सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1237, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1237

१२१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभि-
धार्मिकाः । तथैव च युक्तम् । "अस्त्यात्मेत्यानन्द शाश्वताय परैति
नास्त्यात्मेत्यानन्दोच्छेदाय परैति" ( ) इति वात्स्यसूत्रे वचनात् ।
यदि तर्हि पुद्गलो नास्ति, क एष संसरति ? नहि संसार एष
संसरतीति युक्तम् । उक्तं च भगवता—"अविद्यानिवरणानां सत्त्वानां
सन्धावतां संसरताम्” ( ) इति । अथ पुद्गलः, कथं संसरति ?
स्कन्धान्तरत्यागोपादानात् ? उक्तोत्तर एष पक्षः । यथा तु क्षणिकोऽग्निः
सन्तत्या सञ्चरतीत्युच्यते१, तथा सत्त्वाख्यः स्कन्धसमुदायस्तृष्णोपादानः
संसरतीत्युच्यते ।
यदि स्कन्धमात्रमिदम्, कस्मादाह भगवान्—"अहमेव स तेन कालेन
तेन समयेन सुनेत्रो नाम शास्ताऽभूवम्" इति ? कस्मान्न वक्तव्यं स्यात् ?
अन्यत्वात् स्कन्धानाम् । अथ किं पुद्गलः ? स एवासौ । शाश्वतो हि
स्यात् ! तस्मादहमेव स इत्येकसन्तानतां दर्शयति । यथा स एवाग्निर्देहन्ना-
गत इति ।
यदि चात्मा भवेत्, तथागता एव सुव्यक्तं पश्येयुः । पश्यतां चात्मग्राहो
आचार्य आह—अस्तीत्यपि दृष्टिस्थानमुक्तमिति । सत्कायदृष्टि-
स्थानमुक्तमित्यर्थः ।
उक्तोत्तर एष पक्ष इति । कथं च न ? प्रतिक्षेपात् । सूत्र एव हि
प्रतिक्षिप्तं भगवतेति विस्तरेण यावद् 'अपदृष्टान्ता एते' इति । किमिद-
मुपादायेति ,आरभ्य । एतदपरेषां व्याख्यानम् । स्वमतेन तु यथा संसरति
तथा दर्शयन्नाह—यथा तु क्षणिकोऽग्निरिति विस्तरः । क्षणिकोऽग्निः
प्रसिद्धः । स च देशान्तरोत्पत्तिसन्तत्या सञ्चरतीत्युच्यते । तथा सत्त्वाख्य-
स्कन्धसमुदायस् तृष्णां उपादानमस्येति तृष्णोपादानः ।
क्षणिकोऽपि सन्तत्या संसरतीति ।
सुनेत्रो नाम शास्तेति । सप्तसूर्योदयसूत्रेऽयमेव भगवान् ऋषिः सुनेत्रो
नाम बभूवेति ।
अन्यत्वात् स्कन्धानामिति । क्षणिकत्वे सत्यन्यत्वादित्यभिप्रायः ।
एकसन्तानतां दर्शयतीति । यस्मात् सुनेत्रो बुद्धसन्तान एवासीत् ।
१. संसरती०—का० ।