अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1236, कुल 1258 में से
संदर्भ में पढ़ेंविनिश्चयः ] अष्टमं कोशस्थानम् १२१३
'भवति तथागतः परं मरणात्' इत्यपि चतुष्कः प्रष्टुराशयापेक्षया न
व्याकृतः । स हि मुक्तात्मानं तथागतं कृत्वा पृष्टवान् ।
पौद्गलिकस्तु पर्यनुयोज्यः—किं कारणं भगवान् जीवन्तं पुद्गलं
अस्तीति व्याकरोति, परं मरणान्न व्याकरोतीति ? शाश्वतदोषप्रसङ्गः ।
इदं तर्हि कस्माद्व्याकरोति—“भविष्यसि त्वं मैत्रेयानागतेऽध्वनि
तथागतोऽर्हन् सम्यक्सम्बुद्धः” इति ? कस्माच्च श्रावकमभ्यतीतं कालगत-
मुपपत्तौ व्याकरोति-अमुकोऽमुत्रोपपन्न इति ? एवमपि हि शाश्वतत्वप्रसङ्गः ।
यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न
पश्यति, अज्ञानान्न व्याकरोतीति, सार्वज्ञं¹ शास्तुरुत्पादितं भवति, न वा
सोऽस्तीत्यभ्युपगन्तव्यम् ।
अथ पश्यति, अनुच्यमानोऽप्यसावस्ति शाश्वतश्चेति सिद्ध भवति ।
अथैतदपि न वक्तव्यम्—पश्यति वा नवेति । एवं तर्हि इदमपि शनैः
शनैरवक्तव्यं क्रियताम्—सर्वज्ञो वा न वा भगवान् वेति ।
अस्त्येव पुद्गलो यस्मात् सत्यतः स्थितितो नास्ति मे आत्मेति
दृष्टिस्थानमुक्तम् ? अस्तीत्यपि दृष्टिस्थानमुक्तम् । तस्मादज्ञापकमेतत् ।
'अन्तवान्' इति यं पृष्टवान् । कथम् ? किं नु सर्वो लोकोऽनेन मार्गेण
निर्यास्यति ? इति 'अन्तवान्' इति 'अशाश्वतः' इति च पृष्टं भवति ।
आहोस्वित् 'एकदेशो लोकस्य' इत्यनेन 'अन्तवांश्च, अनन्तवांश्च' इति
'शाश्वतश्च, अशाश्वतश्च' इति पृष्टं भवति ।
जीवन्तं पुद्गलमस्तीति व्याकरोतीति । तत्त्वान्यत्वेनावक्तव्यं सन्तमेवं
पुद्गलं व्याकरोतीत्यभिप्रायः ।
शाश्वतदोषप्रसङ्गादिति । वात्सीपुत्रीयवचनम् । इदं तर्हि कस्माद्
व्याकरोतीति विस्तरेण आचार्यवचनम् । सार्वज्ञमिति । अण् भावप्रत्ययः,
यौवनमिति यथा । न वक्तव्यं पश्यति वा न वेति । पश्यति, न पश्यतीति न
वक्तव्यम् इत्यर्थः । शनैः शनैरवक्तव्यं क्रियतामिति । सर्वज्ञो वा भगवान्,
न वेति । न वक्तव्यमिति । शनैः शनैर्ग्रहणं समानशाक्यपुत्रीयप्रकोपरि-
हारार्थम् । सत्यतः स्थितित इति । स्थितिरूपेणेत्यर्थः । दृष्टिस्थान-
मुक्तमिति । मिथ्यादृष्टिस्थानमुक्तमित्यभिप्रायः ।
१. सर्वज्ञत्वं—का० ।