सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1243, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1243

उपचर्यते। तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते। यथा
चाभिजायते तिष्ठतिं रूपमित्यत्र भवितुर्भावादनर्थान्तरत्वम्, एवं विज्ञानेऽपि
स्यात्।
यदि विज्ञानाद् विज्ञानमुत्पद्यते नात्मनः, कस्मान्न नित्यं तादृश-
मेवोत्पद्यते, न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवत्" स्थित्यन्यथात्वस्य
संस्कृतलक्षत्वात्। एष हि संस्कृतस्य स्वभावो यदनवश्यं प्रबन्धस्यान्यथात्वं
भवति। अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ
प्रथमक्षणनिर्विशेषत्वात् पश्चादपि न स्यात् स्वयं व्युत्थानम्।
क्रमोऽपि हि चित्तानां नियत एव। यतो नूत्पत्तव्यम्; तत एव
तस्योत्पादात्। तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति; गोत्र-
विशेषात्। तद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं


विजानातीत्युच्यते। सन्तानेन विज्ञानोत्पत्त्या विजानातीत्यभिप्रायः।
यथा वा रूपं भवतीति विस्तरः। यथा भवितू रूपस्य भावात्, जनितुर्जातेः,
स्थातुः स्थितेरनर्थान्तरत्वम्, एवं विज्ञानेऽपि स्यात् विज्ञातुर्विज्ञानस्य
भावादनर्थान्तरत्वम्; व्यतिरिक्तस्य भावस्यानुपलब्धेः। वैशेषिक-
सूत्रानुसाराद् वा।
नात्मन इति। यदि नात्मनो विज्ञानमुत्पद्यते विज्ञानलक्षणस्याविशे-
षात्। तादृशमेव विज्ञानमुत्पद्येत। यदि त्वात्मनः तस्याभिप्रायविशेषाद्
विशिष्टं ज्ञानमुत्पद्यत इत्यभिप्रायः। न च क्रमनियमेनेति। कस्माच्च न
क्रमनियमेनोत्पद्यते। अनियमेनापि हि उत्पद्यते, गोबुद्धेरनन्तरं स्त्रीबुद्धिः।
स्त्रीबुद्धेर्महिषबुद्धिः। कस्माद् गोबुद्धेरनन्तरं नोत्पद्यते ऽङ्कुर-काण्ड-
पत्रादिवदिति। अङ्कुरात् काण्ड एवोत्पद्यते, न पत्रादि। काण्डात्
पत्रमेवोत्पद्यते, न पुष्पादि, अङ्कुरादि वा, तद्वत्।
निकामध्यानसमाहितानामिति। निकामेन = पर्याप्तेन, समाप्तेन
ध्यानेन समाहितानाम्। सदृशकायचित्तोत्पत्तौ। सदृशस्य कायस्य चित्तस्य
चोत्पत्तौ। स्वयं व्युत्थानमिति। न परोपक्रमेणेत्यभिप्रायः। एवमनेन
कस्मात् न नित्यं सदृशमेवोत्पद्यत इति यत् पृष्टं तद्विसर्जनम्। यत्तु पृष्टम्-
न च क्रमनियमेनेति, तद् दर्शयन्नाह-क्रमोऽपि हि चित्तानां नियतमेवेति।
अभीष्टमेवैतत्। गोत्रविशेषादिति। भावनाविशेषात्। स्त्रीचित्तादिति
विस्तरः। स्त्रीचित्तात् स्त्र्यालम्बनाच्चित्तात् अनन्तरं तस्याः स्त्रियाः कायः
तत्कायः। तत्कायस्य विदूषणायै यदि परिव्राजकस्यान्धस्य वा साधोश्चित्त-