सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1229, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1229

स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः । यदि
स्कन्धा एव पुद्गलाः, कस्मादिदमाह- "भारं च वो भिक्षवो देशयिष्यामि,
भारादानं च, भारनिक्षेपणं च, भारहारं च" ( ) इति ? कस्मादिदं न
वक्तव्यं स्यात् ? न हि भार एव भारहारो युक्तः । किं कारणम् ? नह्येवं
दृश्यत इति । अवक्तव्योऽपि न युक्तः । किं कारणम् ? न ह्येवं दृश्यते ।
भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च । इत्यर्थमेव च¹ भारहारं निर्दिदेश
भगवान् । "योऽसावायुष्मानेवन्नामा यावदेवंचिरस्थितिक एवमायुःपर्यन्तः"
स एष यथा विज्ञायेत । मान्यथा विज्ञायि- नित्यो वा, अवक्तव्यो वेति ।
स्कन्धा एव च स्कन्धानामुपघाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च
भारं च वो भिक्षवो देशयिष्यामीति विस्तरः । "भारं च वो
भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च । तच्छृणुत,
साधु च सुष्ठु च मनसिकुरुत, भाषिष्ये । भारः कतमः ? पञ्चोपादान-
स्कन्धाः । भारादानं कतमत् ? तृष्णा पौनर्भविकी, नन्दी-रागसहगता
तत्रतत्राभिनन्दिनी । भारनिक्षेपणं कतमत् ? यदस्या एव तृष्णायाः
पौनर्भविक्या नन्दी-रागसहगताया तत्रतत्राभिनन्दिन्याः अशेषप्रहाणम्,
प्रतिनिसर्गः, व्यन्तीभावः, क्षयः, विरागः, निरोधः, व्युपशमः,
अस्तङ्गमः । भारहारः कतमः ? पुद्गल इति स्याद् वचनीयम् । यो-
ऽसावायुष्मान् एवंनामा एवंजन्य एवंगोत्रः एवमाहार एवंसुखदुःखप्रति-
संवेदी एवंदीर्घायुः एवंचिरस्थितिकः एवमायुःपर्यन्तः" ( ) इति !
भारं हरतीति भारहारः पुद्गल इत्यभिप्रायः । अत्रेदमुदाहरणम्² ।
अत एवाह - नहि भार एव भारहार इति ।
भारादानस्यापि यथोक्तलक्षणस्य स्कन्धासङ्ग्रहप्रसङ्गाच्च । पुद्गलवत्
अस्कन्धसंग्रहप्रसङ्गः । न चैवमिष्यते । तस्माद् भारादानवान् न
स्कन्धेभ्योऽर्थान्तरभूतः पुद्गलः । इत्यर्थमेव चेति विस्तरेण सर्वमुक्त्वा
वक्तव्यं मान्यथेति । यदि द्रव्यसन् स्यात् पुद्गलः, “भारहारः कतमः ?
पुद्गल इति स्याद् वचनीयम्" इत्येतावदेवोक्तं स्यात् तत्र सूत्रे । परेण
स न विभक्तव्यः स्यात्-'योऽसावायुष्मान्' इति विस्तरेण यावत् 'आयुः-
पर्यन्तः' इति । प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्येतत् परेण विशेषणमित्य-
भिप्रायः । स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते ! मान्यथा विज्ञायि
नित्यो वाऽवक्तव्यो वा द्रव्यसत्पुद्गल इति । स्कन्धानामिति विस्तरः।
तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कन्धाः ते भार³ इति कृत्वोक्ताः ।
१. का० पुस्तके नास्ति । २. छेदमुदाहरणम्—जा० । ३. भाव—जा० ।