सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1240, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1240

विनिश्चयः ] भाष्यस्फुटार्थासहितेऽभिधर्मकोशे १२१७
अकार्यकारणभावाद्, यथैकसंतानिकयोः । न च ब्रूमः-अन्येन चेतसा दृष्टमन्यत्
स्मरतीति ! अपि तु दर्शनचित्तात् स्मृतिचित्तमन्यदेवोत्पद्यते¹। सन्तति-
परिणत्या यथोक्तमिति क एवं सति दोषः ! स्मरणादेव च प्रत्यभिज्ञानं
भवति ।
असत्यात्मनि क एष स्मरति ? स्मरतीति कोऽर्थः ? स्मृत्या विषयं
गृह्णाति । किं तद्ग्रहणमन्यत् स्मरणात् ! स्मृतिं तर्हि कः करोति ? उक्तः
स यस्तां करोति स्मृतिहेतुचित्तविशेषः ।
यत्तर्हि चैत्रः स्मरतीत्युच्यते । ततो हि चैत्राख्यात् सन्तानात्² भाव-
दृष्टद्योच्यते²-चैत्रः स्मरतीति । असत्यात्मनि कस्येयं स्मृतिः । किमर्थैषा
षष्ठी ? स्वाम्यर्था । यथा कस्य कः स्वामी । यथा गोश्चैत्रः । कथमसौ
तस्याः स्वामी ? तदधीनो हि तस्या वाहदोहादिषु विनियोगः । क्व च
पुनः स्मृतिर्विनियोक्तव्या, य एवं तस्याः स्वामी मृग्यते ? स्मर्तव्येऽर्थे ।
किमर्थं विनियोक्तव्या ? स्मरणार्थम् ।
अहो सूक्तानि मुखेधितानाम् ! सैव हि नाम तदर्थं विनियोक्तव्येति ।
कथं च विनियोक्तव्या ? उत्पादनत', आहोस्वित् सम्प्रेषणतः ? स्मृतिगत्य-
योगादुत्पादनतः । हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् ।
यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति । यो ह्येव हेतुः
स्मृतेस्तस्यैवासौ । यश्चापि स चैत्राभिधानः संस्कारसमूहसन्तान एकतो
गृहीत्वा गवाख्यस्वामीत्युच्यते, स चापि तस्य देशान्तरविकारोत्पत्तौ
कारणभावं चेतसि कृत्वा । न तु खलु कश्चिदेकश्चैत्रो नामास्ति, न चापि
न च ब्रूमः-अन्येन चेतसा दृष्टमन्यत् स्मरतीति । न यत् किञ्चिदन्यत्
स्मरतीत्यभिप्रायः । दर्शनचित्तात् स्मृतिचित्तमन्यदेवोत्पद्यत इति । विद्य-
मानकारणत्वात्, विद्यमानबीजाङ्कुरवदित्यर्थः । स्मरणादेव च प्रत्यभिज्ञा-
नमिति । 'तदेवेदं यन्मया दृष्टम्' इति स्मरणात् ।
यत् तहींति । यदि चित्तविशेष एव स्मृतिः । यत् तर्हि चैत्रः
स्मरतीति । तत् कथमिति वाक्याध्याहारः ।
स चापि तस्येति विस्तरः । स चापि चैत्राभिधानः संस्कारसमूह-
सन्तानस्तस्य गवाख्यस्य देशान्तरविकारोत्पत्तौ देशान्तरोत्पत्तौ विकारोत्पत्तौ
च कारणभावं चेतसिकृत्वा । किम् ? स्वामीत्युच्यते । न तु पुद्गलम् ।
कार्यकारणभावापेक्षोऽयं व्यवहारः, न पुद्गलापेक्ष इत्यभिप्रायः । अत
१. अन्यदुत्पद्यते—का० । २-२. संतानानां भवन्तीं दृष्टवो०—का० ।