सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1238, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1238

विनिश्चयः ] अष्टमं कोशस्थानम् १२१५
दृढतरः स्यादात्मस्नेहश्च । "आत्मनि च सत्यात्मीयं भवति" इति सूत्रे
वचनादात्मग्राहोऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत । सैषां १ स्यात् सत्कायदृष्टिः ।
आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः । एवमेषां दृढतरात्मात्मीयस्नेहपरि-
गाहितबन्धनानां२ मोक्षो दूरीभवेत् ३ ।
अथ मतम्—नैवात्मनि प्रवर्तते स्नेह इति । तत् क इदानीमेष योगो
यदनात्मन्यात्माधिमोक्षात् स्नेह उत्पद्यते, आत्मन्येव तु नोत्पद्यते ! तस्मात्
दृष्टचर्बुदमेतस्मिन् शासने उत्पन्नम्—य एष एकेषां पुद्गलग्राहः, एकेषां
सर्वनास्तिताग्राहः ।
येऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकराः, तेषामेव मोक्षाभाव-
दोषो निष्कम्पः ।
यदि तर्हि सर्वथापि