अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] अष्टमं कोशस्थानम् ११८५
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ३८ ॥
रूपधातौ ध्यानोत्पादनमेताभ्यां च¹ हेतुकर्मबलाभ्यां धर्मतयापि² च
संवर्तनीकाले । तदानीं हि सर्वसत्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति;
कुशलानां³ धर्माणा मुद्भूतवृत्तित्वात् ॥ ३८ ॥
कियच्चिरं पुनरयं सद्धर्मः स्थास्यति ? यत्रेमे ईदृशा⁴ धर्माणां
प्रकाराः प्रज्ञायन्ते ?
नन्त्यायतनॊपपन्नस्य कर्मबलात् । ऊर्ध्वभूमिकस्य विज्ञानानन्त्यायतनभूमि-
कस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् । तद्वैराग्यानुकूला
सन्ततिरवतिष्ठते । न ह्यधस्तादवीतरागेणोर्ध्वं शक्यमुपपत्तुमिति । एताभ्यां
च हेतुकर्मबलाभ्याम् ।
कथं प्रथमादिषु ध्यानेषु द्वितीयादिध्यानोत्पादनम् ? हेतुबलाच्च
आसन्नाभीक्ष्णाभ्यासात् । कर्मबलाच्चोर्ध्वभूमिकस्येति विस्तरेण योज्यम् ।
"धर्मतयापि च" इति । कथं धर्मता नाम ? केचित् तावत्
सौत्रान्तिका आहुः—एषामेव धर्माणा मुद्भूतवृत्तीनां पूर्वध्यानवासनाधि-
पत्यात् तदुत्पत्तौ उपदेशमन्तरेण ध्यानोत्पत्तावानुगुण्यं धर्मता, प्रकृतिः ।
स्वभावतेत्यर्थः ।
वैभाषिका अपि केचिदाहुः—पूर्वजन्मनिकात् सभागहेतोः निष्यन्द-
फलं ध्यानोत्पादनम्, तदुपदेशमन्तरेण अन्यतो धर्मतेति ।
कुशलानां धर्माणा मुद्भूतवृत्तित्वादिति । तत्र संवर्तनीकाले कुशलानां
कर्मपथानामित्यर्थः । वृत्तिस्तेषामेव धर्माणां यत् कारित्रम् । उद्भूता
उत्कृष्टा वृत्तिरेषामित्युद्भूतवृत्तयः, तद्भावः, तस्मात् । एतदुक्तं भवति—
तेषां कुशलानां प्रकर्षेणात्मलाभात् तदुत्पत्त्यानुगुण्येन आत्मलाभात् तदु-
पदेशमन्तरेणान्यतः पूर्वध्यानवासनायां सत्यां ध्यानोत्पत्तिरिति ॥ ३८ ॥
इम ईदृशा धर्माणां प्रकारा इति । सास्रवानास्रवाणां धर्माणां
धातुभूम्यालम्बनाकारादिप्रकारा यथायोगमित्यर्थः ।
१. का० पुस्तके नास्ति । २. धर्मतया—का० ।
३. कृत्स्नानां—का० ।
४. ईदृशानां—का० ।
११८६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समाप्ति-
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः।
तत्रागमः सूत्रविनयाभिधर्माः, अधिगमो बोधिपक्षाः—इत्येष द्विविधः
सद्धर्मः।
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ३९ ॥
आगमस्य हि धारयितारो वक्तारः। अधिगमस्य प्रतिपत्तारः।
अतो यावदेते स्थास्यन्ति तावत् सद्धर्म इति वेदितव्यम्।
तेषां तु वर्षसहस्रमवस्थानमाहुः।
अधिगमस्यैवम्। आगमस्य तु भूयांसं कालमित्यपरे १॥ ३६ ॥
योऽयमिह शास्त्रेऽभिधर्म उक्तः किमेष एव शास्त्राऽभिधर्मो
देशितः ?
काश्मीरवैभाषिकनीतिसिद्धः,
प्रायो मयाऽयं कथितोऽभिधर्मः।
“धातारस्तस्य वक्तारः प्रतिपत्तार एव च” इति। तस्य आगमाधि-
गमात्मकस्य सद्धर्मस्य यथासंख्यं आगमस्य ये वक्तारः तेऽस्य धातारः,
अधिगमस्य च ये प्रतिपत्तारः तेऽस्य धातार इति।
अधिगमस्यैवमिति। वर्षसहस्रमवस्थानमिति। आगमस्य तु भूयांसं
कालमिति। वर्षसहस्रादूर्ध्वमपीत्यर्थः। एष एव पक्षो युक्त इति
पश्यामः ॥ ३९ ॥
योऽयमिति। योऽयमिह अभिधर्मकोशलक्षणे अभिधर्म उक्तः। किमेष
एव शास्त्राऽभि १धर्मो ज्ञानप्रस्थानादिलक्षणो देशितः। अत इदमुच्यते—
“काश्मीरवैभाषिकनीतिसिद्धः” इति विस्तरः। कश्मीरे भवाः
काश्मीराः। विभाषया दीव्यन्ति वैभाषिकाः इति व्याख्यातमेतत्। सन्ति
काश्मीरा न वैभाषिकाः, ये विनयविदादयः सौत्रान्तिकाः भदन्तादयः।
सन्ति वैभाषिका न काश्मीराः, ये बहिर्देशका वैभाषिकाः—इत्युभय-
विशेषणम्। तेषां नीत्या यः सिद्धोऽभिधर्मः, स प्रायेणेह मया देशितः।
अर्थादुक्तं भवति—अन्यनीतिसिद्धोऽपि देशित इति।
१. शास्त्रो०—जा०।
[Header]
निर्देश: ] अष्टमं कोशस्थानम् ११८७
यद् दुर्गुहीतं तदिहास्मदागः,
सद्धर्मनीतौ मुनयः प्रमाणम् ॥ ४० ॥
प्रायेण हि काश्मीरवैभाषिकाणां १नीत्या सिद्ध एषोऽस्माभिरभिधर्म
आख्यातः। यदत्रास्माभिर्दुर्गुहीतं सोऽस्माकमपराधः। सद्धर्मनीतौ तु
पुनर्बुद्धा एव प्रमाणम्, बुद्धपुत्राश्च ॥ ४० ॥
निमीलिते शास्तरि लोकचक्षुषि
क्षयं गते साक्षिउने च भूयसा।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं
कुतार्किकैः शासनमेतदाकुलम् ॥ ४१ ॥
गते हि२ शान्तिं परमां स्वयम्भुवि
स्वयम्भुवः शासनधूर्धरेषु च।
यद् दुर्गु हीतमिति। काश्मीरवैभाषिकनयेन, अन्यनयेन वा। तदिह
वचने अस्मदागः अस्मदपराधः। किं कारणम् ? इत्याह-सद्धर्मनीतौ
[
११८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्तिनिर्देशः ]
जगत्यनाथे गुणघातिभिर्मलैः,
निरङ्कुशं¹ स्वैरमिहाद्य चर्यते ॥ ४२ ॥
एवं² कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ४३ ॥
इति अभिधर्मकोशभाष्ये
समापत्तिनिर्देशो नामाष्टमकोशस्थानम्
जगति शासनान्तर्धानहेतुभिः। दृष्ट्यादिभिर्मलैः दोषैर्निरंकुशं स्वैरं
यथेच्छमिह लोके अद्य सम्प्रति चर्यते । भावनाग्नमेतत् ॥ ४२ ॥
ततश्च एवं कण्ठगतं प्राणम् । कण्ठगतप्राणमिवेत्यर्थः । तद् विदित्वा ।
बलकालं च मलानां दोषाणां विदित्वा न प्रमाद्यं मुमुक्षुभिरिति । भाव-
साधनमिति ॥ ४३ ॥
स्फुटार्थायां नामाभिधर्मकोशव्याख्यायां
समापत्तिनिर्देशो नामाष्टमं
ॐ नमो बुद्धाय
पुद्गलविनिश्चयः
किं खल्वतोऽन्यत्र मोक्षो नास्ति ? नास्ति । किं कारणम् ?
वितथात्मदृष्टिनिविष्टत्वात् । नहि ते स्कन्धसन्तान एवात्मप्रज्ञप्तिं व्यवस्यन्ति ।
किं र्तहि ? द्रव्यान्तरमेवात्मानं परिकल्पयन्ति, आत्मग्राहप्रभवाश्च क्लेशा'
इति ।
कथं पुनरिदं गम्यते—स्कन्धसन्तान एवेदमात्माभिधानं वर्तते,
नान्यस्मिन्नभिधेये इति ?
पुद्गलविनिश्चयः
किं खल्वतोऽन्यत्र मोक्षो नास्तीति । ‘न प्रमाद्यं मुमुक्षुभिः’ (अभि०
८.४३) इति वचनाद् अयमेव मोक्षोपायः, नास्त्यतोऽन्यो मोक्षोपायः ।
तदत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्यर्थादुक्तमाचार्येण । चोदकः
पृच्छति—किं खल्वत इति विस्तरः । अत्रोच्यते—नास्तीति । किं कारणम् ?
इत्याह—वितथात्मदृष्टिनिविष्टत्वादिति । वितथायामात्मदृष्टौ निविष्टाः
कुतीर्थ्याः वितथात्मदृष्टिनिविष्टाः, तद्भावः, तस्मात् । नास्त्यन्यत्र मोक्ष
इति ।
स्तोत्रकारेणाप्येषोऽर्थ उक्तः—
“साहङ्कारे मनसि न शमं याति जन्मप्रबन्धो
नाहङ्कारश्चलति हृदयादात्मदृष्टौ च सत्याम् ।
अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादी
नान्यस्तस्मादुपशमविधेस्त्वन्मतादस्ति मार्गः” ।। इति ।
साधनं चात्र--“नास्ति कपिलोलूकादीनां मोक्षः, वितथात्मदृष्टि-
निविष्टत्वात्, अदृष्टतत्त्वपुरुषवत् ।” आत्मग्राहप्रभवाश्च क्लेशा इति
यथोक्तम् । यानि वा पुनरिहैकत्यानां श्रमणब्राह्मणानां पृथग्लोके दृष्टि-
गतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः । आत्मदृष्टौ च सत्यामात्म-
स्नेहादयः क्लेशाः प्रवर्तन्ते । स्कन्धसन्तान एवेदमात्माभिधानमिति ।
आत्मेत्यभिधानम् । आत्मप्रज्ञप्तिरित्यर्थः । नान्यस्मिन्नभिधेय इति । स्कन्ध-
११६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
प्रत्यक्षानुमानाभावात् ।
ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये । तद्यथा—
षण्णां विषयाणां मनसश्च ।
अनुमानं च । तद्यथा पञ्चानामिन्द्रियाणाम् । तत्रेदमनुमानम्—सति
कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भवः, तद्यथा—
अङ्कुरस्य । सत्येव वाभासप्राप्ते२ विषये मनस्कारे च कारणे विषय-
ग्रहणस्याभावो दृष्टः पुनश्च भावः, अन्धवधिरादीनामनन्धावधिरादीनां च ।
सन्तानव्यतिरिक्ते कल्पित इत्यर्थः । कस्मादेवम् ? इत्याह—प्रत्यक्षानु-
मानाभावादिति । प्रत्यक्षस्यानुमानस्य चाभावान्न तस्यास्तित्वमित्यभि-
प्रायः । आगमस्यानुमानान्तर्भावात् अपृथग्वचनम् ।
तेषां प्रत्यक्षमुपलब्धिरिति । प्रत्यक्षमित्युपलब्धिविशेषणम् । प्रत्यक्षं
तदुपलब्धिः, प्रत्यक्षत उपलब्धिरित्यर्थः । अथवा प्रत्यक्षं प्रमाणमुपलब्धिः,
उपलभ्यतेऽनयेत्युपलब्धिः । असत्यन्तराय इति । असत्युपलब्धिविघ्नेऽ-
तिसन्निकर्षातिविप्रकर्षादिके । तेषाम् । षण्णां विषयाणामिति । रूप-शब्द-
गन्ध-रस-स्प्रष्टव्यायतनानां धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य
चागमविकल्पातीतस्येति । मनसश्च । किम् ? प्रत्यक्षम् उपलब्धिः । समनन्तर-
निरुद्धं हि मनोऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते । रक्तं वा द्विष्टं
वा सुखसम्प्रयुक्तं वा दुःखसम्प्रयुक्तं वा—इत्येवमादि स्वसंवेद्यतेत्यपरे ।
तदेतद् द्विविधं प्रत्यक्षम्—१. ग्राह्यगतम्, २. ग्राहकगतं चेति ।
अनुमानं चेति विस्तरः । यत्र प्रत्यक्षस्याप्रवृत्तिः तत्रानु-
मानतस्तदुपलब्धिः । तद्यथा पञ्चानामिन्द्रियाणामिति । चक्षुरिन्द्रिया-
दीनाम् । सति कारणे क्षेत्रोदकादिके । कारणान्तरस्य बीजलक्षणा-
स्याभावे कार्यस्याङ्कुराख्यस्याभावो दृष्टः । भावे च तस्य बीजस्य
पुनर्भवोऽङ्कुरस्य दृष्टः । तद्यथाऽङ्कुरस्येति दृष्टान्तोपन्यासः । एवं
दृष्टान्तमुपन्यस्य दार्ष्टान्तिकमुपदर्शयन्नाह—सत्येव वाभासप्राप्त इति
विस्तरः । विद्यमान एव सम्मुखीप्राप्ते विषये रूपादिके मनस्कारे च
तज्जे कारणे । विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः, पुनश्च
भावः । केषामिति ? यथासङ्ख्यं दर्शयति—अन्धवधिरादीनामभावः ।
अनन्धावधिरादीनां च भाव इति । आदि-शब्देनोपहतानुपहत घ्राणेन्द्रिया-
१. सर्वक्लेशाः—का० ।
२. चा०—का० ।
विनिश्चयः ] अष्टमं कोशस्थानम् ११९१
अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते । यच्च तत्कारणान्तरं
तदिन्द्रियमित्येतदनुमानम् । न चैवमात्मतोऽस्तीति¹ नास्त्यात्मा ।
यत्तर्हि वात्सीपुत्रीयाः पुद्गलं सन्तमिच्छन्ति ।
विचार्यं तावदेतत्—किं ते द्रव्यत इच्छन्ति, आहोस्वित् प्रज्ञप्तितः ?
दीनां ग्रहणम् । अतस्तत्रापि कारणान्तरस्य कस्यापि अनिर्भिन्नरूपस्याभावो
भावश्च यथासङ्ख्यमेव निश्चीयते । किं पुनस्तद् ? इत्याह—यच्च
तत्कारणान्तरमपेक्ष्यते तदिन्द्रियम् । चक्षुरादिकमित्यभिप्रायः । साधनं
चात्र—"कारणान्तरसहितः स्वकार्यजनकः पञ्चविज्ञानकायजनकसम्मतो
विषयमनस्कारलक्षणो भावः; कदाचिदेव स्वकार्यनिर्वर्तकत्वात् । कदाचिदेव
स्वकार्यनिर्वर्तकं तत् कारणान्तरसहितस्वकार्यजनकम्, तद्यथा—अङ्कुरजनकं
क्षेत्रोदकम् । बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं
कदाचिदेव स्वकार्यनिर्वर्तकम्, बीजसद्भावावस्थायामङ्कुरनिर्वर्तकत्वात् ।
बीजासद्भावावस्थायां च स्वस्वकार्याजनकत्वात् । तथा च स विषयम-
नस्कारलक्षणो भावः । स हि अनन्धाबधिराद्यवस्थायां तस्य पञ्चविज्ञान-
कायलक्षणस्य स्वकार्यस्य जनको भवति, अन्धवधिराद्यवस्थायां चाजनकः ।
तस्मादसौ कारणान्तरसहितः स्वकार्यजनकः" इति । तदिन्द्रियमिति । कथं
तदिन्द्रियमिति परिच्छिद्यते; कारणान्तरमस्तीत्येतावदेव हि परिच्छिद्यते,
न तु तदिन्द्रियमिति ? सिद्धमेवैतत् । महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वा-
दस्त्येव चक्षुरिन्द्रियमिन्द्रियं चक्षुर्विज्ञानादिकारणमिति । सर्वेषामविवा-
दाच्च । न चैवमात्मतोऽस्तीति नास्त्यात्मेति निगमयति । उक्तं ह्येवमर्थतः
साधनम्—'नास्त्यात्मा, प्रमाणेनानुपलभ्यमानत्वात्, अत्यन्ताभाववद्' इति ।
अस्त्यनुमानम्, अतोऽसिद्धो हेतुरिति चेत् ? न; यदि हि तदस्ति, तदुच्य-
ताम् ! न वाङ्मात्रेण असिद्धो हेतुः—इति प्रत्यवस्थातव्यमिति ।
यत्तर्हि वात्सीपुत्रीया इति विस्तरः । वात्सीपुत्रीया आर्यसाम्मतीयाः ।
अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुरनैकान्तिक इति दर्शयति । न हि
वात्सीपुत्रीयाणां मोक्षो नेष्यते, बौद्धत्वात् । अथ वा परपक्षविरोध-
सापक्षालोडयं पक्षो नास्त्यात्मेत्यनेन दर्शयति । स्वपक्षो वात्सीपुत्रीयो निकाय
इति ।
विचार्यं तावदेतदिति । तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्यदोष एष
इत्यभिप्रायः ।
१. आत्मनो०—का० ।
अभि० को० ४ : ११
११६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
किं वेदं¹ द्रव्यत इति ? किं वा प्रज्ञप्तितः ? रूपादिवात् भावन्तरं चेत्,
द्रव्यतः । क्षीरादिवत् समुदायश्चेत्, प्रज्ञप्तितः ।
किं चातः ? यदि तावद् द्रव्यतः ? भिन्नस्वभावत्वात्² स्कन्धेभ्योऽन्यो
वक्तव्यः, इतरेतरस्कन्धवत् । कारणं चास्य वक्तव्यम् । असंस्कृतो वा ।
अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च । अथ प्रज्ञप्तितः ? वयमप्येवं
ब्रूमः ।
नैव हि द्रव्यतोऽस्ति, नापि प्रज्ञप्तितः । किं तर्हि ? आध्यात्मिका-
नुपात्तान् वर्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते । तदिदमन्धवचन-
मनुन्मीलितार्थं न बुध्यामहे ।
किं चेदं द्रव्यत इति किं वा प्रज्ञप्तित इति चोदित आचार्य आह—
रूपातिवद् भावान्तरं चेद् द्रव्यतः । यदि यथा रूपादिः शब्दादेर्भावान्तर-
मभिप्रायते, द्रव्यतः पुद्गल इत्युपगतो भवति । भिन्नलक्षणं रूपं शब्दात्
इत्यादि । क्षीरादिवत् समुदायश्चेत् प्रज्ञप्तितः । यथा क्षीर-गृह-सेनादिकम्
रूपरसगन्धस्प्रष्टव्येभ्यः, तृणकाष्ठेषिकादिभ्यः, हस्त्यश्वरथादिभ्यश्च
न भावान्तरमिष्यते, किं तर्हि ? तेषामेव समुदायमात्रमित्येवं
चेत्; प्रज्ञप्तितः पुद्गल इत्येवमुपगतो भवति । न हि रूपादिभ्यः,
तृणादिभ्यः, हस्त्यश्वादिभ्यो वा क्षीर-गृह-सेनेति वा कश्चिद् भावोऽस्ति ।
किं चातः । कश्चातो दोष इत्यभिप्रायः ।
यदि तावद् द्रव्यत इति पक्ष आश्रीयते, स पुद्गलो भिन्नस्वभावत्वात्
भिन्नस्वलक्षणत्वात् स्कन्धेभ्योऽन्यो वक्तव्यः । न स्कन्धसमुदायमात्रः ।
इतरेतरस्कन्धवत् । यथा रूपादिस्कन्धात् वेदनादिस्कन्धोऽन्यो भिन्न-
लक्षणत्वात्; एवं स्कन्धेभ्यः पुद्गल स्यात्; अरूपस्कन्धादिलक्षणत्वात्
पुद्गलस्य । कारणं चास्य वक्तव्यम् । यदि संस्कृत इत्यभिप्रायः । असंस्कृतो
वा । अतस्तीर्थिकदृष्टिप्रसङ्गः । अतोऽसंस्कृतत्वात् वात्सीपुत्रीयाणां तीर्थिक-
दृष्टिः प्रसज्यते । निष्प्रयोजनत्वं चेति ।
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ।
चर्मोपमश्चेत् सोऽनित्यः, खतुल्यश्चेदसत् फलम् ।।
इत्यर्थः ।
इदमन्धवचनमनुन्मीलितार्थमिति । अन्धमिवाग्धम् । कस्मात् ?
१. चेदं—का० । २. संभिन्न०—का० ।
विनिश्चयः ] अष्टमं कोशस्थानम् ११९३
किमिदमुपादायेति ? यद्ययमर्थः—स्कन्धानालम्ब्येति १; तेष्वेव पुद्गल-
प्रज्ञप्तिः प्राप्नोति । यथा रूपादीनालम्ब्य तेष्वेव क्षीरप्रज्ञप्तिः । अथायमर्थः—
स्कन्धान् प्रतीत्येति; स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ? स एव दोषः;
न स एवं प्रज्ञप्यते । कथं तर्हि ? यथेन्धनमुपादायाग्निः ।
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ? न हि विनेन्धनेनाग्निः प्रज्ञप्यते,
न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुम्, नाप्यनन्यः । यदि ह्यन्यः
स्याद्, अनुष्णाग्नीन्धनं स्यात् । अथानन्यः स्यात्, दाह्यमेव दाहकं स्यात् ।
एवं न च विना स्कन्धैः पुद्गलः प्रज्ञप्यते । न चान्यः स्कन्धेभ्यः
शक्यते प्रतिज्ञातुम्; शाश्वतप्रसङ्गात् । नाप्यनन्यः; उच्छेदप्रसङ्गादिति ।
अङ्ग तावद् ब्रूहि—किमिन्धनम्, कोऽग्निरिति ? ततो ज्ञास्यामः--कथ-
मिन्धनमुपादायाग्निः प्रज्ञप्यत इति । किमत्र वक्तव्यम् ! दाह्यमिन्धनम्, दाह-
कोऽग्निः । एतदेवात्र वक्तव्यम्—कि दाह्यम् ? को दाहक इति ? लोके हि
तावदप्रदीप्तं काष्ठादिकमिन्धनमुच्यते, दाह्यं च । प्रदीप्तमग्निर्दाहकश्च ।
यच्च भास्वरं चोष्णं च, भृशं च, तेन हि तदिध्यते दह्यते च; सन्ततिविकारा-
यस्मादनुन्मीलितार्थम् । अव्यञ्जितार्थमित्यर्थः । स्कन्धानालम्ब्येति ।
गृहीत्वेत्यर्थः । यथा रूपादीन् गृहीत्वा अपेक्ष्य क्षीरप्रज्ञप्तिः । न रूपादि-
व्यतिरिक्तं क्षीरमस्तीति । यदि तथा । पुद्गल इति प्रज्ञप्तिः, असत्पुद्गल
प्राप्नोतीत्यर्थः । स्कन्धान् प्रतीत्येति । यदि स्कन्धान् प्रतीत्य प्राप्य इति ।
स एव दोषः । तेष्वेव स्कन्धादिषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्यर्थः । अथ वा—
पुद्गलप्रज्ञप्तेः स्कन्धाः प्रत्ययो न पुद्गलः । पुद्गलस्तु तथैव प्रज्ञप्तिसन्नीति
स एव दोषः ।
यथेन्धनमुपादायाग्निः । प्रज्ञप्यत इति । द्रव्यसन् पुद्गलः । नान्यो नानन्य
इति । स्वमुपादानमुपादाय प्रज्ञप्यमानत्वात् । यो हि भावो नान्यो नानन्य
इति स्वमुपादाय प्रज्ञप्यमानः, स द्रव्यसन्; तद्यथा—अग्निः । इति
वात्सीपुत्रीयाभिप्रायः । अत एव चाह—यदि ह्यन्यः स्यादिति विस्तरेण ।
लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति ।
शाश्वतप्रसङ्गादिति । असंस्कृतत्वात् । उच्छेदप्रसङ्गादिति । स्कन्धवत् ।
अप्रदीप्तं काष्ठादिकमिन्धनमिति विस्तरः । अनेनासिद्धतां दृष्टान्तस्य
दर्शयति । अन्यत्वमेव हि अग्नीन्धनयोरिष्यते । तेन हि तदिध्यते दह्यते
चेति । तेन अग्निना । तदिन्धनम् । इष्यते दीप्यत इत्यर्थः । दह्यते
१. स्कन्धानां लक्ष्यते—का०।
११९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पादानात्। तच्चोभयमष्टद्रव्यकं तच्चेन्धनं प्रतीत्याग्निरुत्पद्यते। यथा
क्षीरं प्रतीत्य दधि, मधु प्रतीत्य शुक्तम्। तस्मादिन्धनमुपादायेत्युच्यते।
अन्यश्च सः; तस्माद्भिन्नकालत्वात्।
यदि चैवं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते, स तेभ्योऽन्यश्चानित्यश्च
प्राप्नोति। अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदौष्ण्यं तदग्निः, तत्सहजातानि
त्रीणि भूतानीन्धनमिष्यन्ते। तयोरपि सिद्धमन्यत्वम्; लक्षणभेदात्;
उपादायार्थस्तु वक्तव्यः—कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्तः
इति? न हि तत्तस्य कारणम्, नापि तत् प्रज्ञप्तेः। अग्निरेव हि तत्प्रज्ञप्तेः
कारणम्। यद्याश्रयार्थः; उपादायार्थः सहभावोऽर्थो१ वा। स्कन्धा
अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति स्कन्धतः स्पष्टमन्यत्वं२ प्रति-
ज्ञायते। तदभावे च पुद्गलाभावः प्राप्नोति। इन्धनाभाव इवाग्न्यभावः।
भस्मीक्रियते। सन्ततिविकारापादानात्। भस्मतापादानादित्यर्थः। इध्यते
दह्यते चेति पर्यायावित्यपरे। तच्चोभयमष्टद्रव्यकमिति। इन्धनं चाग्नि-
श्चैतदुभयमप्यष्टद्रव्यकम्—चत्वारि महाभूतानि चत्वारि चोपादायरूपाणि
रूपम् यावत् स्प्रष्टव्यमिति; “कामेऽष्टद्रव्यकोऽशब्दः” (अभि० को० २.२३)
इति सिद्धान्तात्।
भिन्नकालत्वादिति। पूर्वमिन्धनम्, पश्चादग्निः। भिन्नकालयो-
श्चान्यत्वं दृष्टं बीजाङ्कुरयोः। अनित्यश्च प्राप्नोतीति। उत्पत्तिमतो
रूपादेरनित्यत्वदर्शनात्। तत्रैव काष्ठादौ प्रदीप्त इति। तदुभयलक्षणे
समुदाये। तयोरपि सिद्धमन्यत्वम्, लक्षणभेदादिति। तयोरपि अग्नीन्धन-
योरेवंलक्षणयोः सिद्धमन्यत्वम्; लक्षणभेदात्। पृथिवीधात्वादीनां
लक्षणान्यत्वात्। भिन्नलक्षणानां ह्यन्यत्वं दृष्टं रूप-वेदनादीनाम्।
उपादायार्थस्तु वक्तव्य इति। अनन्यत्वादित्यभिप्रायः। न हि तत्
तस्य कारणमिति। न हि तदिन्धनं भूतत्रयलक्षणं तस्योष्णलक्षणस्याग्नेः
कारणं युज्यते; सहजातत्वात्। सव्येतरगोविषाणवत्। नापि तत्प्रज्ञप्तेरिति।
अग्नि-तत्प्रज्ञप्तेः। यद्याश्रयार्थ इति। इन्धनमुपादाय = इन्धनमाश्रित्येत्यर्थः।
सहभावोऽर्थो वेति। सहोत्पादार्थः। इन्धनं सहभूत्वेनागृह्णात्यर्थः।
आश्रयसहभूताः प्राप्नुवन्तीति। आश्रयभूताः, सहभूताश्च प्राप्नुवन्तीत्यर्थः।
स्कन्धतः स्पष्टमन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः। तदभाव इति।
स्कन्धाभावे।
१. सहभावार्थो—का०। २. विस्पष्टम०—का०।
विनिश्चयः ] अष्टमं कोशस्थानम् ११६५
यत्तदुक्तम्—यदिन्धनादन्योऽग्निः स्याद्, अनुष्णमिन्धनं स्यादिति !
किमिदमुष्णं नाम ? यदि तावदौष्ण्यम्, अनुष्णमेवेन्धनम्; अन्यभूतस्व-
भावत्वात् । अथ यदौष्ण्यवत्, अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यति;
औष्ण्ययोगादिति । नास्त्यन्यत्वे दोषः । अथ पुनः सर्वमेव तत् प्रदीप्तं
काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।
तदुपादायार्थश्च वक्तव्यः । स्कन्धा एव च पुद्गला इत्यनन्यत्व-
मनिवार्यं प्राप्नोति । तस्मान्न सिध्यत्येतत्—यथेन्धनमुपादायाग्निः प्रज्ञप्यते
एवं स्कन्धानुपादाय पुद्गल इति । यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः,
“पञ्चविधं ज्ञेयमतीतानागतं प्रत्युत्पन्नमसंस्कृतमवक्तव्यम्” ( ) इति
न वक्तव्यं प्राप्नोति । नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।
यदा च पुद्गलः प्रज्ञप्यते, किं तावत् स्कन्धानुपलभ्य प्रज्ञप्यते ?
आहोस्वित् पुद्गलम् ? यदि तावत् स्कन्धान्, तेष्वेव पुद्गलप्रज्ञप्तिः
प्राप्नोति; पुद्गलस्यानुपलम्भात् । अथ पुद्गलम् ? कथमस्य स्कन्धानु-
पादाय प्रज्ञप्तिर्भवति । पुद्गल एव हि तस्या उपादानं प्राप्नोति ।
अथ मतम्—सत्सु स्कन्धेषु पुद्गल उपलभ्यते, ततः स्कन्धानुपादा-
यास्य प्रज्ञप्तिरुच्यत इति ? तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूप-
लम्भात् तान्युपादाय प्रज्ञप्तिर्वक्तव्या । रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।
इदं तावद् वक्तव्यम्—षष्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ?
षड्भिरपीत्युच्यते । कथं कृत्वा ? चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य पुद्गलं
अन्यभूतस्वभावत्वादिति । पृथिवीधात्वादिस्वभावत्वात् । अन्यदपीति ।
न केवलमौष्ण्यमुष्णम्, अन्यदपि तत्प्रदीप्ताग्निसम्बन्धं भूम्यादिकमुष्णं
सिद्ध्यति । अतो यथा तस्यान्यत्वे न दोषः, तथास्यापीति । ततश्चावक्तव्य
इति । तत्पक्षलोपः स्यात् । काष्ठादिकमिति । काष्ठतृणगोमयादिकम् ।
अवक्तव्यमिति । पुद्गलः । अनिर्भिन्नत्वान्नपुंसकलिङ्गता । ‘किं ते
'जातम्' इति यथा । न वक्तव्यं प्राप्नोतीति । पञ्चविधं ज्ञेयमिति । कथं
तर्हि वक्तव्यम् ? इत्याह—नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं
वक्तव्यमिति ।
रूपस्यापीति । विस्तरः । रूपस्यापि प्रज्ञप्तिर्वक्तव्या । चक्षुरादिषु
सत्सु तस्योपलम्भात् तानि चक्षुरादीन्युपादाय रूपं प्रज्ञप्यत इति ।
प्रतिविभावयतीति । उपलक्षयति । तदुपादानत्वात् । न तु वक्तव्यो.
प्रतिविभावयति¹, चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—रूपाणि
वा नो वा । एवं यावत्, मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभाव-
यति, मनोविज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—धर्मा वा नो वा ।
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति । चक्षुर्विज्ञेयानि चेद्रूपाणि
प्रतीत्य क्षीरं प्रतिविभावयत्युदकं² च³, चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यम्,
नो तु वक्तव्यम्—रूपाणि वा नो वा । एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यम्,
नो तु वक्तव्यम्—स्प्रष्टव्यानि वा नो वा । मा भूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग
इति ?
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तानि, एवं
स्कन्धाः पुद्गल इति सिद्धम् ।
यच्चोच्यते—चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभाव-
यतीति, कोऽस्य वाक्यस्यार्थः ? किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं
भवतीति ? आहोस्विद् रूपाण्युपलभमानः पुद्गलमुपलभत इति ? यदि रूपाणि
रूपाणि वा नो वेति । अतल्लक्षणत्वात्, अवक्तव्यत्वाच्च । एवं यावद्
धर्मो वा नो वेति ।
क्षीरं प्रतिविभावत्युदकं चेति । उदाहरणद्वयम् । तदेवं वक्तव्यम्—
चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिभावयति, चक्षुर्विज्ञेयं क्षीरं
वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् । तथैतदपि
वक्तव्यम्—चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति,
चक्षुर्विज्ञेयमुदकं वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् ।
मा भूत् क्षीरोदकयोः चतुष्ट्वप्रसङ्ग इति । रूपाणीति यद्युच्येतं, चतुः-
प्रकारं क्षीरम्, उदकं वा प्राप्नोतीत्यर्थः । शब्द आगन्तुकत्वान्नात्राधिकृतः ।
अतो यथा रूपादीन्येव समस्तानि समुदितानि क्षीरमिति उदकमिति वा
प्रज्ञप्यते तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धम् ।
रूपाणि पुद्गलोपलब्धेः कारणमिति । रूपाण्युपलभमानः पुद्गल-
मुपलभत इति । कोऽनयोः पक्षयोर्विशेषः ? पूर्वस्मिन् पक्षे रूपाणां कारणत्व-
मधिक्रियते; द्वितीये न तु कारणत्वम्, किं तर्हि ? रूपाण्युपादाय पुद्गलो-
पलब्धिरिति । तत्र रूपाणां यदि कारणत्वमिष्यते, स च पुद्गलः तेभ्यो
१. प्रतिभासयति—का० । २. विभावयस्यु०—का० । ३. वा—का० ।
विनिश्चयः ] अष्टमं कोशस्थानम् ११५७
पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः । इदं तर्हि
रूपमप्यालोकचक्षुर्मनस्कारेभ्योऽन्यन्न वक्तव्यम्; तेषां तदुपलब्धिकारणत्वात् ।
अथ रूपाण्युपलभमानः पुद्गलमुपलभते, किं तयैवोपलब्ध्योपलभते ?
...होस्विदन्यया ? यदि तयैव, रूपाद्भिन्नस्वभावः पुद्गलः प्राप्नोति, रूप
एव वा तत्प्रज्ञप्तिः । इदं च रूपमयं पुद्गल इति१ कथमिदं परिच्छिद्यते२ !
—...वं न परिच्छिद्यते, कथमिदं प्रतिज्ञायते — रूपमप्यस्ति पुद्गलोऽप्यस्तीति !
उपलब्धिवशेन हि तस्यास्तित्वं परिज्ञायते३ । एवं यावद्धर्मेभ्यो वक्तव्यम् ।
अथान्या ? भिन्नकालोपलम्भादन्यो रूपात् प्राप्नोति । नीलादिव
रूपेभ्योऽन्यो न वक्तव्य इति । इदं तर्हि वः प्रसज्यते रूपमपीति
विस्तरः । • यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न
वक्तव्यः । आलोकचक्षुर्मनसिकारा अपि रूपोपलब्धेः कारणं भवन्ति, तदपि रूपं
तेभ्य आलोकादिभ्यो ऽन्यन्न वक्तव्यं भवद्भिः; तेषां तदुपलब्धिकारणत्वात् ।
तेषामालोकादीनां रूपोपलब्धिकारणत्वात् । रूपाद्भिन्नस्वभावः पुद्गलः
प्राप्नोति; तयैवैकोपलब्ध्योपलभ्यमानत्वात्, रूपान्तरवत् ।
रूप एव वा तत्प्रज्ञप्तिः । पुद्गलप्रज्ञप्तिः प्राप्नोतीति वर्तते । कुतः ?
तत एव हेतोः । इदं च रूपमिति विस्तरः । उपलब्धेरेकत्वे रूपपुद्गलयोः
परिच्छेदो न प्राप्नोतीति । अथैवं न परिच्छिद्यते 'इदं रूपम्' 'अयं पुद्गलः'
इति । कथमुभयं प्रतिज्ञायते । रूपमेव हि प्रतिज्ञातव्यं स्यात्, तदुपलब्धिसद्भा-
वात् । एवं यावद् धर्मेभ्यो वक्तव्यमिति । कथम् ? यच्चोच्यते—श्रोत्रविज्ञेयान्
शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति, कोऽस्य वाक्यस्यार्थः ? किं
तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति, आहोस्विच्छब्दानुपलभमानः
पुद्गलमुपलभते इति ? यदि तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति,
स च तेभ्योऽन्यो न वक्तव्यः । एवं तर्हि शब्दोऽप्यालोकश्रोत्रमनस्कारे-
भ्योऽन्यो न वक्तव्यः; तेषां तदुपलब्धिकारणत्वात् । अथ शब्दानुपलभमानः
पुद्गलमुपलभते, किं तयैवोपलब्ध्योपलभते, आहोस्विदन्यया ? यदि तयैव,
शब्दादभिन्नस्वभावः पुद्गलः प्राप्नोति । शब्दा एव वा तत्प्रज्ञप्तिः ।
'अयं च शब्दः', 'अयं च पुद्गलः' इति कथमिदं परिच्छिद्यते ! अथैवं
न परिच्छिद्यते, कथमिदं परिज्ञायते—शब्दोऽप्यस्ति, पुद्गलोऽप्यस्ति ।
उपलब्धिवशेन हि तस्यास्तित्वं परिज्ञायते । अनया दिशा यावद् धर्मेभ्यो
योजयितव्यम् ।
१. का० पुस्तके नास्ति । २. गम्यते—का० ।
३. प्रतिज्ञायते—का० ।
११९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पीतम्, क्षणादिव च क्षणान्तरम् । एवं यावद्धर्मेभ्यो वक्तव्यम् ।
अथ रूपपुद्गलवत् तदुपलब्ध्योरप्यन्यान्यत्वमवक्तव्यम् । तेन तर्हि
संस्कृतमप्यवक्तव्यं१ भवतीति सिद्धान्तभेदः ।
यदि चायमस्ति—नो तु वक्तव्यो रूपाणि वा नो वा, किं तर्हि
एतद्२ भगवतोक्तम्—"रूपमनात्मा इति३. यावद्विज्ञानमनात्मा" इति !
येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते, किं तद्रूपाणि प्रतीत्यो-
त्पद्यते ? आहोस्वित् पुद्गलम् ? उभयं वा ?
यदि रूपाणि प्रतीत्योत्पद्यते ? नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादि-
नीलादिव पीतमिति । यदा परिच्छेदेन नीलमुपलभ्यते, न तदा
पीतमुपलभ्यते, पश्चात्तुपलभ्यत इति । अन्योपलब्ध्योपलभ्यते । तच्च
'नीलात् पीतमन्यत्' इति प्रतीतम् । तथा च पुद्गलोऽन्योपलब्ध्योप-
लभ्यत इति । रूपादन्यः प्राप्नोति । एवं क्षणादपि क्षणान्तरमन्यदित्युदा-
हार्यम् । एवं यावद् धर्मेभ्यो वक्तव्यम् इति । कथम् ? अथान्यया भिन्न-
कालोपलम्भात् अन्यः शब्दः प्राप्नोति, यथा भेरीशब्दान्मृदङ्गशब्दः ।
क्षणादिव च क्षणान्तरम् । यथा पूर्वमुक्तम्—नीलादिव पीतम्, क्षणादिव
क्षणान्तरम् इति । भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्या
अन्यत्वं दर्शितमेव । अथान्ययेति विस्तरेण यावद् धर्मेभ्यो योज्यम् !
अथ रूपपुद्गलवदिति४ विस्तारः । यथा रूपपुद्गलयोरन्यान्यत्वम-
वक्तव्यम्, एवं तदुपलब्ध्योरपि अन्यान्यत्वमवक्तव्यमित्येवं यदि ब्रूयात्
तेन तर्हि संस्कृतमप्यवक्तव्यं भवति । तदुपलब्धिलक्षणं संस्कृतमप्येतद-
वक्तव्यमिति । सिद्धान्तभेदः । योऽयं सिद्धान्तः—'पुद्गल एवावक्तव्यः' इति,
अयं भिद्यते । संस्कृतमप्यवक्तव्यमिति कृत्वा ।
यदि चायमिति विस्तारः । यद्येवं रूपाणि नो वेति न वक्तव्यः,
किं तर्हि एतद् भगवतोक्तम्—रूपमनात्मेति । यावद् विज्ञानमनात्मेति ।
एवं हि ब्रुवतो वक्तव्य एव पुद्गलः, नावक्तव्य इति दर्शितं भवति ।
शब्दादिवदिति । न रूपविज्ञानेनोपलभ्यते पुद्गलः; तदनालम्बन-
१. संस्कृतेऽप्य०—का० ।
२. ३. का० पुस्तके नास्ति ।
४. रूपपुद्गलयोरिति—जा० ।
विनिश्चयः ] अष्टमं कोशस्थानम् ११९६
वत्। यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्या-
लम्बनप्रत्ययः ।
अथ पुद्गलं प्रतीत्योत्पद्यते ? उभयं वा ? इदमुत्सूत्रम् । सूत्रे हि
निर्धारितम्—द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति । “तथा चक्षुर्भीक्षो
हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय । तत् कस्य हेतोः ? यत्किञ्चित्
भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि च” इति । अनित्यश्च पुद्गल
एवं प्राप्नोति; “ये हि हेतवो ये प्रत्यया विज्ञानस्योत्पादाय, तेऽप्यनित्याः”
इति सूत्रे वचनात् ।
अथ पुद्गलो न तस्यालम्बनम्, न तर्हि तेन विज्ञेयः ।
यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते, स श्रोत्रविज्ञान-
विज्ञेयत्वाद् रूपादन्यः प्राप्नोति, शब्दवत् । चक्षुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः
प्राप्नोति रूपवत् । एवमन्येभ्योऽपि योज्यम् । इदं च सूत्रपदं बाधितं
भवति—“यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि
स्वकं१ स्वकं१ गोचरविषयं प्रत्यनुभवन्ति । नान्यदन्यस्य गोचरविषयं
प्रत्यनुभवति । तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्दियं घ्राणेन्द्रियं जिह्वेन्द्रियं
कायेन्द्रियम् । मन एषां पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति,
प्रत्ययभूतत्वात्, शब्दादिवत् । आदिशब्देन गन्धवत्, रसवत्—इत्यादि
योज्यम् । एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वमस्य वक्तव्यम् । एषा हि
दिक् । अनेन चोपन्यासेन धर्मविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्यव-
गन्तव्यम् ।
द्वयं प्रतीत्येति । द्वयं प्रतीत्य, न तु त्रयं प्रतीत्येति । अत इद-
मुत्सूत्रमिति ।
चक्षुर्भीक्षो हेतुरिति विस्तरः । हेतुः आसन्नः प्रत्ययः । विप्रकृष्टस्तु
प्रत्यय एव । ‘जनको हेतुः, प्रत्ययस्त्वालम्बनमात्रम्’ इत्यपरे । ‘पर्यायावेतौ’
इत्यपरे ।
रूपादन्यः पुद्गलः इति पक्षप्रसङ्गः । श्रोत्रविज्ञानविज्ञेयत्वाच्छब्द-
वत् । तथा शब्दादन्यः पुद्गल इति पक्षप्रसङ्गः; चक्षुर्विज्ञानविज्ञेयत्वात्
रूपवत् । इत्येवमन्येभ्योऽपि योज्यमिति । रूपशब्दाभ्यामन्यः पुद्गल इति
पक्षप्रसङ्गः; घ्राणविज्ञेयत्वात्, गन्धवत्—इत्येषा दिग् योजनं प्रतीति ।
स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात् पुद्गलेन प्रत्यनु-
१-१. स्वं स्वं—का० ।
मनश्चैषां प्रतिशरणम्" इति ।
न वा पुद्गलो विषयः । न चेद् विषयो न हि विज्ञेयः । यद्येवम्,
मनइन्द्रियस्याप्यव्यभिचारः प्राप्नोति । "षडिमानीन्द्रियाणि नानागोचराणि
नानाविषयाणि स्वकं स्वकं गोचरविषयमाकाङ्क्षन्ते" इत्युक्तं षट्प्राणकोपमे ?
न तत्रेन्द्रियमेवेन्द्रियं कृत्वोक्तम् । पञ्चानां दर्शनाद्याकाङ्क्षणासम्भ-
वात्, तद्विज्ञानानां च । अतस्तदाधिपत्याध्याहृतं¹ तु² मनोविज्ञानमिन्द्रियम्²
भवन्तीति उक्तं भवति । मनश्चैषां प्रतिशरणमिति । अनुषङ्गेनेदमुक्तम्,
नेदमुदाहरणम् । तथापि तु मनश्चैषामिन्द्रियाणां प्रतिशरणमिति तद-
पेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ कारणं भवन्तीत्यर्थः ।
न वा पुद्गलो विषय इति । यदि सूत्रं प्रमाणीक्रियते । ततः किम् ?
इत्याह—न चेद् विषय इति । यदि न कस्यचिद् विज्ञानस्य विषयः ।
न तर्हि विज्ञेयः । ततश्च 'पञ्चविधं ज्ञेयम्' इति स्वसिद्धान्तो बाध्यते ।
यद्येवम् । सूत्रे वचनात् नान्यदन्यस्य गोचरविषयं प्रत्यनुभवतीति
पञ्चानां चक्षुरादीनां प्रमाणीक्रियते स्वविषयाव्यभिचारः । स्वविषया-
व्यभिचारे च न चक्षुर्विज्ञानादिभिर्विज्ञेयः पुद्गलः । तदेवं सति मन-
इन्द्रियस्याप्यव्यभिचारः प्राप्नोति । षडिमानीन्द्रियाणि नानागोचराणीति
विस्तरेण सूत्रे वचनात् । कुक्कुर-पक्षि-शृगाल-शिशुमार-सर्प-मर्कटाः षट्
प्राणकाः केनचिद् बद्धा मध्ये ग्रन्थि कृत्वोत्सृष्टाः । ते स्वकं स्वकं गोचर-
विषयमाकाङ्क्षन्ते । ग्रामाकाश-श्मशानोदकान्त-वल्मीक-वनाकाङ्क्षणात् ।
एवमेव षडिमानीन्द्रियाणि स्वकं स्वकं गोचरविषयमाकाङ्क्षन्ते । इत्येव-
मुपमात्र क्रियते । अथ सत्यपि सूत्रवचने मनइन्द्रियस्य व्यभिचारः, एवं.
चक्षुरादीनामनीन्द्रियाणां व्यभिचारः, व्यभिचारे च चक्षुर्विज्ञानादिभिर्विज्ञेयः
पुद्गलो भविष्यतीति ।
अत्र ब्रूमः— न तत्रेति विस्तरः । तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियमेव
चक्षुरादिकम् इन्द्रियं कृत्वोक्तम् । किं कारणम् ? चक्षुरादीनां पञ्चानाम्
इन्द्रियाणां दर्शनाद्याकाङ्क्षणासम्भवात् । यस्मादेषां दर्शन श्रवणाद्या-
काङ्क्षणं न सम्भवति; रूपस्वभावत्वात् । तद्विज्ञानानां च । चक्षुरादि-
विज्ञानानां च दर्शनाद्याकाङ्क्षाऽसम्भवात् । कस्मादेषां दर्शनश्रवणाद्या-
१-१. ०त्याध्याहृतमत्र—का० ।
२. ० विज्ञानेन्द्रि०—का० ।
:
Vertical line of i-matra, then 'त' with a repha, then 'र्ह'?
Wait, the repha is on 'त', and there is 'र्ह'? Or is it 'तर्हि'?
Wait, look at the letters:
First is a vertical line. Then 'त' with a repha above it: 'र्त'. Then another vertical line with 'ह'?
Wait! In Devanagari, when 'तर्हि' is printed, if a repha accidentally was placed on 'त', it would be 'र्तर्हि'.
Wait, look at the characters:
It's: र्त + ह + ि = र्तर्हि or तर्हि?
Actually, look at the top:
Above the first consonant, there is a repha: ॅ or र्?
It's a repha!
And after that, there is an आ matra, or is it i-matra?
Wait! The word is "किं तर्हि ?" (kim tarhi?).
The typesetter printed:
"कि" at end of L20.
At start of L21: "र्तार्ह ?" - wait, look at 'र्ह':
The letter is 'ह' with a repha on top and an i-matra?
No, the repha is on the 'त': 'र्त', then 'ार्ह' - wait, why 'ार्ह'? That's 'र्ह' with an anusvāra or something?
संन्निपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रूपिणः
स्कन्धाश्चक्षुरिन्द्रियं च रूपम्—एतावन्मनुष्यत्वमुच्यते । अत्रेयं संज्ञा—सत्त्वो
नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति । अत्रेयं
प्रतिज्ञा—अहं चक्षुषा रूपाणि पश्यामीति । अत्रायं व्यवहारः—इत्यपि स
आयुष्मानेवंनामा एवंजन्य¹ एवंगोत्र एवमाहार एवसुखदुःखप्रतिसंवेदी
एवंदीर्घायुरेवंचिरस्थितिक एवमायुःपर्यन्त इति । इति हि भिक्षवः संज्ञामात्रक-
मेवैतद्, व्यवहारमात्रकमेवैतत् । सर्वे इमे धर्मा अनित्याः संस्कृताश्चेति
ताः प्रतीत्यसमुत्पन्नाः” इति ।
नीतार्थं च सूत्रं प्रतिशरणमुक्तं भगवता । तस्मान्न पुनः परीक्ष्यते ।
तथा चोक्तम्— “सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानि” इति ।
यदि चायं पुद्गलो नायतनम्, न सोऽस्तीति सिद्धम् । अथायतनम्, न तर्हि-
वक्तव्यः । तेषामपि चैवं पश्यतः “यावता भिक्षो चक्षुर्यावता रूपाणि,
विस्तरेण, एतावता भिक्षो तथागतः सर्वं च · प्रज्ञापयति च” इति ।
बिम्बिसारसूत्रे चोक्तम्— “आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः
प्रज्ञप्तिमनुपतितः । न त्वत्रात्मा वा आत्मीयं वा दुःखमिदमुत्पद्यमानमुत्पद्यते”
इति विस्तरः ।
शैलयाप्यर्हन्त्या मारमारभ्योक्तम्—
“मन्यसे किं नु सत्त्वेति मारदृष्टिगतं हि ते ।
शून्यः संस्कारपुञ्जोऽयं नहि सत्त्वोऽत्र विद्यते ॥
यथैव ह्यङ्गसम्भाशत् संज्ञा रथ इति स्मृता ।
एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते” ।। इति ।
क्षुद्रकेऽपि चागमे दरिद्रब्राह्मणमधिकृत्योक्तम्—
“शृणु त्वं स्वादरे धर्मं सर्वग्रन्थिप्रमोचनम् ।
यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥
नीतार्थं च सूत्रं प्रतिशरणमुक्तमिति । “चत्वारीमानि भिक्षवः
प्रतिशरणानि । कतमानि चत्वारि ? १. धर्मः प्रतिशरणम्, न पुद्गलः ।
२. अर्थः प्रतिशरणम्, न पुद्गलः । ३ नीतार्थसूत्रं प्रतिशरणम्, न नेयार्थम् ।
४. ज्ञानं प्रतिशरणम्, न विज्ञानम्” ( ) इति ।
प्रज्ञप्तिमनुपतित² इति । यत्रैव प्रज्ञप्तिः कृता--आत्मेति व्यव-
हारार्थम् तामेव । आत्मेत्यभिनिविष्ट इत्यर्थः ।
१. एवंजात्य—का० । २. ०मनूपपतित—जा० ।
... wait!
Let's check carefully:
"द्वादशैव भवाङ्गानि स्कन्धाायतनधातव. ।"
Wait, let's check the number of lines total:
1: आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते ।
2: नास्तीह सत्त्व आत्मा च१ धर्मास्त्वेते सहेतुकाः ॥
3: द्वादशैव भवाङ्गानि स्कन्धाायतनधातव. ।
4: विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥
5: शून्यमध्यात्मकं पश्य. शून्यं पश्य बहिर्गतम् ।
6: न विद्यते२ सोऽपि कश्चिद् यो भावयति शून्यताम् ॥ इति ।
7: तथोक्तम्-“पञ्चादीनवा आत्मोपलम्भे-१. आत्मदृष्टिर्भवति
8: यावज्जीवदृष्टिः३, २. निर्विशेषो भवति तीर्थिकैः मार्धम्. ३. उन्मार्ग-
9: प्रतिपन्नो भवति, ४. शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न
10: सन्तिष्ठते नाधिमुच्यते४, ५. आर्यधर्मा अस्य न व्यवदायन्ते” इति ।
11: न वैत एवं ग्रन्थं प्रमाणं कुर्वन्ति । कि कारणम् ? 'नास्माकमयं
1
१२०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते, न च सूत्रं धर्मतां वा बाधते,
सोऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् ।
किञ्च—इदमपि तेषां सूत्रं नास्ति "सर्वधर्मा अनात्मानः" इति !
स्यात् मतम्—नैव हि पुद्गलो धर्म उच्यते, नाप्यन्यो धर्मादिति ।
एवं तर्हि न मनोविज्ञेयः सिध्यति । 'द्वयं प्रतीत्य विज्ञानस्योत्पादः' इत्यव-
धारणात् । इह चैवं विकल्प्यते "अनात्मन्यात्मेति विपर्यासः, न त्वात्मनि ।
किं च पुनः ? "नात्मा स्कन्धायतनधातवः" । यत्तावदुक्तं प्राक्—"नो तु
वक्तव्यं रूपाणि वा नो वा" इति, तत्तावदपोढम्१ ।
उक्तं च सूत्रान्तरे—"ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा
आत्मेति समनुपश्यन्तः समनुपश्यन्ति, सर्वे त इमानेव पञ्चोपादानस्कन्धान्"
इति । तस्मात् सर्व एवानात्मन्यात्मग्राहः । तथोक्तम्—'ये केचिदनेकविधं
पूर्वनिवासं समनुस्मरन्तः समनुस्मार्युः, समनुस्मरन्ति, समनुस्मरिष्यन्ति वा,
पुनः सर्वे त इमानेव पञ्चोपादानस्कन्धान्" इति ।
यद्येवमिदम्, कस्मादाह—"रूपवानहमभूवमतीते२ऽध्वनि" इति ।
णीत्यभिप्रायः । सर्वनिकायान्तरेष्विति । ताम्रपर्णीयनिकायादिषु ।
न च सूत्रं बाधते । न च सूत्रान्तरं बाधते । न च सूत्रान्तरं विरोधयति ।
न धर्मतां बाधते इति । प्रतीत्यसमुत्पादधर्मताम् ।
सर्वधर्मा अनात्मान इति । न चैत आत्मस्वभावाः । न चैतेषु
आत्मा विद्यत इति अनात्मानः सर्वधर्माः ।
द्वयं प्रतीत्येति । चक्षू रूपाणि यावन् मनोधर्मानिति । न पुद्गलो
न धर्मा इति ।
नात्मा स्कन्धायतनधातव इति वचने यत् कश्चित् पूर्वं नो तु वक्तव्यं
रूपाणि वा नो वेत्युक्तम्, अपोढम् अपास्तं तद् भवति; आत्मनोऽन्यत्वात् ।
तस्मात् सर्व एवानात्मन्यात्मग्राह इति । नातोऽन्योऽस्तीति
दर्शयति ।
यद्येवमिति विस्तरः । यदिमानेव पञ्चोपादानस्कन्धान्
१. ०दद्योचम्—का० ।
२. बभूवातीते—जा० ।