सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1233, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1233

१२१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ पुद्गल-
राज्ञोपसंक्रम्योक्तः- "पृच्छेयमहं भदन्तम्, बहुबोल्लकाश्र्च श्रमणा भवन्ति,
यदि यदेव पृच्छेयं तदेव व्याकुर्याः" इति । पृच्छेत्युक्तः पृष्टवान्—"किं नु स
जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्" इति ? "अव्याकृतमेतत्"
इत्यवोचत् स्थविरः । स आह—"ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितः—
नान्यद्व्याकर्तव्यमिति ! किमिदमन्यदेवोक्तम्—अव्याकृतमेतदिति" । स्थविर
आह—"अहमपि महाराजं पृच्छेयम्, बहुबोल्लकाश्र्च राजानो भवन्ति, यदि
यदेव पृच्छेयं तदेव व्याकुर्याः" इति । पृच्छेत्युक्तः पृष्टवान्—"यस्तेऽन्तःपुरे
आम्रवृक्षस्तस्य किमम्लानि फलानि, आहोस्विन्मधुराणि इति ? 'नैव
ममान्तःपुरे कश्चिदाम्रवृक्षोऽस्ति" इत्याह । "ननु मया पूर्वमेव महाराजः
प्रतिज्ञां कारितः—नान्यद्व्याकर्तव्यमिति ! किमिदमन्यदेवोक्तम्—आम्र एव
नास्ति" इति ? स आह—"कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा
व्याकरोमि" इति । "एवमेव महाराज, स एव जीवो नास्ति, कुतोऽस्य
शरीरादन्यतामनन्यतां वा व्याकरोमि" ( ) इति ।
कस्माद् भगवताऽपि नोक्तम्—नास्त्येवेति ? प्रष्टुराशयापेक्षया । स
हि यस्यापि स्कन्धसन्तानस्य जीव इत्याख्या, तस्याप्यभावं प्रतीयादिति
मिथ्यादृष्टि पातितः स्यात्; प्रतीत्यसमुत्पादस्याज्ञानात् । स च तद्देशनाया
अक्षमः ।
इतश्चैतदेवं निश्चीयते । यत् भगवतोक्तम्—"अस्त्यात्मेत्यानन्द !
वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वल्पं स्याद्वचनाय—
सर्वधर्मा अनात्मान इति । नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय
प्रश्नं पृष्टो व्याकुर्याम्, ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या
मात्रया संमोहमापद्येत—अभून् मे आत्मा, स मे एतर्हि नास्तीति ।
अस्त्यात्मेत्यानन्द शाश्वताय परैति । नास्त्यात्मेत्यानन्दोच्छेदाय परैति" इति
विस्तरः ।
इतर आह¹—यदि पुद्गलो नावक्तव्यः, कस्मान्नोक्तो नास्त्येवेति ।
स च तद्देशनाया अक्षम इति । नैरात्म्यदेशनाया अयोग्य इत्यर्थः ।
पूर्वमेवं सम्मूढ इति । सत्कार्यदृष्टिसहगतेन मोहेन । भूयस्या मात्रया
संमोहमापद्येतेति । उच्छेददृष्टिसहगतं दृष्टयन्तरमुत्पादयेदित्यभिप्रायः ।
अत एवाह—अभून्मे आत्मा, स एतर्हि नास्तीति । आह चात्रेति ।
भदन्तकुमारलातः²—
१. इतराह—जा० । २. ०कुमारलाभ इत्यपि पाठः ।