति, समनुस्मरिष्यन्ति वा न
पुद्गलम् । कस्मादाह रूपवानहं बभूवातीतेऽध्वनीति । अहमिति वचनात्
पुद्गल उच्यत इति दर्शयति । एवमनेकविधं ये समनुस्मरन्ति त एवं
समनुस्मरन्तीति वाक्याध्याहारः । अपाठ एव चात्र शरणं स्यादिति ।
अहमिति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसङ्ग स्यादित्यर्थः । विंशति-
कोटिका हि सत्कायदृष्टिः पठ्यते—१. रूपमात्मेति समनुपश्यति, २.
रूपवन्तमात्मानम्, ३. आत्मीयं रूपम्, ४. रूपे आत्मेति । एवं यावद्
विज्ञानं वक्तव्यम् ।
राशिधारादिवच्च । राशिवत्, धारावच्च । आदिशब्देन पानकादि-
ग्रहणम् । एकस्मिन् क्षणे बहूनां राशिः । बहुषु क्षणेषु समवहितानां
धारा । राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति । धारादृष्टान्तेन
बहुत्वे सति रूपवेदनादीनां स्कन्धानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति ।
कथमिदं गम्यत इति । बुद्धाख्यायाः सन्ततेरिदं सामर्थ्यम् यद्
आभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम्, न पुनः पुद्गलस्येति ।
उच्यते—अतीतादिवचनात् । ये चाम्यतीता इति । विस्तरेणोक्त उपसंहारः ।
तस्मात् स्कन्धसन्तान एव बुद्धाख्या, न पुद्गल इति ।
१. ह्यत्र—का० । २. ०धारावत्—का० ।

स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः । यदि
स्कन्धा एव पुद्गलाः, कस्मादिदमाह- "भारं च वो भिक्षवो देशयिष्यामि,
भारादानं च, भारनिक्षेपणं च, भारहारं च" ( ) इति ? कस्मादिदं न
वक्तव्यं स्यात् ? न हि भार एव भारहारो युक्तः । किं कारणम् ? नह्येवं
दृश्यत इति । अवक्तव्योऽपि न युक्तः । किं कारणम् ? न ह्येवं दृश्यते ।
भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च । इत्यर्थमेव च¹ भारहारं निर्दिदेश
भगवान् । "योऽसावायुष्मानेवन्नामा यावदेवंचिरस्थितिक एवमायुःपर्यन्तः"
स एष यथा विज्ञायेत । मान्यथा विज्ञायि- नित्यो वा, अवक्तव्यो वेति ।
स्कन्धा एव च स्कन्धानामुपघाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च
भारं च वो भिक्षवो देशयिष्यामीति विस्तरः । "भारं च वो
भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च । तच्छृणुत,
साधु च सुष्ठु च मनसिकुरुत, भाषिष्ये । भारः कतमः ? पञ्चोपादान-
स्कन्धाः । भारादानं कतमत् ? तृष्णा पौनर्भविकी, नन्दी-रागसहगता
तत्रतत्राभिनन्दिनी । भारनिक्षेपणं कतमत् ? यदस्या एव तृष्णायाः
पौनर्भविक्या नन्दी-रागसहगताया तत्रतत्राभिनन्दिन्याः अशेषप्रहाणम्,
प्रतिनिसर्गः, व्यन्तीभावः, क्षयः, विरागः, निरोधः, व्युपशमः,
अस्तङ्गमः । भारहारः कतमः ? पुद्गल इति स्याद् वचनीयम् । यो-
ऽसावायुष्मान् एवंनामा एवंजन्य एवंगोत्रः एवमाहार एवंसुखदुःखप्रति-
संवेदी एवंदीर्घायुः एवंचिरस्थितिकः एवमायुःपर्यन्तः" ( ) इति !
भारं हरतीति भारहारः पुद्गल इत्यभिप्रायः । अत्रेदमुदाहरणम्² ।
अत एवाह - नहि भार एव भारहार इति ।
भारादानस्यापि यथोक्तलक्षणस्य स्कन्धासङ्ग्रहप्रसङ्गाच्च । पुद्गलवत्
अस्कन्धसंग्रहप्रसङ्गः । न चैवमिष्यते । तस्माद् भारादानवान् न
स्कन्धेभ्योऽर्थान्तरभूतः पुद्गलः । इत्यर्थमेव चेति विस्तरेण सर्वमुक्त्वा
वक्तव्यं मान्यथेति । यदि द्रव्यसन् स्यात् पुद्गलः, “भारहारः कतमः ?
पुद्गल इति स्याद् वचनीयम्" इत्येतावदेवोक्तं स्यात् तत्र सूत्रे । परेण
स न विभक्तव्यः स्यात्-'योऽसावायुष्मान्' इति विस्तरेण यावत् 'आयुः-
पर्यन्तः' इति । प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्येतत् परेण विशेषणमित्य-
भिप्रायः । स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते ! मान्यथा विज्ञायि
नित्यो वाऽवक्तव्यो वा द्रव्यसत्पुद्गल इति । स्कन्धानामिति विस्तरः।
तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कन्धाः ते भार³ इति कृत्वोक्ताः ।
१. का० पुस्तके नास्ति । २. छेदमुदाहरणम्—जा० । ३. भाव—जा० ।

भारहारं च कृत्वोक्ताः । उपघातार्थो हि भार इति ।
अस्त्येव पुद्गलः; यस्मादुक्तम् - "नास्ति सत्त्व उपपादुक इति मिथ्या-
दृष्टिः" । कश्चैवमाह-नास्ति सत्त्व उपपादुक इति । सत्त्वस्तु यथाऽस्ति
तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे । यस्माद् यः परत्रोपपादुकसत्त्वा-
ख्यस्कन्धसन्तानापवादं करोति, तस्यैषा मिथ्यादृष्टिः-'नास्ति सत्त्व उपपादुकः'
इति; स्कन्धानामुपपादुकत्वात् ।
अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किम्प्रहातव्या भवेत् ?
नह्येषा दर्शनभावनाप्रहातव्या युज्यते; पुद्गलस्य सत्येष्वन्तर्भावात् १ । "एकः
पुद्गलो लोक उत्पद्यमान उत्पद्यते" इति वचनात् न स्कन्धा इति चेत् ?
न; समुदायेऽप्येकोपचारादेकतिलैकतण्डुलवत्, एकराश्येकवचनवच्च ।
संस्कृत इति वा पुद्गलो वक्तव्यः, उत्पत्तिमत्त्वाभ्युपगमात् । न स
एवमुत्पद्यते यथा स्कन्धाः, अपूर्वप्रादुर्भावात् । किं तर्हि ? स्कन्धान्तरोपा-
उत्तरे ये पीड्यन्ते ते भारहार इति कृत्वोक्ता इति ।
उपपादुकत्वादिति । उपपादने साधुकारित्वादित्यर्थः । पुद्गलस्य
सत्येष्वनन्तर्भावादिति । यस्माद् यथापरिकल्पितस्य पुद्गलस्य सत्येषु
दुःखादिषु नान्तर्भावः २ । नहि पुद्गलो दुःखम्, यावत् मार्ग इति । अतो न
सत्यदर्शनप्रहातव्यैषा पुद्गलापवादिका मिथ्यादृष्टिः । या हि दृष्टिः
यस्मिन् सत्ये विप्रतिपन्ना, तत्सत्यदर्शनात् तस्याः प्रहाणं भवेत् । तथा
दुःखसमुदयसत्ययोः पुद्गलस्यानन्तर्भावात् नापि भावनाप्रहातव्या ।
भावनाप्रहातव्यो हि क्लेशो भावनाप्रहातव्यमेव वस्तु दुःखं समुदयं वा-
ऽऽलम्बते-इत्येवं तस्याः भावनाप्रहातव्यत्वं युज्यते । न च पुद्गलस्त-
योरन्तर्भूत इत्यतो भावनाप्रहातव्या सा न भवति । अथ वा न कदाचिदपि
दृष्टिर्भावना प्रहातव्येति नासौ भावनाप्रहातव्या ।
एकतिलैकतण्डुलवद् एकराश्येकवचनवच्चेति । यथा अष्टद्रव्यकत्वेऽपि
एकतिल एकतण्डुल इति चोच्यते, तथा एको राशिरेकवचनमिति । तावद्
एकः पुद्गल इति ।
उत्पत्तिमत्त्वाभ्युपगमादिति । उत्पद्यत इति वचनात् उत्पत्तिमत्त्व-
मस्याभ्युपगतं भवति । ततश्च संस्कृत इति वक्तव्यो भवद्भिः ।
स्कन्धान्तरोपादानादिति । नास्य संस्कृतत्वमापद्यत इत्यभिप्रायः ।
१. सत्येष्वन्त०-का० । २. नान्तर्भावः-जा० ।
अभि० को० ४ : १२

१२०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
दानात् । यथा हि याज्ञिको जातः, वैयाकरणो जात इत्युच्यते; विद्योपादा-
नात् । भिक्षुर्जातः, परिव्राजको जात इति; लिङ्गोपादानात् । वृद्धो जातः,
व्याधितो जात इति; अवस्थान्तरोपादानादिति ? न; प्रतिक्षेपात् ।
सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम्—“इति हि
भिक्षवोऽस्ति कर्म, अस्ति विपाकः, कारकस्तु नोपलभ्यते । य इमांश्च स्कन्धान्नि-
क्षिपति, अन्यांश्च स्कन्धान् प्रतिसन्दधात्यन्यत्र धर्मसंकेतात्” ( ) इति ।
फल्गुसूत्रे चोक्तम्—“उपादत्त इति फल्गुना१ न वदामि” इति ।
तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता, नापि निक्षिप्ता ।
कं च तावद्भवान् याज्ञिकं यावद्व्याधितमधिमुच्यते दृष्टान्तं
करोति ? पुद्गलं यदि ? सोऽसिद्धः । अथ चित्तचैत्ता. ? न; तेषां प्रति-
क्षणमपूर्वोत्पत्तिरेव । अथ शरीरम् ? तस्यापि तथा।
शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते । जीर्णां शरी-
रान्तरमेव व्याधितं च । प्रतिषिद्धो हि सांख्यैयः२ परिणामवादः । तस्माद-
पदृष्टान्ता३ एते ।
यथा हि याज्ञिको जात इति विद्योपादानादुच्यते । न चासौ भूतार्थेन
जातः । तद्वदिति सर्वं योज्यम् ।
कारकस्तु नोपलभ्यत इति विस्तरः । कर्मणः कारको नोपलभ्यते ।
कीदृशोऽसाविति ? आह—य इमांश्च ऐहिकान् स्कन्धान् निक्षिपति
त्यजति । अन्यांश्च पारत्रिकान् स्कन्धान् प्रतिसन्दधाति उपसंगृह्णाति द्रव्य-
सन्नवस्थित इति । अन्यत्र धर्मसंकेतादिति । प्रतीत्यसमुत्पादलक्षणान्तेनाह—
यदुत अस्मिन् सतीति ।
उपादत्त इति फल्गुना न वदामीति । अहं चेदेवं वदेयम्—उपादत्त
इति, अत्र ते कल्पः स्यात् वचनाय—‘को नु, भदन्त, उपादानमुपादत्ते’ इति ।
तस्मान्नास्ति स्कन्धानां कश्चित् उपादाता, नापि निक्षिप्तेति ।
तस्यापि तथेति । प्रतिक्षणमपूर्वोत्पत्तिरेवेत्यर्थः । यदि पुद्गलः सो
ऽसिद्ध इत्येवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति ।
शरीरविद्यालिङ्गवच्चेति । विद्या च लिङ्गं च विद्यालिङ्गम्, शरीरं
च विद्यालिङ्गं च शरीरविद्यालिङ्गम्, तयोरिव शरीरविद्यालिङ्गवत् ।
१ फल्गु—का० । २. सांख्यीयः—का० । ३. तस्माद्दृष्टान्ता—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२०६
यदि च स्कन्धानामंपूर्वोत्पादो न पुद्गलस्येष्यते सोऽन्यश्च तेभ्यो
नित्यश्च स्फुटं दीपितो भवति। पञ्च स्कन्धा एकः पुद्गल इति ब्रुवता
कथमन्धत्वं नोच्यते । कथं तावद् भूतानि चत्वारि रूपं चैकं³। न च
भूतेभ्योऽन्यद्रूपम् ? पाक्षिक एष दोषः । कतमस्मिन् पक्षे ? भूतमात्रिकपक्षे ।
तथापि तु यथा भूतमात्रं रूपम्, एवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति ।
यदि स्कन्धमात्रं पुद्गलः, कस्माद् भगवता—'स जीवस्तच्छरीरमन्यो
वा' इति न व्याकृतम् ? प्रष्टुराशयापेक्षया । स हि जीवद्रव्यमेकमन्तर्व्यापार-
पुरुषमधिकृत्य पृष्टवान् । स च कस्मिंश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं
वा व्याक्रियताम् । कौर्मस्येव रोम्णोऽन्तः खरता मृदुता वा ।
एष च ग्रन्थः पूर्वकैरेव निर्मोचितः । स्थविरो हि नागसेनः कलिङ्गेन
स्कन्धपुद्गलयोरन्यत्वमापद्यते । यथोपादेयाया विद्याया लिङ्गाच्च
शरीरस्यान्यत्वम्, एवमुपादेयात् स्कन्धात् पुद्गलस्यान्यत्वम्, उपादातृत्वा
दित्यभिप्रायः । जीर्णात्तं शरीरान्तरमेव, व्याधितं चेति प्रतिक्षणमन्यत्व-
मवस्थानादित्यभिप्रायत् । तत्र यदुक्तम्—जीर्णो जातः, व्याधितो जात
इत्यसिद्धो दृष्टान्त इति दर्शयति । अथापि स्यात्—अवस्थितस्य शरीरस्या-
वस्थान्तरनिवृत्ताववस्थान्तरप्रादुर्भाव इति ? तच्च नाप्रतिषिद्धो हि
साङ्ख्यैयः परिणामवादः पूर्वस्मिन् कोशस्थाने । कथम् ? स एव धर्मी न
संविद्यते, यस्यावस्थितस्य धर्मान्तरविकल्पः परिकल्प्येत । तदेव चेदं तथेत्य-
पूर्विका वाचो युक्तिरिति ।
भूतानि चत्वारि, रूपं चैकमिति । "रूपं कतमत् ? चत्वारि
महाभूतानि" ( ) इत्यादि ।
पाक्षिक एष दोष इति । एकस्मि पक्षे अयं दोषवाद इत्यर्थः ।
भूतमात्रिकपक्ष इति । स्थविरबुद्धदेवपक्षे, नास्मत्पक्ष इत्यर्थः । तथापि
'त्विति । भूतमात्रिकपक्षेऽपि भूतेभ्यो रूपं नान्यत् । भूतमात्रिकपक्षेऽपि
भूतेभ्यो रूपवत् स्कन्धेभ्यो नान्यः पुद्गल इत्युपगतं भवतीति स्वसिद्धान्तस्य
परित्यागः² स्यादित्यभिप्रायः ।
कस्माद् भगवता स जीवः तच्छरीरम्, अन्यो वेति न व्याकृतमिति ।
अयमेषामभिप्रायः—यदि स्कन्धेषु पुद्गलोपचारः, कस्माच्छरीरमेव जीव इति
नोक्तमिति ।
पूर्वकैरेवेति । स्थविरनागसेनादिभिः। बहुबोल्लका इति। बहुप्रलापा इति ।
३. त्वेकं—का० । २ ०सिद्धान्तः० —जा० ।

१२१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ पुद्गल-
राज्ञोपसंक्रम्योक्तः- "पृच्छेयमहं भदन्तम्, बहुबोल्लकाश्र्च श्रमणा भवन्ति,
यदि यदेव पृच्छेयं तदेव व्याकुर्याः" इति । पृच्छेत्युक्तः पृष्टवान्—"किं नु स
जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्" इति ? "अव्याकृतमेतत्"
इत्यवोचत् स्थविरः । स आह—"ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितः—
नान्यद्व्याकर्तव्यमिति ! किमिदमन्यदेवोक्तम्—अव्याकृतमेतदिति" । स्थविर
आह—"अहमपि महाराजं पृच्छेयम्, बहुबोल्लकाश्र्च राजानो भवन्ति, यदि
यदेव पृच्छेयं तदेव व्याकुर्याः" इति । पृच्छेत्युक्तः पृष्टवान्—"यस्तेऽन्तःपुरे
आम्रवृक्षस्तस्य किमम्लानि फलानि, आहोस्विन्मधुराणि इति ? 'नैव
ममान्तःपुरे कश्चिदाम्रवृक्षोऽस्ति" इत्याह । "ननु मया पूर्वमेव महाराजः
प्रतिज्ञां कारितः—नान्यद्व्याकर्तव्यमिति ! किमिदमन्यदेवोक्तम्—आम्र एव
नास्ति" इति ? स आह—"कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा
व्याकरोमि" इति । "एवमेव महाराज, स एव जीवो नास्ति, कुतोऽस्य
शरीरादन्यतामनन्यतां वा व्याकरोमि" ( ) इति ।
कस्माद् भगवताऽपि नोक्तम्—नास्त्येवेति ? प्रष्टुराशयापेक्षया । स
हि यस्यापि स्कन्धसन्तानस्य जीव इत्याख्या, तस्याप्यभावं प्रतीयादिति
मिथ्यादृष्टि पातितः स्यात्; प्रतीत्यसमुत्पादस्याज्ञानात् । स च तद्देशनाया
अक्षमः ।
इतश्चैतदेवं निश्चीयते । यत् भगवतोक्तम्—"अस्त्यात्मेत्यानन्द !
वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वल्पं स्याद्वचनाय—
सर्वधर्मा अनात्मान इति । नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय
प्रश्नं पृष्टो व्याकुर्याम्, ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या
मात्रया संमोहमापद्येत—अभून् मे आत्मा, स मे एतर्हि नास्तीति ।
अस्त्यात्मेत्यानन्द शाश्वताय परैति । नास्त्यात्मेत्यानन्दोच्छेदाय परैति" इति
विस्तरः ।
इतर आह¹—यदि पुद्गलो नावक्तव्यः, कस्मान्नोक्तो नास्त्येवेति ।
स च तद्देशनाया अक्षम इति । नैरात्म्यदेशनाया अयोग्य इत्यर्थः ।
पूर्वमेवं सम्मूढ इति । सत्कार्यदृष्टिसहगतेन मोहेन । भूयस्या मात्रया
संमोहमापद्येतेति । उच्छेददृष्टिसहगतं दृष्टयन्तरमुत्पादयेदित्यभिप्रायः ।
अत एवाह—अभून्मे आत्मा, स एतर्हि नास्तीति । आह चात्रेति ।
भदन्तकुमारलातः²—
१. इतराह—जा० । २. ०कुमारलाभ इत्यपि पाठः ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२११
आह चात्र—
"दृष्टिदंष्ट्रावभेदं च भ्रंशं चापेक्ष्य कर्मणाम्।
देशयन्ति जिना धर्मं व्याघ्रीपोतापहारवत्॥
आत्मास्तित्वं ह्युपगतो भिन्नः स्याद् दृष्टिदंष्ट्रया।
भ्रंशं कुशलपोतस्य कुर्यादप्राप्य संवृतिम्"॥ ( ) इति।
पुनराह—
"असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत्।
नास्तीत्यपि च नावोचन्मा भूत् प्राज्ञप्तिकोऽप्यसन्॥
यत्र हि स्कन्धसन्ताने शुभाशुभफलास्तिता।
जीवाख्या तत्र सा न स्यात् जीवनास्तित्वदेशनात्॥
प्रज्ञप्तिमात्रं स्कन्धेषु जीव इत्यपि नावदत्।
अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः॥
तथा ह्यात्मास्ति नास्तीति पृष्टो वात्स्येव नावदत्।
आशयापेक्षया प्रष्टुः सति त्वस्तीति नाह किम्"॥ ( )
दृष्टिदंष्ट्रावभेदं चेति विस्तरः। दृष्टिरेव दंष्ट्रा, तयावभेदम्।
अपेक्ष्य देशयन्ति बुद्धा भगवन्तो धर्मं नैरात्म्यं तत्प्रतिपक्षेण। भ्रंशं च
कर्मणाम् अपेक्ष्य कृतविप्रणाशमपेक्ष्य पुद्गलास्तित्वमिव दर्शयन्तोऽन्यथा
देशयन्ति। व्याघ्रीपोतापहारवत् इति। यथा व्याघ्री नातिनिष्ठुरेण
दन्तग्रहणेन स्वपोतमपहरति नयति—'मास्य दंष्ट्रया शरीरं क्षतं भूत्' इति।
नाप्यतिशिथिलेन दन्तग्रहणेन तमपहरति—'मास्य भ्रंशपातोऽस्मिन् विषये
'भूत्' इति। युक्तेनैव ग्रहणेनापहरतीत्यर्थः। अपहरतीत्यपरे पठन्ति,
स्थानान्तराद् अपहरति अपनयतीत्यर्थः।
तथाऽर्थदर्शने कारणं दर्शयन्नाह—आत्मास्तित्वमिति विस्तरः।
आत्मास्तित्वं प्रतिपन्नश्चेत् कश्चित् दृष्टिदंष्ट्रया सत्कायदृष्टिलक्षणया भिन्नः
स विनेयजनः स्यात्। अप्राप्य संवृतिगतिम्। धर्मसंकेतमजानतः कुशल-
पोतस्य कुशलकर्मणः व्याघ्रोपोतभूतस्य भ्रंशं कुर्यात्—'नास्ति कर्मणः
फलम्' इति।
प्राज्ञप्तिक इति प्रज्ञप्तौ भवः प्राज्ञप्तिकः। संवृतिसन्नपि पुद्गलो
नास्तीति कश्चिद् गृह्णीयादित्यतो नास्तीति नावोचत्।
सति त्वस्तीति नाह किम् इति। यदि भूतार्थेन पुद्गलोऽस्ति,

१२१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
शाश्वतलोकादीनामप्यव्याकरणं प्रष्टुराशयापेक्षया। यदि हि ताव-
दात्मा लोक इष्टः स्यात्, तस्याभावादयुक्तं चतुर्धा व्याकरणम् । अथ सर्व
एव संसारो लोकः, तस्याप्ययुक्तम् । शाश्वते लोके न कस्यचित् परिनिर्वाणं
प्राप्नुयात् । अशाश्वते सर्वेषामुच्छेदः प्राप्नुयात् । उभयथात्वे नियमत
एकेषां परिनिर्वाणं प्राप्नुयात्, एकेषां न । अनुभयथात्वे नैव परिनिर्वाणं
नापरिनिर्वाणं प्राप्नुयात् । अतो मार्गाधीनत्वात्, परिनिर्वाणस्य चतुर्धापि
नियमो न व्याक्रियते निर्ग्रन्थश्रावकचटकवत् ।
अत एवान्तवान् लोक इति चतुष्काव्याकरणम् । तुल्यार्थो ह्येष
चतुष्कः । तथाहि मुक्तिकः परिव्राजक एवं चतुष्कं पृष्ट्वा पुनः पृष्टवान् —
“किं नु सर्वो लोकोऽनेन मार्गेण निर्यास्यति१, आहोस्विदेकदेशो लोक-
स्य” इति ? स्थविर आनन्द आह—“यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं
प्रश्नं पृष्टवान्, त्वमेवैतत्२ पृच्छस्यनेन पर्यायेण” ( ) इति सर्वम् ।
किमिति कृत्वा भगवान् ‘अस्ति पुद्गलः’ इति न ब्रवीति । नहि ‘रूपमस्ति’
इति वचनेन दोषो भवति ; तस्यास्तित्वात् ।
निर्ग्रन्थश्रावकचटकवदिति । निर्ग्रन्थश्रावकेण चटकं जीवन्तं
गृहीत्वा भगवान् पृष्टः— किमयं चटको जीवति न वेति । तस्यायमभिप्रायः—
यदि श्रमणो गौतम आदिशेत्— ‘जीवति’ इति, स तं निपीडनेन मारयित्वा
दर्शयेत् । यदि पुनर्भगवान् एवमादिशेत्— ‘मृतः’ इति, स तं जीवन्तमेव
दर्शयेत्— ‘कथं नामायमज्ञः’ इति लोको जानीयात् इति तस्याभिप्रायः ।
भगवता तु तस्याशयं विदित्वा न व्याकृतम् । त्वच्चित्तप्रतिबद्धमेवैतत्—
‘जीवति वा न वेति च’ इत्येवाभिहितम्, तद्वदेतन्न व्याकृतमिति ।
तुल्यार्थो ह्येष चतुष्क इति । ‘शाश्वतो लोकः, अशाश्वतो लोकः’
इत्यनेन चतुष्केन ‘अन्तवान् लोकः अनन्तवान् लोकः’ इत्ययं चतुष्कस्तु-
ल्यार्थः । यद्येवम्, कथं चतुर्दशाव्याकृतवस्तूनि भवन्ति ? ‘शाश्वतो लोकः’
इत्येकचतुष्कः । ‘अन्तवान्’ इति द्वितीयश्चतुष्कः । ‘भवति तथागतः’ इति
तृतीयश्चतुष्कः । ‘स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यत् शरीरम्’ इति
द्विकः । त्रयश्चतुष्काः, एकश्च द्विक इति चतुर्दशाव्याकृतवस्तूनि । पर्याय-
रूपत्वव्यस्थानेऽपि चतुर्दशत्वं भवतीत्यदोषः । त्वमेवैतत् पृच्छसीति ।
१. निर्याति—का० ।
२. तमेवै०—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२१३
'भवति तथागतः परं मरणात्' इत्यपि चतुष्कः प्रष्टुराशयापेक्षया न
व्याकृतः । स हि मुक्तात्मानं तथागतं कृत्वा पृष्टवान् ।
पौद्गलिकस्तु पर्यनुयोज्यः—किं कारणं भगवान् जीवन्तं पुद्गलं
अस्तीति व्याकरोति, परं मरणान्न व्याकरोतीति ? शाश्वतदोषप्रसङ्गः ।
इदं तर्हि कस्माद्व्याकरोति—“भविष्यसि त्वं मैत्रेयानागतेऽध्वनि
तथागतोऽर्हन् सम्यक्सम्बुद्धः” इति ? कस्माच्च श्रावकमभ्यतीतं कालगत-
मुपपत्तौ व्याकरोति-अमुकोऽमुत्रोपपन्न इति ? एवमपि हि शाश्वतत्वप्रसङ्गः ।
यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न
पश्यति, अज्ञानान्न व्याकरोतीति, सार्वज्ञं¹ शास्तुरुत्पादितं भवति, न वा
सोऽस्तीत्यभ्युपगन्तव्यम् ।
अथ पश्यति, अनुच्यमानोऽप्यसावस्ति शाश्वतश्चेति सिद्ध भवति ।
अथैतदपि न वक्तव्यम्—पश्यति वा नवेति । एवं तर्हि इदमपि शनैः
शनैरवक्तव्यं क्रियताम्—सर्वज्ञो वा न वा भगवान् वेति ।
अस्त्येव पुद्गलो यस्मात् सत्यतः स्थितितो नास्ति मे आत्मेति
दृष्टिस्थानमुक्तम् ? अस्तीत्यपि दृष्टिस्थानमुक्तम् । तस्मादज्ञापकमेतत् ।
'अन्तवान्' इति यं पृष्टवान् । कथम् ? किं नु सर्वो लोकोऽनेन मार्गेण
निर्यास्यति ? इति 'अन्तवान्' इति 'अशाश्वतः' इति च पृष्टं भवति ।
आहोस्वित् 'एकदेशो लोकस्य' इत्यनेन 'अन्तवांश्च, अनन्तवांश्च' इति
'शाश्वतश्च, अशाश्वतश्च' इति पृष्टं भवति ।
जीवन्तं पुद्गलमस्तीति व्याकरोतीति । तत्त्वान्यत्वेनावक्तव्यं सन्तमेवं
पुद्गलं व्याकरोतीत्यभिप्रायः ।
शाश्वतदोषप्रसङ्गादिति । वात्सीपुत्रीयवचनम् । इदं तर्हि कस्माद्
व्याकरोतीति विस्तरेण आचार्यवचनम् । सार्वज्ञमिति । अण् भावप्रत्ययः,
यौवनमिति यथा । न वक्तव्यं पश्यति वा न वेति । पश्यति, न पश्यतीति न
वक्तव्यम् इत्यर्थः । शनैः शनैरवक्तव्यं क्रियतामिति । सर्वज्ञो वा भगवान्,
न वेति । न वक्तव्यमिति । शनैः शनैर्ग्रहणं समानशाक्यपुत्रीयप्रकोपरि-
हारार्थम् । सत्यतः स्थितित इति । स्थितिरूपेणेत्यर्थः । दृष्टिस्थान-
मुक्तमिति । मिथ्यादृष्टिस्थानमुक्तमित्यभिप्रायः ।
१. सर्वज्ञत्वं—का० ।

१२१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभि-
धार्मिकाः । तथैव च युक्तम् । "अस्त्यात्मेत्यानन्द शाश्वताय परैति
नास्त्यात्मेत्यानन्दोच्छेदाय परैति" ( ) इति वात्स्यसूत्रे वचनात् ।
यदि तर्हि पुद्गलो नास्ति, क एष संसरति ? नहि संसार एष
संसरतीति युक्तम् । उक्तं च भगवता—"अविद्यानिवरणानां सत्त्वानां
सन्धावतां संसरताम्” ( ) इति । अथ पुद्गलः, कथं संसरति ?
स्कन्धान्तरत्यागोपादानात् ? उक्तोत्तर एष पक्षः । यथा तु क्षणिकोऽग्निः
सन्तत्या सञ्चरतीत्युच्यते१, तथा सत्त्वाख्यः स्कन्धसमुदायस्तृष्णोपादानः
संसरतीत्युच्यते ।
यदि स्कन्धमात्रमिदम्, कस्मादाह भगवान्—"अहमेव स तेन कालेन
तेन समयेन सुनेत्रो नाम शास्ताऽभूवम्" इति ? कस्मान्न वक्तव्यं स्यात् ?
अन्यत्वात् स्कन्धानाम् । अथ किं पुद्गलः ? स एवासौ । शाश्वतो हि
स्यात् ! तस्मादहमेव स इत्येकसन्तानतां दर्शयति । यथा स एवाग्निर्देहन्ना-
गत इति ।
यदि चात्मा भवेत्, तथागता एव सुव्यक्तं पश्येयुः । पश्यतां चात्मग्राहो
आचार्य आह—अस्तीत्यपि दृष्टिस्थानमुक्तमिति । सत्कायदृष्टि-
स्थानमुक्तमित्यर्थः ।
उक्तोत्तर एष पक्ष इति । कथं च न ? प्रतिक्षेपात् । सूत्र एव हि
प्रतिक्षिप्तं भगवतेति विस्तरेण यावद् 'अपदृष्टान्ता एते' इति । किमिद-
मुपादायेति ,आरभ्य । एतदपरेषां व्याख्यानम् । स्वमतेन तु यथा संसरति
तथा दर्शयन्नाह—यथा तु क्षणिकोऽग्निरिति विस्तरः । क्षणिकोऽग्निः
प्रसिद्धः । स च देशान्तरोत्पत्तिसन्तत्या सञ्चरतीत्युच्यते । तथा सत्त्वाख्य-
स्कन्धसमुदायस् तृष्णां उपादानमस्येति तृष्णोपादानः ।
क्षणिकोऽपि सन्तत्या संसरतीति ।
सुनेत्रो नाम शास्तेति । सप्तसूर्योदयसूत्रेऽयमेव भगवान् ऋषिः सुनेत्रो
नाम बभूवेति ।
अन्यत्वात् स्कन्धानामिति । क्षणिकत्वे सत्यन्यत्वादित्यभिप्रायः ।
एकसन्तानतां दर्शयतीति । यस्मात् सुनेत्रो बुद्धसन्तान एवासीत् ।
१. संसरती०—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२१५
दृढतरः स्यादात्मस्नेहश्च । "आत्मनि च सत्यात्मीयं भवति" इति सूत्रे
वचनादात्मग्राहोऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत । सैषां १ स्यात् सत्कायदृष्टिः ।
आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः । एवमेषां दृढतरात्मात्मीयस्नेहपरि-
गाहितबन्धनानां२ मोक्षो दूरीभवेत् ३ ।
अथ मतम्—नैवात्मनि प्रवर्तते स्नेह इति । तत् क इदानीमेष योगो
यदनात्मन्यात्माधिमोक्षात् स्नेह उत्पद्यते, आत्मन्येव तु नोत्पद्यते ! तस्मात्
दृष्टचर्बुदमेतस्मिन् शासने उत्पन्नम्—य एष एकेषां पुद्गलग्राहः, एकेषां
सर्वनास्तिताग्राहः ।
येऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकराः, तेषामेव मोक्षाभाव-
दोषो निष्कम्पः ।
यदि तर्हि सर्वथापि

१२१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
सदृशसम्बन्धिसंज्ञादिमतोऽनुपहतप्रभावाद् आश्रयविशेषशोकव्याक्षेपादिभिः ।
तादृशोऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थस्तां स्मृतिं भावयितुम्, तदन्वयोऽपि
चान्यादृशो न समर्थस्तां स्मृतिं भावयितुम् । उभयथा तु समर्थ इत्येवं
स्मृतिर्भवति; अन्यस्य१ सामर्थ्यादर्शनात् ।
कथमिदानीमन्येन चेतसा दृष्टमन्यत् स्मरति, एवं हि देवदत्तचेतसा
दृष्टं यज्ञदत्तचेतः स्मरेत् ? न; असम्बन्धात् । न हि तयोः सम्बन्धोऽस्ति;
तदाभोगसदृशसम्बन्धिसंज्ञादिमान् चित्तविशेषः । आदिग्रहणेन प्रणिधान-
निबन्धाभ्यासादिग्रहणम् । आश्रयविशेषश्च शोकतश्च व्याक्षेपतश्च आदि-
रेषामिति आश्रयविशेषशोकव्याक्षेपादीनि, तैः अनुपहतप्रभावश्चित्तविशेषः ।
स एवमनेन दर्शितो भवति । तस्माद् ईदृशाच्चित्तविशेषात् स्मृतिर्भवति ।
तदिदमुक्तं भवति—तदाभोगवतः यदि तत्राभोगः क्रियते सदृशसंज्ञादिमतः
यत्र सादृश्यात् स्मृतिर्भवति । सम्बन्धिसंज्ञादिमतः यत्रान्तरेणापि सादृश्यं

विनिश्चयः ] भाष्यस्फुटार्थासहितेऽभिधर्मकोशे १२१७
अकार्यकारणभावाद्, यथैकसंतानिकयोः । न च ब्रूमः-अन्येन चेतसा दृष्टमन्यत्
स्मरतीति ! अपि तु दर्शनचित्तात् स्मृतिचित्तमन्यदेवोत्पद्यते¹। सन्तति-
परिणत्या यथोक्तमिति क एवं सति दोषः ! स्मरणादेव च प्रत्यभिज्ञानं
भवति ।
असत्यात्मनि क एष स्मरति ? स्मरतीति कोऽर्थः ? स्मृत्या विषयं
गृह्णाति । किं तद्ग्रहणमन्यत् स्मरणात् ! स्मृतिं तर्हि कः करोति ? उक्तः
स यस्तां करोति स्मृतिहेतुचित्तविशेषः ।
यत्तर्हि चैत्रः स्मरतीत्युच्यते । ततो हि चैत्राख्यात् सन्तानात्² भाव-
दृष्टद्योच्यते²-चैत्रः स्मरतीति । असत्यात्मनि कस्येयं स्मृतिः । किमर्थैषा
षष्ठी ? स्वाम्यर्था । यथा कस्य कः स्वामी । यथा गोश्चैत्रः । कथमसौ
तस्याः स्वामी ? तदधीनो हि तस्या वाहदोहादिषु विनियोगः । क्व च
पुनः स्मृतिर्विनियोक्तव्या, य एवं तस्याः स्वामी मृग्यते ? स्मर्तव्येऽर्थे ।
किमर्थं विनियोक्तव्या ? स्मरणार्थम् ।
अहो सूक्तानि मुखेधितानाम् ! सैव हि नाम तदर्थं विनियोक्तव्येति ।
कथं च विनियोक्तव्या ? उत्पादनत', आहोस्वित् सम्प्रेषणतः ? स्मृतिगत्य-
योगादुत्पादनतः । हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् ।
यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति । यो ह्येव हेतुः
स्मृतेस्तस्यैवासौ । यश्चापि स चैत्राभिधानः संस्कारसमूहसन्तान एकतो
गृहीत्वा गवाख्यस्वामीत्युच्यते, स चापि तस्य देशान्तरविकारोत्पत्तौ
कारणभावं चेतसि कृत्वा । न तु खलु कश्चिदेकश्चैत्रो नामास्ति, न चापि
न च ब्रूमः-अन्येन चेतसा दृष्टमन्यत् स्मरतीति । न यत् किञ्चिदन्यत्
स्मरतीत्यभिप्रायः । दर्शनचित्तात् स्मृतिचित्तमन्यदेवोत्पद्यत इति । विद्य-
मानकारणत्वात्, विद्यमानबीजाङ्कुरवदित्यर्थः । स्मरणादेव च प्रत्यभिज्ञा-
नमिति । 'तदेवेदं यन्मया दृष्टम्' इति स्मरणात् ।
यत् तहींति । यदि चित्तविशेष एव स्मृतिः । यत् तर्हि चैत्रः
स्मरतीति । तत् कथमिति वाक्याध्याहारः ।
स चापि तस्येति विस्तरः । स चापि चैत्राभिधानः संस्कारसमूह-
सन्तानस्तस्य गवाख्यस्य देशान्तरविकारोत्पत्तौ देशान्तरोत्पत्तौ विकारोत्पत्तौ
च कारणभावं चेतसिकृत्वा । किम् ? स्वामीत्युच्यते । न तु पुद्गलम् ।
कार्यकारणभावापेक्षोऽयं व्यवहारः, न पुद्गलापेक्ष इत्यभिप्रायः । अत
१. अन्यदुत्पद्यते—का० । २-२. संतानानां भवन्तीं दृष्टवो०—का० ।

१२१८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ पुद्गल-
गोः । तस्मात् तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिभावः ।
एवं को विजानाति, कस्य विज्ञानम्—इत्येवमादिषु वक्तव्यम् । तस्य
हेतुरिन्द्रियार्थमनस्कारो यथायोगमित्येष विशेषः ।
योऽप्याह—भावस्य भवितृपेक्षत्वात् सर्वो हि भावो भवितारमपेक्षते ।
यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते । तथा विज्ञानं
भावः । तस्माद् यो विजानाति तेन भवितव्यमिति । स वक्तव्यः—कोऽयं
देवदत्त इति ? यद्यात्मा ? स एव साध्यः । अथ व्यवहारपुरुषः ? सोऽपि न
कश्चिदेकः । संस्कारा हि त एवन्नामानः । तत्र यथा देवदत्तो गच्छति यथा
विजानाति ।
कथं च देवदत्तो गच्छति ? क्षणिका हि संस्कारा अभिन्नसन्ताना
देवदत्त इति बालेरेकसत्त्वपिण्डग्राहेणाधिमुक्ताः स्वस्य सन्तानस्य देशान्तरे
एवाह—न तु कश्चिदिति विस्तरः ।
एवं को विजानातीति । असत्यात्मनि क एवं विजानाति । विजा-
नातीति कोऽर्थः ? विज्ञानेन विषयं गृह्णाति । किं तद् ग्रहणम् अन्यद्
विज्ञानात् । विज्ञानं तर्हि किं करोति ? उक्तः सः, यस्तत् करोति । विज्ञान-
हेतुरिन्द्रियार्थमनस्कारः । चित्तविशेष इति तन्न वक्तव्यम् । इन्द्रियादि-
हेत्वन्तरयोगात् । अत एव चोच्यते यथायोगमित्येष विशेष इति । यत्
र्तार्ह चैत्रो विजानातीत्युच्यते । ततो हि चैत्राख्याद् सन्तानाद् भावदृष्टचोच्य-
ते । असत्यात्मनि कस्येदं विज्ञानम् ? किमर्थैषा षष्ठी ? स्वाम्यर्था । यथा
कस्य कः स्वामीति विस्तरेण यावत् क्व च पुनः विज्ञानं विनियोक्तव्यम् ?
यत एतस्य स्वामी मृग्यते । विज्ञातव्येऽर्थे । किमर्थं विनियोक्तव्यम् ?
विज्ञानार्थम् । अहो सूक्तानि सुखैषितानाम् ! तदेव हि नाम तदर्थं विनि-
योक्तव्यमिति । कथं च विनियोक्तव्यम् ? उत्पादनतः, आहोस्वित् सम्प्रेषणतः ?
विज्ञानगत्ययोगादुत्पादनतः । हेतुरेव र्तार्ह स्वामीति विस्तरेण यावद् यो
हि एव हेतुर्विज्ञानस्य, तस्यैवासौ । यश्चापि स चैत्राभिधान इति विस्तरेण
यावन्न तत्रापि हेतुभावं व्यतीत्यास्ति स्वामिभाव इति । आदि-शब्देन 'को
वेदयते', 'कस्य वेदना' 'कः सञ्जानीते' 'कस्य संज्ञा' इत्येवमादि । एषा
दिगिति ।
योऽप्याह—भावस्य भवितृपेक्षादिति । वैयाकरणः । तेन भवि-
तव्यमिति । विज्ञात्रा भवितव्यं पुद्गलेनेत्यभिप्रायः ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२११
कारणं भवन्त उच्यन्ते—गच्छति देवदत्त इति । सा च देशान्तरोत्पत्तिर्गति-
रिति । ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् । त एव च पुनर्विज्ञा-
नस्य कारणं भवन्त उच्यन्ते—विजानाति¹ देवदत्त इति । आर्यैरपि तेषां
संज्ञया तथोच्यन्ते व्यवहारार्थम् ।
यत्तर्हि "विज्ञानं विजानाति" इति सूत्र उक्तम्, किं तत्र विज्ञानं
करोति ? न किञ्चित् करोति । यथा तु कार्यं कारणमनुविधीयत इत्युच्यते,
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । एवं विज्ञानमपि विजानातीत्युच्यते,
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । किं पुनरस्य सादृश्यम् ? तदाकारता ।
अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते, नेन्द्रियम् ।
अथवा तथाऽत्रापि विज्ञानसन्तानस्य विज्ञाने कारणभावाद् विज्ञानं
विजानातीति वचनान्निर्दोषम्, कारणे कर्तृशब्दनिर्देशात् । घण्टा रोतीति
यद्वत् ।
अपि खलु यथा प्रदीपो गच्छति, तथा विज्ञानं विजानातीति । कथं
च प्रदीपो गच्छति ? प्रदीप इत्यर्चिषां सन्तान उपचर्यते, स देशान्तरे-
षूत्पद्यमानस्तं देशं गच्छतीत्युच्यते । एवं विज्ञानमपि चित्तानां सन्तान
गच्छति-गमनाभिधानवदिति । यथा ज्वाला गच्छति, शब्दो गच्छती-
ति गच्छति-शब्दाभिधानम् । यथा ज्वालायाः शब्दस्य वा गमनम् । अनेन
दृष्टान्तेन विजानाति देवदत्त इति सिद्धयति ।
सादृश्येनात्मलाभादिति । कारणासादृश्येन कार्यात्मलाभात् । अकुर्व-
दपि कञ्चिदिति । परिस्पन्दनमकुर्वदपीत्यर्थः ।
तदाकारतेति । नीलादिविषयाकारतेत्यर्थः । विज्ञाने कारणभावात्
इति विज्ञानं विज्ञानान्तरस्य कारणम्, अतो विज्ञानान्तरं उत्पादाद् विजाना-
तीति उच्यते । कारणे कर्तृ शब्दनिवेशादिति । कारणं कर्तृ भूतमिति

उपचर्यते। तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते। यथा
चाभिजायते तिष्ठतिं रूपमित्यत्र भवितुर्भावादनर्थान्तरत्वम्, एवं विज्ञानेऽपि
स्यात्।
यदि विज्ञानाद् विज्ञानमुत्पद्यते नात्मनः, कस्मान्न नित्यं तादृश-
मेवोत्पद्यते, न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवत्" स्थित्यन्यथात्वस्य
संस्कृतलक्षत्वात्। एष हि संस्कृतस्य स्वभावो यदनवश्यं प्रबन्धस्यान्यथात्वं
भवति। अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ
प्रथमक्षणनिर्विशेषत्वात् पश्चादपि न स्यात् स्वयं व्युत्थानम्।
क्रमोऽपि हि चित्तानां नियत एव। यतो नूत्पत्तव्यम्; तत एव
तस्योत्पादात्। तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति; गोत्र-
विशेषात्। तद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं


विजानातीत्युच्यते। सन्तानेन विज्ञानोत्पत्त्या विजानातीत्यभिप्रायः।
यथा वा रूपं भवतीति विस्तरः। यथा भवितू रूपस्य भावात्, जनितुर्जातेः,
स्थातुः स्थितेरनर्थान्तरत्वम्, एवं विज्ञानेऽपि स्यात् विज्ञातुर्विज्ञानस्य
भावादनर्थान्तरत्वम्; व्यतिरिक्तस्य भावस्यानुपलब्धेः। वैशेषिक-
सूत्रानुसाराद् वा।
नात्मन इति। यदि नात्मनो विज्ञानमुत्पद्यते विज्ञानलक्षणस्याविशे-
षात्। तादृशमेव विज्ञानमुत्पद्येत। यदि त्वात्मनः तस्याभिप्रायविशेषाद्
विशिष्टं ज्ञानमुत्पद्यत इत्यभिप्रायः। न च क्रमनियमेनेति। कस्माच्च न
क्रमनियमेनोत्पद्यते। अनियमेनापि हि उत्पद्यते, गोबुद्धेरनन्तरं स्त्रीबुद्धिः।
स्त्रीबुद्धेर्महिषबुद्धिः। कस्माद् गोबुद्धेरनन्तरं नोत्पद्यते ऽङ्कुर-काण्ड-
पत्रादिवदिति। अङ्कुरात् काण्ड एवोत्पद्यते, न पत्रादि। काण्डात्
पत्रमेवोत्पद्यते, न पुष्पादि, अङ्कुरादि वा, तद्वत्।
निकामध्यानसमाहितानामिति। निकामेन = पर्याप्तेन, समाप्तेन
ध्यानेन समाहितानाम्। सदृशकायचित्तोत्पत्तौ। सदृशस्य कायस्य चित्तस्य
चोत्पत्तौ। स्वयं व्युत्थानमिति। न परोपक्रमेणेत्यभिप्रायः। एवमनेन
कस्मात् न नित्यं सदृशमेवोत्पद्यत इति यत् पृष्टं तद्विसर्जनम्। यत्तु पृष्टम्-
न च क्रमनियमेनेति, तद् दर्शयन्नाह-क्रमोऽपि हि चित्तानां नियतमेवेति।
अभीष्टमेवैतत्। गोत्रविशेषादिति। भावनाविशेषात्। स्त्रीचित्तादिति
विस्तरः। स्त्रीचित्तात् स्त्र्यालम्बनाच्चित्तात् अनन्तरं तस्याः स्त्रियाः कायः
तत्कायः। तत्कायस्य विदूषणायै यदि परिव्राजकस्यान्धस्य वा साधोश्चित्त-

विनिश्चयः ] अष्टमं कोशस्थानम् १२२१
भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात् सन्ततिपरिणत्या स्त्रीचित्त-
मुत्पद्यते, तत् समर्थं भवति तत्पतिपुत्रादि-
चित्तोत्पादने वा; तद्गोत्रत्वात् ; अन्यथा न समर्थम् ।
अथ पुनः पर्यायेण स्त्रीचित्ताद् बहुविधं चित्तमुत्पन्नं बहुतरमासन्नतरं
वा तदेवोत्पद्यते; तद्भावनाया बलीयस्त्वात् । अन्यत्र तात्कालिकात् काय-
बाह्यप्रत्ययविशेषात् । सैवं बलीयसी भावना कस्मान्नित्यं न फलति ?
स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात् । तस्य चान्यथात्वस्यान्यभावना-
मुत्पन्नं भवति । तत्पतिपुत्रादिचित्तं वा । तस्याः पतिपुत्रादयः । आदि-
शब्देन दुहित्रादयो गृह्यन्ते । तदालम्बनं चित्तं तत्पतिपुत्रादिचित्तम् । तद्
वान्यतरद् यदिदं तस्मात् स्त्रीचित्ताद् अनन्तरमुत्पन्नं भवति । पुनश्च
कालान्तरेण सन्ततिपरिणामेन स्त्रीचित्तमुत्पद्यते । तत् पश्चादुत्पन्नं स्त्रीचित्तं
समर्थं भवति तत्कायविदूषणाचित्तोत्पादने । तत्स्त्रीकायविदूषणाचित्तोत्पादने,
तत्पतिपुत्रादिचित्तोत्पादने वा समर्थम् । कस्माद् ? इत्याह—तद्गोत्रत्वा-
दिति । तत्कायविदूषणाचित्तं तत्पतिपुत्रादिचित्तं वा गोत्रं बीजमस्येति
तद्गोत्रं । चित्तम्, तस्य भावः, तस्मात् । तज्जातीयत्वादित्यभिप्रायः ।
अन्यथेति । अतद्गोत्रम् ।
अथ पुनः पर्यायेणेति विस्तरः । पर्यायेण = अयुगपत् । स्त्रीचित्तात्
तत्कायविदूषणाचित्तम्, ततश्च तत्पतिचित्तम्, ततश्च तत्पुत्रचित्तम्, तत
एव च तद्दुहितृचित्तम्, तत एव च तदुपकरणादिचित्तमुत्पन्नं भवति ।
ततः स्त्रीचित्ताद् अनन्तरोत्पन्नेभ्यश्चित्तेभ्यो यद् बहुतरं प्रवाहतः पटुतरं
शक्तितः आसन्नतरं वास्योत्पाद्यस्य चित्तस्य, तदेव चित्तमुत्पद्यते; तद्भावनाया
बलीयस्त्वात् । तस्य बहुतरस्य पटुतरस्यासन्नतरस्य वा भावनाया बलवत्त-
रत्वात् । अन्यत्रेति विस्तरः । तत्कालप्रत्युपस्थितः तात्कालिकः काय-
प्रत्ययविशेषो बाह्यप्रत्ययविशेषश्च, तस्मादन्यत्र । तस्मादृते इत्यर्थः । तदेव
ह्युत्पद्यते, यस्य कायो बाह्यो वा प्रत्ययविषय उपतिष्ठते ।
सैव बलीयसीति । या बहुतरस्य पटुतरस्य आसन्नतरस्य वा
अभिहिता, सैव बलीयसी भावना कस्मान्नित्यं न फलति । नहि तच्चित्तं
निवर्तते ।
वर्तते इतीतरेण चोदित आह—स्थित्यन्यथात्वलक्षणत्वात् । स्थिते-
रन्यथात्वं लक्षणमस्येति स्थित्यन्यथात्वलक्षणत्वात्, तद्भावात् । तस्य
चान्यथात्वस्य संस्कृतलक्षणस्य । अन्यभावनाफलोत्पत्तौ अन्यभावनाफलस्य

१२२२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
फलोत्पत्तावानुगुण्यात् ।
एतद्धि सर्वचित्तप्रकारेष्षु दिङ्मात्रम् ।
निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् ।
एवं ह्याहुः—
“सर्वाकारं कारणमेकस्य मयूरचन्द्रकस्यापि ।
नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानम्” ॥ इति
प्रागेवारूपिणां चित्तभेदानाम् ।।
य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते, तस्यैवेदं
स्फुटं चोद्यमापद्यते-कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेन,
अङ्कुरकाण्डपत्रादिवदिति । मनःसंयोगविशेषापेक्षत्वादिति चेत् ? न;
अन्यसंयोगासिद्धेः । संयोगिनोश्च¹ परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः
चित्तान्तरस्योत्पत्तौ आनुगुण्यान्नित्यं न फलति तदेवेत्यर्थसम्बन्धः ।
एवं ह्याहुरिति । स्थविरराहलः ।
सर्वाकारमिति । सर्वप्रकारम् । यावन्तो मयूरचन्द्रकस्य वर्णसंनि-
वेशादिप्रकाराः, तेषां कारणम् । इदमस्य कारणम्, येनैवं वर्णाः, एवं
सन्निवेशः, एवं स्निग्धतेत्येवमादिभिराकारैर्न ज्ञेयम् । न ज्ञातुं शक्यम् ।
कैः ? असर्वज्ञैः । श्रावकप्रत्येकबुद्धादिभिः । सर्वज्ञबलं हि तज्ज्ञानम् ।
सर्वविद्बलं हि तद् ज्ञानम्, येन तत्कारणं ज्ञायत इत्यभिप्रायः ।
प्रागेवारूपिणां चित्तभेदानामिति । रूपकारणमपि सर्वथा ज्ञातु-
मशक्यम्, किमरूपिणामित्यर्थः ।
एकीयस्तीर्थिक² इति । वैशेषिकः । मनःसंयोगविशेषापेक्षत्वादिति
चेत् । स्यान्मतम्-तुल्येऽप्यात्मप्रभावत्वे चित्तोत्पत्तेरात्मा कदाचित् कर्हि-
चित् मनःसंयोगविशेषमपेक्षते, इत्यतो न नित्यं तादृशमेव चित्तमुत्पद्यते ।
न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति । न, अन्यसंयोगासिद्धेः । नैत-
देवम् । कस्मात् ? ताभ्याम् आत्ममनोभ्याम् अन्यस्य संयोगस्यासिद्धेः ।
नहि संयोगो नाम भावः कश्चिद् अस्माकं सिद्धोऽस्ति । संयोगिनोश्चेति
विस्तरः । अभ्युपगतेऽपि संयोगे, संयोगिनोश्चेति विस्तरः । लोकप्रसिद्धयोः
१. ०स्तु—का० । २. एकीयास्तीर्थिका-जा० ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२२३
संयोग इति लक्षणाव्याख्यानाच्चात्मनः परिच्छेदप्रसङ्गः । ततो मनःसंचारा-
दात्मनः सञ्चारप्रसङ्गात्१, विनाशस्य२ वा ।
प्रदेशसंयोग इति चेत् ? न; तस्यैव तत्प्रदेशत्वायोगात् ।
अस्तु वा संयोगः, तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः ?
बुद्धिविशेषापेक्षत्वादिति३ चेत् ? स एवोपरि४ चोद्यते४-कथं बुद्धिविशेष
काष्ठयोरन्ययोर्वा कयोश्चित् । परिच्छिन्नत्वात् । परिच्छिन्नदेशदृष्टत्वा-
दित्यर्थः । लक्षणाव्याख्यानाच्चेति । वैशेषिकतन्त्रे संयोगलक्षणनिर्देशात् ।
ततः किम् ? आत्मनः परिच्छेदप्रसङ्गः । परिच्छिन्नदेशत्वप्रसङ्गः । यत्रात्मा
न तत्र मनः, यत्र मनः न तत्रात्मेति । अनेनानुमानागमापतितो धर्मिविशेष-
विपर्ययोऽस्य पक्षस्य सन्दृष्टो भवति । मनसा संयोग आत्मनोऽत आत्मा
धर्मी, तस्य विशेषः सर्वगतत्वम् । तद्विपर्ययोऽसर्वगतत्वमिति । ततो
मनःसञ्चारादात्मनः सञ्चारप्रसङ्गादिति । ततो लक्षणाद् अप्राप्तिपूर्विका
प्राप्तिः संयोग इति मनःसञ्चारात् यं यं शरीरप्रदेशं मनः सञ्चरति ततस्तत
आत्मा सञ्चरति=अपैतीति प्रसज्यते । तद्यथा-यं यं पृथिवीप्रदेशं पुरुषः
सञ्चरति, ततस्तत आतपोऽपसरति । तथा च सति निष्क्रियत्वमस्य बाधितं
भवतीति स एव प्रतिज्ञादोषः । विनाशस्य वा । प्रसङ्ग इति वर्तते ।
आत्मन इति च । यत्र यत्र मनः सञ्चरति तत्र तत्र आत्मा विनश्यतीति
स एव चात्र प्रतिज्ञादोषः आत्मनो नित्यत्वनिवृत्तेः । प्रदेशसंयोग इति चेत् ।
स्यान्मतम्-आत्मना प्रदेशेन संयोगो मनसः, आत्मनो वा प्रदेशेन मनसा
सह संयोगः । यस्मिन् शरीरप्रदेशे मनोऽवस्थितं भवति, तद्गतेनात्मप्रदेशेन
मनो न संयुज्यते, प्रदेशान्तरेणान्यपार्श्वतः संयुज्यते । तस्मादप्राप्तिपूर्व-
कत्वेऽपि संयोगस्याप्राप्तेनैवात्मप्रदेशेन मनः संयुज्यत इति । तन्न; तस्यैव
तत्प्रदेशत्वायोगात् । न ह्यात्मनोऽन्यप्रदेशा विद्यन्ते । न चैवात्मैवात्मनः
प्रदेशो युज्यते । अस्तु वा संयोग इति विस्तरः । अभ्युपेत्यापि संयोगम्,
तथापि निर्विकारत्वाद् अविशिष्टे मनसि कथं संयोगविशेषः ! कथं
विशिष्टः संयोगो भवति । यत एवमुक्तम्-मनःसंयोगविशेषापेक्षत्वादिति ।
बुद्धिविशेषापेक्षत्वादिति चेत् । स एवोपरि चोद्यते-कथं बुद्धिविशेष इति ।
कस्मान्न नित्यमीदृशमेवोत्पद्यते चित्तमविशिष्ट आत्मनीति । कारण-
विशेषाद्धि कार्यविशेष इष्यते, शङ्खपटाहादिशब्दवत् । संस्कारविशेषापेक्षा-
१. ०प्रसङ्गो-का० । २. विनागस्य-का० ।
३. ०पेक्ष इति... का० । ४-४ एव परिचोद्यते-का० ।
अभि० को० ४ : १३

१२२४ भाष्यस्फुटार्थासहितमभिधर्मकोशे [ पुद्गल-
इति । संस्कारविशेषापेक्षादात्ममनःसंयोगादिति चेत् ? चित्तादेवास्तु
संस्कारविशेषापेक्षात्¹ । नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्यम्, औषध-
कार्यसिद्धाविव कुहकवैद्यफूःस्वाहानाम् । सत्यात्मनि तयोः सम्भव² इति
चेत् ? वाङ्मात्रम् । आश्रयः स इति चेत् ? यथा कः कस्याश्रयः ? न
हि ते चित्रबदरादिवदाधार्ये । नापि स कुड्यकुण्डादिवदाधारो युक्तः ।


दात्ममनःसंयोगादिति चेत् । स्यान्मतम्—नित्यमविशिष्टेऽप्यात्मनि मनसि
च संस्कारविशेषापेक्षात् आत्ममनसोः संयोगाद् बुद्धिविशेष इति । तदुक्तं
भवति—संस्कारविशेषाद् भावनाविशेषलक्षणात् आत्ममनःसंयोगविशेषः
तद्विशेषाद् बुद्धिविशेष इति । अत्र ब्रूमः—चित्तादेवास्तु इति विस्तरः ।
अयमिहाचार्यस्याभिप्रायः—सान्त