अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1242, कुल 1258 में से
संदर्भ में पढ़ेंविनिश्चयः ] अष्टमं कोशस्थानम् १२११
कारणं भवन्त उच्यन्ते—गच्छति देवदत्त इति । सा च देशान्तरोत्पत्तिर्गति-
रिति । ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् । त एव च पुनर्विज्ञा-
नस्य कारणं भवन्त उच्यन्ते—विजानाति¹ देवदत्त इति । आर्यैरपि तेषां
संज्ञया तथोच्यन्ते व्यवहारार्थम् ।
यत्तर्हि "विज्ञानं विजानाति" इति सूत्र उक्तम्, किं तत्र विज्ञानं
करोति ? न किञ्चित् करोति । यथा तु कार्यं कारणमनुविधीयत इत्युच्यते,
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । एवं विज्ञानमपि विजानातीत्युच्यते,
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । किं पुनरस्य सादृश्यम् ? तदाकारता ।
अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते, नेन्द्रियम् ।
अथवा तथाऽत्रापि विज्ञानसन्तानस्य विज्ञाने कारणभावाद् विज्ञानं
विजानातीति वचनान्निर्दोषम्, कारणे कर्तृशब्दनिर्देशात् । घण्टा रोतीति
यद्वत् ।
अपि खलु यथा प्रदीपो गच्छति, तथा विज्ञानं विजानातीति । कथं
च प्रदीपो गच्छति ? प्रदीप इत्यर्चिषां सन्तान उपचर्यते, स देशान्तरे-
षूत्पद्यमानस्तं देशं गच्छतीत्युच्यते । एवं विज्ञानमपि चित्तानां सन्तान
गच्छति-गमनाभिधानवदिति । यथा ज्वाला गच्छति, शब्दो गच्छती-
ति गच्छति-शब्दाभिधानम् । यथा ज्वालायाः शब्दस्य वा गमनम् । अनेन
दृष्टान्तेन विजानाति देवदत्त इति सिद्धयति ।
सादृश्येनात्मलाभादिति । कारणासादृश्येन कार्यात्मलाभात् । अकुर्व-
दपि कञ्चिदिति । परिस्पन्दनमकुर्वदपीत्यर्थः ।
तदाकारतेति । नीलादिविषयाकारतेत्यर्थः । विज्ञाने कारणभावात्
इति विज्ञानं विज्ञानान्तरस्य कारणम्, अतो विज्ञानान्तरं उत्पादाद् विजाना-
तीति उच्यते । कारणे कर्तृ शब्दनिवेशादिति । कारणं कर्तृ भूतमिति