सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1244, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1244

विनिश्चयः ] अष्टमं कोशस्थानम् १२२१
भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात् सन्ततिपरिणत्या स्त्रीचित्त-
मुत्पद्यते, तत् समर्थं भवति तत्पतिपुत्रादि-
चित्तोत्पादने वा; तद्गोत्रत्वात् ; अन्यथा न समर्थम् ।
अथ पुनः पर्यायेण स्त्रीचित्ताद् बहुविधं चित्तमुत्पन्नं बहुतरमासन्नतरं
वा तदेवोत्पद्यते; तद्भावनाया बलीयस्त्वात् । अन्यत्र तात्कालिकात् काय-
बाह्यप्रत्ययविशेषात् । सैवं बलीयसी भावना कस्मान्नित्यं न फलति ?
स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात् । तस्य चान्यथात्वस्यान्यभावना-
मुत्पन्नं भवति । तत्पतिपुत्रादिचित्तं वा । तस्याः पतिपुत्रादयः । आदि-
शब्देन दुहित्रादयो गृह्यन्ते । तदालम्बनं चित्तं तत्पतिपुत्रादिचित्तम् । तद्
वान्यतरद् यदिदं तस्मात् स्त्रीचित्ताद् अनन्तरमुत्पन्नं भवति । पुनश्च
कालान्तरेण सन्ततिपरिणामेन स्त्रीचित्तमुत्पद्यते । तत् पश्चादुत्पन्नं स्त्रीचित्तं
समर्थं भवति तत्कायविदूषणाचित्तोत्पादने । तत्स्त्रीकायविदूषणाचित्तोत्पादने,
तत्पतिपुत्रादिचित्तोत्पादने वा समर्थम् । कस्माद् ? इत्याह—तद्गोत्रत्वा-
दिति । तत्कायविदूषणाचित्तं तत्पतिपुत्रादिचित्तं वा गोत्रं बीजमस्येति
तद्गोत्रं । चित्तम्, तस्य भावः, तस्मात् । तज्जातीयत्वादित्यभिप्रायः ।
अन्यथेति । अतद्गोत्रम् ।
अथ पुनः पर्यायेणेति विस्तरः । पर्यायेण = अयुगपत् । स्त्रीचित्तात्
तत्कायविदूषणाचित्तम्, ततश्च तत्पतिचित्तम्, ततश्च तत्पुत्रचित्तम्, तत
एव च तद्दुहितृचित्तम्, तत एव च तदुपकरणादिचित्तमुत्पन्नं भवति ।
ततः स्त्रीचित्ताद् अनन्तरोत्पन्नेभ्यश्चित्तेभ्यो यद् बहुतरं प्रवाहतः पटुतरं
शक्तितः आसन्नतरं वास्योत्पाद्यस्य चित्तस्य, तदेव चित्तमुत्पद्यते; तद्भावनाया
बलीयस्त्वात् । तस्य बहुतरस्य पटुतरस्यासन्नतरस्य वा भावनाया बलवत्त-
रत्वात् । अन्यत्रेति विस्तरः । तत्कालप्रत्युपस्थितः तात्कालिकः काय-
प्रत्ययविशेषो बाह्यप्रत्ययविशेषश्च, तस्मादन्यत्र । तस्मादृते इत्यर्थः । तदेव
ह्युत्पद्यते, यस्य कायो बाह्यो वा प्रत्ययविषय उपतिष्ठते ।
सैव बलीयसीति । या बहुतरस्य पटुतरस्य आसन्नतरस्य वा
अभिहिता, सैव बलीयसी भावना कस्मान्नित्यं न फलति । नहि तच्चित्तं
निवर्तते ।
वर्तते इतीतरेण चोदित आह—स्थित्यन्यथात्वलक्षणत्वात् । स्थिते-
रन्यथात्वं लक्षणमस्येति स्थित्यन्यथात्वलक्षणत्वात्, तद्भावात् । तस्य
चान्यथात्वस्य संस्कृतलक्षणस्य । अन्यभावनाफलोत्पत्तौ अन्यभावनाफलस्य