अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1247, कुल 1258 में से
संदर्भ में पढ़ें१२२४ भाष्यस्फुटार्थासहितमभिधर्मकोशे [ पुद्गल-
इति । संस्कारविशेषापेक्षादात्ममनःसंयोगादिति चेत् ? चित्तादेवास्तु
संस्कारविशेषापेक्षात्¹ । नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्यम्, औषध-
कार्यसिद्धाविव कुहकवैद्यफूःस्वाहानाम् । सत्यात्मनि तयोः सम्भव² इति
चेत् ? वाङ्मात्रम् । आश्रयः स इति चेत् ? यथा कः कस्याश्रयः ? न
हि ते चित्रबदरादिवदाधार्ये । नापि स कुड्यकुण्डादिवदाधारो युक्तः ।
दात्ममनःसंयोगादिति चेत् । स्यान्मतम्—नित्यमविशिष्टेऽप्यात्मनि मनसि
च संस्कारविशेषापेक्षात् आत्ममनसोः संयोगाद् बुद्धिविशेष इति । तदुक्तं
भवति—संस्कारविशेषाद् भावनाविशेषलक्षणात् आत्ममनःसंयोगविशेषः
तद्विशेषाद् बुद्धिविशेष इति । अत्र ब्रूमः—चित्तादेवास्तु इति विस्तरः ।
अयमिहाचार्यस्याभिप्रायः—सान्त