अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1239, कुल 1258 में से
संदर्भ में पढ़ें१२१६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
सदृशसम्बन्धिसंज्ञादिमतोऽनुपहतप्रभावाद् आश्रयविशेषशोकव्याक्षेपादिभिः ।
तादृशोऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थस्तां स्मृतिं भावयितुम्, तदन्वयोऽपि
चान्यादृशो न समर्थस्तां स्मृतिं भावयितुम् । उभयथा तु समर्थ इत्येवं
स्मृतिर्भवति; अन्यस्य१ सामर्थ्यादर्शनात् ।
कथमिदानीमन्येन चेतसा दृष्टमन्यत् स्मरति, एवं हि देवदत्तचेतसा
दृष्टं यज्ञदत्तचेतः स्मरेत् ? न; असम्बन्धात् । न हि तयोः सम्बन्धोऽस्ति;
तदाभोगसदृशसम्बन्धिसंज्ञादिमान् चित्तविशेषः । आदिग्रहणेन प्रणिधान-
निबन्धाभ्यासादिग्रहणम् । आश्रयविशेषश्च शोकतश्च व्याक्षेपतश्च आदि-
रेषामिति आश्रयविशेषशोकव्याक्षेपादीनि, तैः अनुपहतप्रभावश्चित्तविशेषः ।
स एवमनेन दर्शितो भवति । तस्माद् ईदृशाच्चित्तविशेषात् स्मृतिर्भवति ।
तदिदमुक्तं भवति—तदाभोगवतः यदि तत्राभोगः क्रियते सदृशसंज्ञादिमतः
यत्र सादृश्यात् स्मृतिर्भवति । सम्बन्धिसंज्ञादिमतः यत्रान्तरेणापि सादृश्यं