अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1231, कुल 1258 में से
संदर्भ में पढ़ें१२०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
दानात् । यथा हि याज्ञिको जातः, वैयाकरणो जात इत्युच्यते; विद्योपादा-
नात् । भिक्षुर्जातः, परिव्राजको जात इति; लिङ्गोपादानात् । वृद्धो जातः,
व्याधितो जात इति; अवस्थान्तरोपादानादिति ? न; प्रतिक्षेपात् ।
सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम्—“इति हि
भिक्षवोऽस्ति कर्म, अस्ति विपाकः, कारकस्तु नोपलभ्यते । य इमांश्च स्कन्धान्नि-
क्षिपति, अन्यांश्च स्कन्धान् प्रतिसन्दधात्यन्यत्र धर्मसंकेतात्” ( ) इति ।
फल्गुसूत्रे चोक्तम्—“उपादत्त इति फल्गुना१ न वदामि” इति ।
तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता, नापि निक्षिप्ता ।
कं च तावद्भवान् याज्ञिकं यावद्व्याधितमधिमुच्यते दृष्टान्तं
करोति ? पुद्गलं यदि ? सोऽसिद्धः । अथ चित्तचैत्ता. ? न; तेषां प्रति-
क्षणमपूर्वोत्पत्तिरेव । अथ शरीरम् ? तस्यापि तथा।
शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते । जीर्णां शरी-
रान्तरमेव व्याधितं च । प्रतिषिद्धो हि सांख्यैयः२ परिणामवादः । तस्माद-
पदृष्टान्ता३ एते ।
यथा हि याज्ञिको जात इति विद्योपादानादुच्यते । न चासौ भूतार्थेन
जातः । तद्वदिति सर्वं योज्यम् ।
कारकस्तु नोपलभ्यत इति विस्तरः । कर्मणः कारको नोपलभ्यते ।
कीदृशोऽसाविति ? आह—य इमांश्च ऐहिकान् स्कन्धान् निक्षिपति
त्यजति । अन्यांश्च पारत्रिकान् स्कन्धान् प्रतिसन्दधाति उपसंगृह्णाति द्रव्य-
सन्नवस्थित इति । अन्यत्र धर्मसंकेतादिति । प्रतीत्यसमुत्पादलक्षणान्तेनाह—
यदुत अस्मिन् सतीति ।
उपादत्त इति फल्गुना न वदामीति । अहं चेदेवं वदेयम्—उपादत्त
इति, अत्र ते कल्पः स्यात् वचनाय—‘को नु, भदन्त, उपादानमुपादत्ते’ इति ।
तस्मान्नास्ति स्कन्धानां कश्चित् उपादाता, नापि निक्षिप्तेति ।
तस्यापि तथेति । प्रतिक्षणमपूर्वोत्पत्तिरेवेत्यर्थः । यदि पुद्गलः सो
ऽसिद्ध इत्येवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति ।
शरीरविद्यालिङ्गवच्चेति । विद्या च लिङ्गं च विद्यालिङ्गम्, शरीरं
च विद्यालिङ्गं च शरीरविद्यालिङ्गम्, तयोरिव शरीरविद्यालिङ्गवत् ।
१ फल्गु—का० । २. सांख्यीयः—का० । ३. तस्माद्दृष्टान्ता—का० ।