सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1228, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1228

विनिश्चयः ] अष्टमं कोशस्थानम् १२०५
एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति । यदि तु रूपवन्तं पुद्गलं
पश्येत्, सत्कायदृष्टिप्रसङ्गः स्यात् । अपाठ एव चात्र¹ शरणं स्यात् ।
तस्मात् प्रज्ञप्तिसत्पुद्गलो राशिधारादिवत्² ।
यद्येवम्, तर्हि न बुद्धः सर्वज्ञः प्राप्नोति, न हि किञ्चिच्चित्तमस्ति
चैत्ता वा यत् सर्वं जानीयाद्; क्षणिकत्वात् । पुद्गलस्तु जानीयात् ? एवं
तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं
भवति ? नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे । किं
तर्हि ? सामर्थ्यात् । याह्य सौ बुद्धाख्या सन्ततिस्तस्या इदमस्ति सामर्थ्यं
यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् । आह चात्र—
“सन्तानेन समर्थत्वाद् यथाग्निः सर्वभुङ्‌मतः ।
तथा सर्वविदेष्टव्योऽसकृत्सर्वस्य वेदनात्” ।।
कथमिदं गम्यते ? अतीतादिवचनात् ।
“ये चाम्यतीताः सम्बुद्धा ये च बुद्धा अनागताः ।
यश्च एतर्हि सम्बुद्धो बहूनां शोकनाशनः” ।। इति ।।
समनुस्मरन्तः समन्वस्माषुः, समनुस्मरन्ति, समनुस्मरिष्यन्ति वा न
पुद्गलम् । कस्मादाह रूपवानहं बभूवातीतेऽध्वनीति । अहमिति वचनात्
पुद्गल उच्यत इति दर्शयति । एवमनेकविधं ये समनुस्मरन्ति त एवं
समनुस्मरन्तीति वाक्याध्याहारः । अपाठ एव चात्र शरणं स्यादिति ।
अहमिति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसङ्ग स्यादित्यर्थः । विंशति-
कोटिका हि सत्कायदृष्टिः पठ्यते—१. रूपमात्मेति समनुपश्यति, २.
रूपवन्तमात्मानम्, ३. आत्मीयं रूपम्, ४. रूपे आत्मेति । एवं यावद्
विज्ञानं वक्तव्यम् ।
राशिधारादिवच्च । राशिवत्, धारावच्च । आदिशब्देन पानकादि-
ग्रहणम् । एकस्मिन् क्षणे बहूनां राशिः । बहुषु क्षणेषु समवहितानां
धारा । राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति । धारादृष्टान्तेन
बहुत्वे सति रूपवेदनादीनां स्कन्धानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति ।
कथमिदं गम्यत इति । बुद्धाख्यायाः सन्ततेरिदं सामर्थ्यम् यद्
आभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम्, न पुनः पुद्गलस्येति ।
उच्यते—अतीतादिवचनात् । ये चाम्यतीता इति । विस्तरेणोक्त उपसंहारः ।
तस्मात् स्कन्धसन्तान एव बुद्धाख्या, न पुद्गल इति ।
१. ह्यत्र—का० । २. ०धारावत्—का० ।