अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
११६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
सन्धिबन्धः १ क्लिष्टो भवति । समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते ।
त्रिधा केचित्,
केचित् पुनरिच्छन्ति—आस्वादनासम्प्रयुक्तमप्यनागम्यं सामन्तकं
चोच्यते, ध्यानान्तरं च ।
किमिदमेकार्थम्, आहोस्विन्नानार्थम् ? सामन्तकं हि वैराग्यमार्गः ।
अतर्कं ध्यानमन्तरम् ॥ २२ ॥
ध्यानमेव हि वितर्कासम्प्रयुक्तं ध्यानान्तरम्; ध्यानविशेषत्वात् । अत
एव द्वितीयादिषु ध्यानेषु न व्यवस्थाप्यते; विशेषाभावादिति ॥ २२ ॥
तत् पुनर्ध्यानान्तरम्
त्रिधा,
आस्वादनासम्प्रयुक्तम्, शुद्धकम्, अनास्रवं च ।
अदुःखसुखं तच्च,
नात्र सुखं दुःखमित्यदुःखसुखम् । उपेक्षेन्द्रियसम्प्रयुक्तमित्यर्थः । न
रूप्येषु यस्य यत् सामन्तके, तस्य तेन सामन्तकचित्तेन क्लिष्टेनासमाहितेन
सन्धिबन्ध इत्येष सिद्धान्त इति । अत इदमुच्यते—यद्यपि सामन्तकचित्तेनेति
विस्तरः ।
आस्वादनासम्प्रयुक्तमप्यनागम्यमिति । अनागम्यस्य पटुत्वात् । यथा
हि तदनास्रवमपि सम्भवति, तथास्वादनासम्प्रयुक्तमपीत्यभिप्रायः ।
मौलप्रतिस्पर्धित्वादास्वादनासमुत्पत्तिसद्भावादिति आचार्यसङ्घभद्रः ।
ध्यानविशेषत्वादिति । तदेवं मौलं प्रथमं ध्यानं वितर्कापगमाद्
विशिष्टं ध्यानान्तरमुच्यते—इत्यर्थः । विशेषाभावादिति । यथा प्रथमे
ध्याने विशेषो भवति—क्वचिद् वितर्कविचारौ क्वचिद् विचार एवेति,
न तथा द्वितीयादिष्विति । अतो ध्यानेषु न व्यवस्थाप्यते ध्याना-
न्तरम् ॥ २२ ॥
१. प्रतिसन्धिबन्धः—का० ।
निर्देशः ] अष्टमं कोशस्थानम् ११६३
प्रीतिसम्प्रयुक्तम्; साभिसंस्कारवाहित्वात् । अत एव दुःखा प्रतिपत् ।
तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः ? तद्धि
महाब्रह्मफलं च तत् ।
तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति । पुनः सर्व-
समाधीन् सङ्कल्य त्रयः समाधयः उक्ताः सूत्रे—१. सवितर्कः सविचारः
समाधिः, २. अवितर्को विचारमात्रः, ३. अवितर्कोऽविचार इति ।
तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाधिरिति ज्ञापितम्;
वितर्कमात्रप्रतिषेधात् । ततः—
सवितर्कविचारोऽधःसमाधिः,
तस्माद् ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः । प्रथमं
ध्यानमनागम्यं च ।
परतोऽद्वयः ॥ २३ ॥
नात्र द्वयमस्तीत्यद्वयः । परेण तु ध्यानान्तरात् समाधिरवितर्को-
ऽविचारः । द्वितीयध्यानसामन्तकाद् यावद् भवाग्रम् ॥ २३ ॥
पुनस्त्रयः समाधय उक्ताः—शून्यतासमाधिः, अप्रणिहितः, आनि-
मित्तश्च । तत्र
आनिमित्तः समाकारैः,
निरोधसत्याकारैः सम्प्रयुक्तः समाधिरानिमित्तश्चतुराकारः । निर्वाणं
हि दशनिमित्तापगतत्वादनिमित्तम् । तदालम्बनः समाधिरानिमित्तः ।
पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश ।
शून्यतानात्मशून्यतः ।
प्रवर्त्तते,
अनात्मशून्यताकाराभ्यां सम्प्रयुक्तः शून्यतासमाधिर्द्व्याकारः ।
अप्रणिहितः सत्याकारैरतः परैः ॥ २४ ॥
अत एव दुःखा प्रतिपदिति । अत एव हि संस्कारवाहित्वा-
वितर्कमात्रप्रतिषेधादिति । “अतर्कं ध्यानमन्तरम्” ( अभि० को० ८.२२ ,
इति वचनात् ॥ २३ ॥
तदालम्बनः समाधिरानिमित्त इति । अनिमित्ते भव आनिमित्तः ।
११६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
परैः शेषैः सत्याकारैः समाधिरप्रणिहितो दशाकारः। अनित्य-
दुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतयाऽवश्यत्याज्यत्वात् तदाकारः
समाधिरप्रणिहितः; तदतिक्रमाभिमुखत्वात्।
शून्यतानात्मताभ्यां तु नोद्वेग; निर्वाणसामान्यात् ॥ २४ ॥
त एते त्रयः समाधयो द्विविधाः-
शुद्धाऽमलाः,
शुद्धकाश्च, अनास्रवाश्च; लौकिकलोकोत्तरत्वात्। लौकिका
एकादशसु भूमिषु। लोकोत्तरा यत्र मार्गः।
दशाकार इति। अनित्यदुःखाकारौ द्वौ, समुद्रायाकाराश्चत्वारः,
मार्गाकाराश्चत्वारः-इत्येते दश आकाराः। अनित्यदुःखतद्धेतुभ्य उद्वेगा-
दिति। अनित्याद् दुःखात्, तद्धेतोश्च। तस्य दुःखस्य हेतोश्च समुदाया-
दुद्वेगात्। किम्? अप्रणिहितः। अकृतसंस्कार इत्यर्थः। मार्गस्य कोलो-
पमतयाऽवश्यत्याज्यत्वात्। कोल उच्यते उडुपः। स उपमा अस्येति
कोलोपमः मार्गः, तद्भावस्तया। कोलोपमतया मार्गस्यावश्यत्याज्यत्वम्,
तस्मात्। अप्रणिहित इत्यधिकृतः। यथा हि कोलमाश्रित्य नदीमुत्तरन् न
कोलनिष्ठो भवति, तस्यावश्यत्याज्यत्वात्; एवं मार्गमाश्रित्य न मार्गनिष्ठो
भवति, तस्यावश्यत्याज्यत्वात्। तदाकार इति। तद्दशाकारो यथोक्तः।
तदतिक्रमाभिमुखत्वादिति। तस्य मार्गस्यातिक्रमेऽभिमुखत्वात्। अनेना-
वश्यत्याज्यत्वमस्य दर्शयति। अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्यनुक्त-
मप्येतद् गम्यत एव। शून्यतानात्मताभ्यां तु नोद्वेग इति। शून्यानात्मा-
काराभ्यां तु नोद्वेगो योगिनो भवति। यद्यपि हि दुःखसत्यं शून्यानात्मा-
काराभ्यामाकार्यते, न तु ताभ्यां तस्माद् दुःखादुद्वेगः। कस्मात्?
निर्वाणसामान्यात्। निर्वाणमपि शून्यानात्मलक्षणम्। शून्यताऽनात्मता
हि सर्वधर्माणां लक्षणमिति। न च ताभ्यां तस्मान् निर्वाणाद् उद्वेगः।
तस्मान्न तदाकारोऽप्रणिहितसमाधिरिति ॥ २४ ॥
लौकिका एकादशस्विति। कामधातावनागम्ये ध्यानान्तरे, ध्याना-
रूप्येषु चेति। यत्र मार्ग इति। कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु
भूमिषु।
निर्देशः ] अष्टमं कोशस्थानम् ११६५
निर्मलास्तु ते विमोक्षमुखत्रयम् ।
अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते । शून्यता
विमोक्षमुखम्, अप्रणिहितम्, आनिमित्तं विमोक्षमुखमिति; मोक्षद्वारत्वात् ।
पुनश्चोच्यन्ते—
शून्यताशून्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ २५ ॥
शून्यताशून्यता, अप्रणिहिताप्रणिहितः, आनिमित्तानिमित्तश्च ।
शून्यताद्यालम्बनत्वात्तन्नाम ॥ २५ ॥
तेषां पुनः—
आलम्बेते अशैक्षं द्वौ शून्यता¹ चाप्यनित्यतः¹ ।
अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं
शून्यतासमाधिमालम्बते शून्यताकारेण । अप्रणिहिताप्रणिहितोऽप्यशैक्षम-
मोक्षद्वारत्वादिति । द्वारार्थो मुखार्थ इति दर्शयति ॥
शून्यताद्यालम्बनत्वात्तन्नामेति । शून्यताप्रणिहितानिमित्तालम्ब-
नत्वात् ।
शून्यताशून्यतेति नाम । अप्रणिहिताप्रणिहितेति अनिमित्तानिमित्तेति
च ॥ २५ ॥
“शून्यता चाप्यनित्यतः” इति । यथासङ्ख्येन । शून्यताशून्यता हि
शून्यताकारेणाशैक्षं शून्यतासमाधिमालम्बते । नायमात्मीयमिति । नात्मा-
कारेण ।
आह—किमत्र कारणं यच्छून्यताशून्यतासमाधिः शून्यताकार एव,
न पुनरनात्माकारोऽपि शून्यतावदिति ? अत्रोच्यते—शून्यताकारप्रवृत्त-
शून्यतापृष्ठोत्पाद्यत्वात् । आह—किमर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठे-
नोत्पत्तिः, न पुनरनात्माकारप्रवृत्तशून्यतापृष्ठेनेति ? अत्रोच्यते—तदुत्पत्त्या-
नुकूल्यात् । स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस्तस्य शून्यता-
शून्यतासमाधेरुत्पत्तौ आनुकूल्येनावतिष्ठते, नानात्माकारः । न ह्येवम्
अनात्मदर्शनमुद्वेजयति, यथा शून्यतादर्शनम् । दृष्टेष्वपि हि अनात्मतो
१-१. शून्यतश्चाप्यनित्यतः—का० ।
प्रणीततश्चानित्याकारेण। न दुःखतो न हेत्वादितोऽनास्रवस्यातल्लक्षणत्वान्न
मार्गकारैः दूषणीयत्वात्।
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम्' ॥ २६ ॥
आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोध-
मालम्बते। शान्ताकारेण; अनास्रवस्य प्रतिसंख्यानिरोधाभावात्।
भवेष्वभिरति रस्तः संसारे शून्यतादर्शनाभावात्। तद्यथा अध्वगस्यासम्बन्धाद्
अध्वगदर्शनादपि प्रीतिः। एकाकिनस्तु तच्छून्यत्वादप्रीतिरिति, तद्वत्।
अनित्याकारेणेति। दशानामाकाराणाम्। न दुःखत इति विस्तरः।
न दुःखत आकारयन्ति, अनास्रवस्यातल्लक्षणत्वात्। आर्यप्रतिकूलतया हि
दुःखमिष्यते, न हेतुसमुदयप्रभव-प्रत्ययाकारैरनास्रवस्यातल्लक्षणत्वादेव,
अनास्रवस्यासमुदयादिलक्षणत्वादित्यर्थः। न मार्गाकारैर्द्रूषणीयत्वादिति।
सोऽशैक्षः समाधिर्दुषयितव्यः, न च मार्गाकारा दूषणरूपा इति। अतो न
मार्गाकारैस्तं समाधिमालम्बते। निरोधाकारैस्तु नैव सम्बन्ध इति। न
तैश्चिन्त्यते। पारिशेष्यादनित्याकारेणैव।
असंख्यया क्षयमिति। अप्रतिसंख्यानिरोधमित्यर्थः। अशैक्षस्या-
निमित्तस्य समाधेर्लक्षणविशेषधर्ममालम्बते। शान्ततः। शान्तोऽयमिति।
कथं तस्याप्रतिसंख्यानिरोधः ? अशैक्षादनिमित्तात् समाधेर्व्युत्थितस्य तद-
नन्तरं ये सास्रवाः क्षणा अतिक्रामन्ति, अन्ये चानास्रवाः। यदि ते
नोत्पन्नाः स्युः, अशैक्षा अनिमित्तक्षणा उत्पन्नाः स्युः। तेषां सास्रवाणाम्,
अन्यानास्रवाणां चोत्पत्तिकाल तेषामशैक्षाणामानिमित्तक्षणानाम् अप्रति-
संख्यानिरोधो लभ्यते; प्रत्ययवैकल्यात्। तमप्रतिसंख्यानिरोधमालम्बते
शान्ताकारेण; 'अनास्रवस्य प्रतिसंख्यानिरोधाभावात्। न प्रतिसंख्या-
निरोधमालम्बते। कस्मात् पुनरनास्रवस्य प्रतिसंख्यानिरोधो नास्ति ?
अप्रतिकूलत्वात्। यद्धि प्रतिकूलमार्याणाम्, तत्संयोगस्य विसंयोगाय यतस्ते
यतन्ते। विसंयोगश्च प्रतिसंख्यानिरोधः। अतोऽनास्रवस्य न प्रतिसंख्या-
निरोधः। किञ्च—अशैक्षस्यानिमित्तस्य समाधेः प्रतिसंख्यानिरोधाभावात्,
अप्रतिसंख्यानिरोधस्य च तत्प्रत्यर्थिकभूतत्वात्, तत्प्रोत्साहनेनैव तद्वि-
दूषणमभिलषन् तदप्रतिसंख्यानिरोधमेवालम्बते। शत्रुप्रग्रहेण हि लोके
मार्गोपघातः क्रियमाणो दृश्यत इति। न निरोधप्रणीतनिःसरणाकारैरिति ।
१. ०संख्येया क्षयम्—जा०।
निर्देशः ] अष्टमं कोशस्थानम् ११३७
न निरोधप्रणीतनिःसरणाकारैः, अनित्यतानिरोधसाधारणत्वाद्, अव्या-
कृतत्वाद्, अविसंयोगाच्च ॥ २६ ॥
एकान्तेन चैते परसमाधयः—
सास्रवाः,
आर्यमार्गद्वेषित्वात् । नह्येवमनास्रवा इति ।
कुत्रोत्पद्यन्ते ?
नृषु,
मनुष्येष्वेव, न देवेषु ।
कस्योत्पद्यन्ते ?
अकोप्यस्य,
नान्यस्यार्हतः ।
कतिभूमिकाः ?
निरोधः साधारणः, न निरोध इति तद्भावः, तस्मात् । अनित्यतानिरोध-
साधारणत्वाद् । अयमप्रतिसंख्यानिरोधः, न निरोधाकारेणाकार्यते । अन्यथा
हि शान्ताकारेण तद्विशिष्टेन नालम्बितः स्यात् । निरोधाकारेण हि
अनित्यतानिरोधेनैव दूषित एवासौ अप्रतिसंख्यानिरोधः स्यात् । तद्-
दूषणेन नाशैश्र अनिमित्तसमाधिदूषितः स्यादित्यभिप्रायः । न प्रणीता-
कारेण; अव्याकृतत्वाद् अप्रतिसंख्यानिरोधस्य । कुशलं हि प्रणीतम्,
नाव्याकृतम् । अतो न प्रणीताकारेणालम्बते । अविसंयोगाच्च । अप्रतिसंख्या-
निरोधस्य । न निःसरणाकारेण तमालम्बते । संक्लेशवियोगो हि संक्लेश-
निःसरणमिष्यते । यस्मान्नाप्रतिसंख्यानिरोधेन संसारनिःसरणं भवति ।
तथा हि सत्यपि अप्रतिसंख्यानिरोधे केषाञ्चित् कुशलाकुशलानां धर्माणां
तैः सम्प्रयुक्त एव, तत्प्राप्त्यविच्छेदात् ॥ २६ ॥
आर्यमार्गद्वेषित्वादिति । कथं द्वेष्टि ? शून्यतादिभिराकारैस्त-
द्वैमुख्यात् ।
“अकोप्यस्य” इति । अकोप्यधर्मणः । तस्य तीक्ष्णेन्द्रियत्वात्
तदुत्पादने सामर्थ्यमस्ति, नान्यस्यार्हतः । तेभ्यो दृष्टधर्मसुखविहारत्वात्
११६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
सप्तसामन्तवर्जिताः ।
सप्त सामन्तकानि हित्वाऽन्यास्वेकादशसु भूमिषु । कामधात्वनाग-
म्यध्यानान्तरध्याना रूप्येषु ।
पुनश्चतस्रः समाधिभावना उच्यन्ते । "अस्ति समाधिभावना आसेविता
भाविता बहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते" इति विस्तरः । तत्र—
समाधिभावना ध्यानं शुभमार्धं सुखाय हि ॥ २७ ॥
कुशलं प्रथमं शुद्धकमनास्रवं दृष्टधर्मसुखविहाराय ˙समाधिभावना ।
तदादिकत्वादन्यान्यपि¹ ज्ञेयानि । नावश्यं सम्परायसुखविहाराय; अपरि-
त्रासङ्गास्पदभूतेभ्योऽशैक्षेभ्यः शून्यतादिसमाधिभ्यो वैमुख्यार्थमपरसमाधीन्
समापद्यन्ते ।
विस्तर इति । "अस्ति समाधिभावना आसेविता भाविता बहुलीकृता
दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तते । अस्ति
निर्देशः ] अष्टमं कोशस्थानम् ११६६
हीनोर्ध्वोपपन्नपरिनिवृतानां च१ तदभावात् ॥ २७ ॥
दर्शनायाक्ष्यभिज्ञेष्टा,
दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना ।
धीभेदाय प्रयोगजाः ।
प्रयोगजाः सर्वे गुणास्त्रैधातुकानस्रवाः प्रज्ञाप्रभेदाय समाधि-
भावना ।
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षमभावना ॥ २८ ॥
यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।
आत्मोपनायिका२ किलैषा भगवतो धर्मोपदेशना३ । अतश्चतुर्थं४
एवाह ॥ २८ ॥
कृतः समाधीनां कालगतो निर्देशः ॥
ऊर्ध्वोपपन्नानां द्वितीयादिषु । परिनिर्वृतानां च सम्परायसुखविहार-
स्याभावात् ॥ २७ ॥
ज्ञानदर्शनायेति । ज्ञानाय, दर्शनाय चेति समासः । तत्र ज्ञानं
मनोविज्ञानसम्प्रयुक्ता प्रज्ञा । “अमी भवन्तः सत्त्वाः कायदुश्चरितेन
समन्वागताः” इत्येवमादि विकल्पात् । दर्शनं चक्षुर्विज्ञानसम्प्रयुक्ता प्रज्ञा
अविकल्पिका ।
त्रैघातुका अनास्रवा इति । त्रैघातुका अशुभानापानस्मृत्यरण-
प्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः । अनास्रवा विमोक्ष-
सुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः । अत्र तु समाधिसम्प्रयोगात्
प्रायोगिकानां गुणानां समाधिभावनेत्युपचारः । प्रज्ञाप्रभेदायेति । प्रज्ञा-
विशेषकर्षाय । आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति । आत्मन
उपनायिका, आत्मनो देशिकेत्यर्थः । बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय
चक्षुषा सत्त्वान् च्युत्युपपत्तिसङ्कटस्थान् अभिवीक्ष्य तत्परित्राणाय मध्यमे
यामे ध्यानविमोक्षसमापत्तीः सम्मुखीकृतवान् । तेऽस्य प्रायोगिका गुणाः
प्रज्ञाप्रभेदाय जायन्ते । ततः तृतीये यामे चतुर्थं ध्यानं निःसृत्य नियाम-
मवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवानिति ।
१. का० पुस्तके नास्ति । ३. धर्मदेशना—का० ।
२. ०पनायिकी—का० । ४. ०श्रतुर्थं—का० ।
११७० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
इदानीं समाधिसन्निश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते—
अप्रमाणानि चत्वारि,
मैत्री, करुणा, मुदिता, उपेक्षा च; अप्रमाणसत्त्वालम्बनत्वात् ।
किमर्थं चत्वार्येव ?
व्यापादादिविपक्षतः ।
व्यापदविहिंसाऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि
यथासंख्यम् ।
अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः ? वर्णरागस्याशुभा
मैथुनरागस्योपेक्षेति वैभाषिकाः ।
एवं तु युज्यते—मैथुनरागस्याशुभा, मातापितृपुत्रज्ञातिरागस्योपेक्षेति ।
तत्र
मैत्र्यद्वेषः,
अद्वेषस्वभावा मैत्री ।
अपि करुणा,
करुणाप्येवम् ।
मुदिता सुमनस्कता ॥ २९ ॥
सौमनस्यस्वभावा मुदिता ॥ २९ ॥
यस्माच्चैवमात्मोपनायिका धर्मदेशना, अतश्चतुर्थ एव । "वज्रोपमोऽन्त्ये
यो ध्याने" इति ॥ २८ ॥
अप्रमाणसत्त्वालम्बनादिति । अप्रमाणसंज्ञाकरणे कारणमेतत् ।
यथासंख्यमिति । व्यापादबहुलानां तत्प्रहाणाय मैत्री । विहिंसा-
बहुलानां तत्प्रहाणाय करुणा । अरतिबहुलानां तत्प्रहाणाय मुदिता ।
कामरागव्यापादबहुलानां तत्प्रहाणायोपेक्षेति । कामरागप्रतिपक्षत्वे को
विशेष इति । कामरागबहुलान्¹ प्रति चिन्ता । मातापितृपुत्रज्ञातिराग-
स्योपेक्षेति । यथैवासम्बद्धाः पुरुषाः, एवमेवैते इत्युपेक्षेत्यभिप्रायः ॥ २६ ॥
१. ०बहुलात्—जा० ।
निर्देशः ] : अष्टमं कोशस्थानम् ११७१
उपेक्षाऽलोभः,
अलोभात्मिकोपेक्षा ।
कथं व्यापादप्रतिपक्षः ? तस्य लोभाकृष्टत्वात् । उभयस्वभावा
त्वसौ युज्यते ।
एषां तु मैत्र्यादीनाम्
आकारः सुखिता दुःखिता बत ।
मोदन्तामिति सत्त्वाश्च,
'सुखिता बत सत्त्वाः' इति मनसिकुर्वन् मैत्रीं समापद्यते । 'दुःखिता
बत सत्त्वाः' इति करुणां, 'मोदन्तां बत सत्त्वाः' इति मुदिताम्, 'सत्त्वाः'
इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते; माध्यस्थ्यात् ।
अतद्गतां१ सुखाधिमोक्षत्वात् कथं न विपरीतत्वं भवति ? सन्त्वित्य-
तस्य लोभाकृष्टत्वादिति । यस्माल्लोभाकृष्टो व्यापादस्तस्माल्लोभ-
प्रतिपक्षतां भजते इत्यभिप्रायः । उभयस्वभावा२ तु असौ युज्यते इति ।
अलोभस्वभावा च, अद्वेषस्वभावा च युज्यते इत्यर्थः । किं कारणम् ?
रागद्वेषयोः प्रतिपक्षत्वात् । अतस्तु नैको धर्मः उभयस्वभाव इति
ग्रहीतव्यम् । किं तर्हि ? अलोभाद्वेषयोरुपेक्षाशब्दो वर्तते इति ।
सुखिता बत सत्त्वा इति । सन्तु इत्यभिप्रायः । दुःखिता बत सत्त्वा
इति । दुःखिता दुःखाद् विमुच्यन्ताम्—इत्यभिप्रायः । तथा हि व्याख्या-
स्यते—व्यापादादयः क्लेशोपक्लेशाः दूरीक्रियन्ते, अतस्तत्प्रतिपक्षत्वमुक्तम् ।
कथमिति ? दर्शयति—कामधातुभूमिकानि अनागम्यभूमिकानि च मैत्र्या-
दीनि त्रीणि मौलाप्रमाणसदृशानि विद्यन्ते । प्रयोगालम्बनाकारस्वभाव-
सादृश्यात् मौलैः सदृशानि भवन्ति । तैरप्रमाणैस्त्रिभिस्तान् क्लेशान्
विष्कम्भ्य प्रहाणमार्गः । मैत्री विहिंसाबहुलानां तत्प्रहाणाय । माध्य-
स्थ्यादिति । अपक्षपातित्वेनापि अनुनीतः, नापि प्रथित इत्यर्थः ।
अतद्गतामिति विस्तरः । असुखवतां सुखमस्तीत्यधिमोक्षात् कथं न
विपरीतत्वं भवति । सन्तु—इत्यभिप्रायादिति । सुखिताः सन्त्वित्यभिप्रायात् ।
१. अश्रद्धतां—जा० । २. ०स्वभावात्—जा० ।
११७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
भिप्रायात् । आशयस्याविपरीतत्वाद् वा; अधिमुक्तिसंज्ञानात् ।
अथ वा क एवं विपरीतत्वे दोषः ? अकुशलत्वमिति चेत्, न;
कुशलमूलत्वात्, व्यापादादिप्रतिपक्षत्वाच्च ।
उक्त एषामाकारः ॥
कामसत्त्वास्तु गोचरः ॥ ३० ॥
कामावचराः सत्त्वा एषामालम्बनम्; तदालम्बनानां व्यापादादीनां
प्रतिपक्षत्वात् ।
यत्तूक्तम्—एकां दिशमधिमुच्येतेति ? तद्भाजनेन भाजनगतं
दर्शितम् ॥ ३० ॥
कतिभूमिकान्येतानि ?
ध्यानयोर्मुदिता,
प्रथमद्वितीयध्यानयोर्मुदिता; सौमनस्यत्वात् ।
अन्यानि षट्सु,
न विपरीतत्वमित्यभिप्रायः । आशयस्याविपरीतत्वाद्वेति । अस्य कुशल-
धर्माः सुखिता बत सत्त्वा इत्येते चित्तचैत्ताः सपरिवाराः । अस्याशयस्या-
विपरीतत्वान्न विपरीतत्वं भवति ।
कथं पुनरस्याशयस्याविपरीतत्वादिति ? आह ? अधिमुक्तिसंज्ञानादिति ।
अधिमुक्तेः संज्ञानम् अधिमुक्तिसंज्ञानं तस्मात् । यस्मात् तामधिमुक्तिं तथैव
सञ्जानीते । आधिमोक्षिकोऽयं मनस्कार इति परिच्छिनत्ति । अकुशलत्व-
मिति । विपरीतग्रहणातः । न; कुशलत्वात् । नैतदेवम्; कस्मात् ? कुशल-
मूलत्वात् । कथं पुनः कुशलमूलम् ? इत्याह—व्यापादादिप्रतिपक्षत्वादिति ।
अद्वेषस्वभावत्वात् मैत्री व्यापादप्रतिपक्षः । दुःखापनयनाकारत्वाच्च करुणा
दुःखोपसंहाराकाराया विहिंसायाः प्रतिपक्षो भवति । मुदिता च अरतेः
प्रतिपक्षः; सौमनस्यरूपत्वात् । उपेक्षा च माध्यस्थ्यात् कामरागव्यापादयोः
प्रतिपक्ष इति ।
तदालम्बनानामिति । कामावचरसत्त्वालम्बनानामित्यर्थः ।
तद्भाजनेन भाजनगतं दर्शितमिति । स्थानेन स्थानीयसत्त्वलोको ।
दर्शित इत्यर्थः ॥ ३० ॥
निर्देशः ] अष्टमं कोशस्थानम् ११७३
अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु, अनागम्ये ध्यानान्तरे
ध्यानेषु च; सप्रयोगमौलग्रहणात् ।
केचित् तु पञ्चसु ।
केचित् पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति ।
दशस्वित्यपरे । कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहित-
मौलप्रयोगग्रहणात् ।
यदुक्तम् - "व्यापादादिविपक्षतः"
किमप्रमाणैरपि क्लेशप्रहाणं भवति ?
न तैः प्रहाणम् ,
मौलध्यानभूमिकत्वात्, अधिमुक्तिमनस्कारत्वात्, सत्त्वालम्बनत्वाच्च ।
तत्प्रयोगेण तु व्यापादादिविष्कम्भणात् तत्प्रतिपक्षत्वमुक्तम् । प्रहीण-
दूरीकरणाच्च१ । कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाण-
समाहितासमाहितमौलप्रयोगग्रहणादिति । षट्-पञ्च-दशभूमिकत्वात्
त्रयाणामपि कारणमुच्यते सम्भवतः । तत्रासमाहितः कामधातुः । प्रयोगाः
सामन्तकानीति सम्भवतो योज्यम् । षड्भूमिकव्यवस्थाने अनागम्यसामन्त-
कमपीष्यते । सामन्तकान्यपि प्रयोगभूतानि गृह्यन्ते । किमङ्ग मौलानीति ।
मौलध्यानभूमिकत्वादिति । मौल-शुद्धक-ध्यानभूमिकत्वादित्यर्थः ।
न हि शुद्धकैमौलध्यानैः क्लेशाः प्रहीयन्ते - इत्युक्तं प्राक् । अधिमुक्ति-
मनस्कारत्वान्न तैः क्लेशाः प्रहीयन्ते । तत्त्वमनस्कारेण हि क्लेशप्रहाणम् ।
सत्त्वालम्बनत्वाच्च न तैः प्रहाणम् । धर्मसामान्यलक्षणमनस्कारेण हि
क्लेशप्रहाणमिति सिद्धान्तः ।
कथं तर्हि ? इत्याह-तत्प्रयोगेण त्विति विस्तरः । मैत्र्यादिप्रयोगेण
व्यापादादिविष्कम्भनात् तत्प्रतिपक्षत्वमुक्तमिति । व्यापादादिप्रतिपक्षत्व-
मुक्तम् । विष्कम्भणप्रहाणानि तानीत्यर्थः । प्रहीणदूरीकरणाच्चेति ।
यस्मादानन्तर्यमार्गैर्लौकिकैः लोकोत्तरैर्वा मार्गैः व्यापादादयः क्लेशोपक्लेशाः
दूरीक्रियन्ते, अतस्तत्प्रतिपक्षत्वमुक्तम् । कथम् ? इति दर्शयति-कामधातु-
भूमिकानि अनागम्यभूमिकानि च मैत्र्यादीनि त्रीणि मौलाप्रमाणसदृशानि
१. प्रहाण०-का० ।
११७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
सदृशानि संविद्यन्ते । तैस्तान् विष्कम्भ्य प्रहाणमार्गैः प्रजहाति । ततो
वीतरागावस्थायां मौलाप्रमाणलाभात् । बलवत्प्रत्ययलाभेऽपि तैरनाधृष्यो
भवति ।
कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते ? यथा सुखितमात्मानं मन्यते
परान् वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते
एवं सुखिता बत सन्तु इति । न चेच्छक्नोति क्लेशस्योद्भूतवृत्तित्वात् स
मित्रपक्षं त्रिधा भित्त्वाऽधिमात्रे तत्सुखमधिमुच्यते । ततो मध्ये मृदौ च ।
तेषु चेत् समां मैत्रीं लभते तत उदासीनपक्षे । ततः शत्रुपक्षं त्रिधा भित्त्वा
मृदौ तत् सुखमधिमुच्यते । ततो मध्येऽधिमात्रे च । ततश्चेदधिमात्र इव
मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते । ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो
यावदेकां दिशं यावत् सर्वं लोकं मैत्र्या स्फरति । यस्तु सर्वगुणग्राही स मैत्रीं
क्षिप्रमुत्पादयति । शक्यं हि समुच्छिन्नकुशलमूलेऽपि गुणग्राहिणा भवितुम्,
प्रत्येकबुद्धे च दोषग्राहिणा; पूर्वपुण्यापुण्यफलसंदर्शनात्¹ ।
एवं करुणायां मुदितायां च प्रयुज्यते । अमी सत्त्वा बहुविधव्यसनौध-
निमग्ना अप्येव दुःखाद्विमुच्येरन्, अप्येवाभिप्रमोदेरन्² इत्यधिमुच्यमान
उपेक्षां तूदासीनपक्षादारभते ।
एतानि चाप्रमाणानि
नृष्वेव जन्यन्ते,
संविद्यन्ते; प्रयोगलम्बनाकारस्वभावसादृश्यान् मौलैः सदृशानि भवन्ति ।
तैरप्रमाणैः त्रिभिस्तान् क्लेशान् विष्कम्भ्य प्रहाणमार्गैः आनन्तर्यमार्गैः
प्रजहाति । बलवत्प्रत्ययलाभेऽपीति । व्यापादादिप्रत्ययलाभेऽपि बलवति
सति तैः क्लेशैरनाधृष्यो भवति । सम्मुखीभावात् ।
अधिमात्र इति । मित्रपक्षे । परममित्रे हि सुकरा मैत्री । स्फरतीति ।
व्याप्नोति । पूर्वपुण्यापुण्यफलसन्दर्शनादिति । पूर्वपुण्यफलमन्दर्शनात्
समुच्छिन्नकुशलमूलेऽपि पुद्गले शक्यं गुणग्रहणेनानेन भवितुं ‘पुण्यमनेन
कृतमासीद् येनास्य रूपादिम्पद्’ इति । प्रत्येकबुद्धे च दोषग्राहिणा ‘नूनमनेन
अपुण्यं कृतमासीद् येनास्यैवं रूपादिवैकल्यम्’ इति ।
अप्येव दुःखाद् विमुच्येरन् इत्यधिमुच्यमानः करुणायां प्रयुज्यते ।
अप्येवाभिप्रमोदेरन्निति अधिमुच्यमानो मुदितायां प्रयुज्यते ।
१. पूर्व—का० । २. ०वातिप्रमो०-का० ।
निर्देशः ] अष्टमं कोशस्थानम् ११७५
मनुष्येषूत्पाद्यन्ते, नान्यत्र ।
किं पुनर्य एकेनाप्रमाणेन समन्वगतः सोऽवश्यं सर्वैः ? किन्तु
त्र्यन्वितो ध्रुवम् ॥ ३१ ॥
तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वगतो भवति । त्रिभिस्त्व-
प्रमाणालाभी नित्यं समन्वगतो भवति ॥ ३१ ॥
अष्टौ विमोक्षाः,
‘रूपी रूपाणि पश्यति’ इति प्रथमो विमोक्षः । ‘अध्यात्मरूपसंज्ञी बहिर्द्धा
रूपाणि पश्यति’ इति द्वितीयः । ‘शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य
विहरति’ इति तृतीयः । चत्वार आरूप्याः । संज्ञावेदितनिरोधश्चाष्टमः ।
तेषाम्
प्रथमावशुभा,
मुदितया न समन्वगत इति । तृतीयचतुर्थयोः सौमनस्या-
भावात् ॥ ३१ ॥
“अष्टौ विमोक्षाः” इति । यथासूत्रम् । “अष्टौ विमोक्षाः । कतमे-
ऽष्टौ ? ‘रूपी रूपाणि पश्यति’ इत्ययं प्रथमो विमोक्षः । ‘अध्यात्ममरूपसंज्ञी
बहिर्द्धा रूपाणि पश्यति’ इत्ययं द्वितीयो विमोक्षः । ‘शुभं विमोक्षं कायेन
साक्षात् कृत्वोपसम्पद्य विहरति’ इत्ययं तृतीयो विमोक्षः । ‘सर्वशो रूप-
संज्ञानां समतिक्रमात्, प्रतिघसंज्ञानामस्तङ्गमात्, नानात्वसंज्ञानाममनसिकारात्
‘अनन्तमाकाशम्, अनन्तमाकाशम्’ इत्याकाशानन्त्यायतनमुपसम्पद्य
विहरति, तद्यथा--देवा आकाशानन्त्यायतनोषगाः—अयं चतुर्थो विमोक्षः ।
पुनरपरं सर्वश आकाशानन्त्यायतनं समतिक्रम्य ‘अनन्तं विज्ञानम्, अनन्तं
विज्ञानम्’ इति विज्ञानानन्त्यायतनमुपसम्पद्य विहरति, तद्यथा--देवा विज्ञाना-
नन्त्यायतनोषगाः—अयं पञ्चमो विमोक्षः । पुनरपरं सर्वशो विज्ञाना-
नन्त्यायतनं समतिक्रम्य ‘नास्ति किञ्चिद्’ इत्याकिञ्चन्यायतनमुपसम्पद्य
विहरति, तद्यथा--देवा आकिञ्चन्यायतनोषगाः—अयं षष्ठो विमोक्षः ।
पुनरपरं सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसम्पद्य
विहरति, तद्यथा--देवा नैवसंज्ञानासंज्ञायतनोपगाः—अयं सप्तमो विमोक्षः ।
पुनरपरं सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदितनिरोधंकायेन
साक्षात्कृत्वोपसम्पद्य विहरति—अयमष्टमो विमोक्षः” ( ) इति ।
रूपी रूपाणीति । स्वात्मनि रूपाणि विभाव्य बहिरपि रूपाणि
अभि० को० ४ : १०
११७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [समापत्ति-
प्रथमौ द्वौ विमोक्षावशुभास्वभावौ; विनीलकाद्यालम्बनत्वात्¹। अत
एतयोरशुभावन्नयो वेदितव्यः। एतौ च
ध्यानयोर्द्वयोः।
प्रथमद्वितीययोर्ध्यानयोः, नान्यस्यां भूमौ। कामावचरप्रथमध्यानभूमि-
कयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम्।
तृतीयोऽन्त्ये,
शुभो विमोक्षश्चतुर्थध्याने।
स चालोभः,
सोऽप्यलोभस्वभावो न त्वशुभास्वभावः; शुभाकारत्वात्। सपरि-
वारास्त्वेते पञ्चस्कन्धस्वभावाः। आरूप्यविमोक्षास्तु
शुभारूप्याः समाहिताः ॥ ३२ ॥
कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते, न क्लिष्टा
नाप्यसमाहिताः; तद्यथा मरणभवे।
पश्यति; विनीलकाद्यालम्बनत्वात्। अशुभावन्नयो वेदितव्य इति।
अस्थिरागस्य वर्णरागादिप्रतिपक्षमारभ्य सम्भवतो विस्तरेण योज्यम्।
"अलोभा दशभूः कामदृश्यालम्बा नृजा शुभा" (अभि० को० ५.१२)
इति।
यथासंख्यमिति। कामावचरस्य वर्णरागस्य प्रतिपक्षेण प्रथमध्यान-
भूमिको विमोक्षः। प्रथमध्यानभूमिकस्यापि वर्णरागप्रतिपक्षेण द्वितीय-
ध्यानभूमिको विमोक्षः। एतौ च द्वौ पुनर्द्दूरीभावप्रतिपक्षौ वेदितव्यौ।
आह—द्वितीयादिध्यानेषु वर्णरागो नास्तीति कथं गम्यते?
चक्षुर्विज्ञानाभावात्। यो हि यस्माद् विषयाद् विरक्तः, नियतमसौ तद्-
ग्राहकादपि विज्ञानाद् विरक्तः, द्वितीयादिषु च ध्यानेषु चक्षुर्विज्ञानादि
नास्ति, इत्यतो वर्णवीतरागास्ते—इति सिद्धम्।
"शुभारूप्याः" इति। शुद्धकानास्स्रवाः।
१. ०द्याकारत्वात्—का०।
निर्देशः ] अष्टमं कोशस्थानम् ११७७
अन्यदाप्यसमाहिताः सन्तीत्यपरे । सामन्तकविमुक्तिमार्गा¹ अपि
विमोक्षाख्यां लभन्ते, नानन्तर्यमार्गाः; अधरालम्बनत्वात् । वैमुख्यार्थो हि
विमोक्षार्थ इति ॥ ३२ ॥
निरोधस्तु समापत्तिः,
संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः । सा च
पूर्वं निर्दिष्टा । संज्ञावेदितवैमुख्यात्, सर्वसंस्कृताद्वा ।
समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे ।
तां तु समापद्यन्ते
सूक्ष्मसूक्ष्मादनन्तरम् ।
भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते ।
समापन्नानां तु
स्वशुद्धकाधराद्वयेण व्युत्थानं चेतसा ततः ॥ ३३ ॥
भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन-
भूमिकेन वा सास्रवेण । तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति,
सास्रवानान्तर्यं तु व्युत्थानचित्तमिति ॥ ३३ ॥
अन्यदाप्यसमाहिताः सन्तीति । आरूप्येषु विपाकजान् चित्तचैत्तान्
अभिसन्धायोच्यते । पूर्वस्मिंस्तु पक्षे मरणभवावस्थायामेवासमाहिता
आरूप्या इति दर्शयति । सामन्तकविमुक्तिमार्गा अपि विमोक्षाख्यां
लभन्त इति । किमङ्ग मौला इत्यपि-शब्दार्थः । नानन्तर्यमार्गे इति विस्तरः ।
यस्माद् अधरभूमिवैमुख्याद् विमोक्षा इत्युच्यन्ते, तस्माद् आनन्तर्यमार्गा न
विमोक्षाख्यां लभन्ते; अधरालम्बनत्वात् । विमुक्तिमार्गास्तु लभन्ते;
ऊर्ध्वालम्बनत्वात् ॥ ३२ ॥
“निरोधस्तु समापत्तिः” । अष्टम इति वाक्यशेषः । संज्ञावेदित-
वैमुख्यादिति । संज्ञावैमुख्यात्, वेदितवैमुख्याच्च विमोक्षः । सर्वसंस्कृताद्वा ।
वैमुख्याद् विमोक्षः ।
समापत्त्यावरणविमोक्षणाद् विमोक्ष इति । समापत्त्यावरणविमोक्ष-
वैमुख्यात् विमोक्ष इति । तत्र समापत्त्यावरणम्—यस्मिन्नावरणे चित्ताकर्मण्यता
त्रिधातुकवीतरागा अपि सन्तः प्रथममपि मौलं ध्यानं नोत्पादयन्ति ॥ ३३ ॥
१. ०विमुक्त०—जा० ।
११७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
एषां च विमोक्षाणाम्—
कामाप्तदृश्यविषयाः प्रथमाः,
कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम्।
ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ३४ ॥
आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चाल-
म्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः। अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं
चैकस्येति । कस्मान्न तृतीये ध्याने विमोक्षः । द्वितीयध्यानभूमिकवर्ण-
रागाभावात्, सुखमण्डेञ्जितत्वाच्च ।
यथायोगमिति । द्वयोर्विनीलकाद्यमनोज्ञं रूपमालम्बनम् । तृतीयस्य
मनोज्ञमालम्बनमिति ।
तद्धेतुनिरोधौ चेति । तस्य दुःखस्य समुदाय-निरोधौ । सर्वश्चान्वय-
ज्ञानपक्ष इति । ऊर्ध्वाधः स्वभूमिक इत्यर्थः । अप्रतिसंख्यानिरोधश्चेति ।
अप्रतिसंख्यानिरोधश्चारूप्यविमोक्षाणामालम्बनमिति वक्तव्यम् ।
“ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः” ।। इति अत्र वचनात् ।
आह—कतमः पुनरप्रतिसंख्यानिरोधस्तेषामालम्बनम् ? अत्रोच्यते—
अशैक्षस्यानिमित्तस्य समाधेरप्रतिसंख्यानिरोधमालम्बन्ते। एते हि आरूप्या
विमोक्षा अनिमित्तानिमित्तसमाधिस्वभावाः सम्भवन्ति । ते च सप्त
सामन्तकानि हित्वा अन्यास्वेकादशसु भूमिषु कामाधातावनागम्ये ध्यानान्त-
रेषु ध्यानायूप्येषु चाष्टास्विति । सोपसंख्यानं शास्त्रमिति शास्त्रलक्षणं
दर्शितं भवति । आकाशं चैकस्येति । वक्तव्यम्—आकाशानन्त्यायतनविमोक्ष-
स्यालम्बनम् । द्वितीयध्यानभूमिक-वर्णरागाभावादिति । द्वितीयध्यान-
भूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावादित्यर्थः । तदभावः कायिक-
विज्ञानाभावात् । सुखमण्डेञ्जितत्वाच्च । सुखस्य मण्डः । सर्वसुखस्योपरिस्थ-
सुखमित्यर्थः । तेनेञ्जितत्वात् कम्पितत्वात् । न तृतीये ध्याने विमोक्षो
व्यवस्थाप्यते ।
निर्देशः ] अष्टमं कोशस्थानम् ११७६
कस्माच्छुभं१ विमोक्षमुत्पादयति ? अशुभया लीनां सन्ततिं प्रमोदयितुं
जिज्ञासनार्थं वा । कच्चिदशुभाविमोक्षौ निष्पन्नाविति ।
एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतोऽपि मनसि कुर्वतः
क्लेशो नोत्पद्यत इति । द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पाद-
यन्ति—क्लेशदूरीकरणार्थम्, समापत्तिवशित्वार्थं च । अरणादिगुणाभि-
निर्हाराय आर्यायाश्च ऋद्धेः । सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गा-
दीनि क्रियन्ते ।
कस्मात् तृतीयाष्टमयोरेव साक्षात्करणमुक्तम्, नान्येषाम् ? प्रधा-
नत्वाद्, धातुभूमिपर्यन्तावस्थितत्वाच्च ।। ३४ ।।
यदि तृतीयध्यानभूमिको वर्णरागो नास्ति, कस्मात् शुभं विमोक्ष-
मुत्पादयतीति । अत आह—अशुभया लीनां सन्ततिं प्रमोदयितुं जिज्ञासनार्थं
वेति । विमोक्षादीनामिति । आदि-शब्देनाभिभ्वायतनाद्युपग्रहः । क्लेश-
दूरीकरणार्थम् । विमोक्षादीनां दूरीभावप्रतिपक्षत्वात् । समापत्तिवशित्वार्थं
च । तच्च समापत्तिवशित्वमरणादिगुणाभिनिहाराय भवति । आर्यायाश्च
ऋद्धेः । किम् ? अभिनिर्हारायेति प्रकृतम् । सा पुनर्यया वस्तुपरिणामा-
धिष्ठान-आयुरुत्सगार्दीनीति । तत्र वस्तुपरिणामम्—य
११८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
अभिभ्वायतनान्यष्टौ,
अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि
दुर्वर्णानि, तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यतीत्येवंसंज्ञी भवति—
इदं प्रथममभिभ्वायतनम् । एवमधिमात्राणि । अध्यात्ममरूपसंज्ञ्येवमेव ।
इत्येतानि चत्वारि ।
अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ
भवन्ति ।
तेषाम्
एवमधिमात्राणीति । "अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति ।
अधिमात्राणि सुवर्णदुर्वर्णानि"—इति विस्तरः । यावत्, "इदं द्वितीय-
मभिभ्वायतनम्" । अध्यात्ममरूपसंज्ञी एवमेवेति । कथम् ? "अध्यास्म-
मरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि" इति पूर्ववत्,
यावत्, "इदं द्वितीयमभिभ्वायतनम्" । तथा "अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यति अधिमात्राणि सुवर्णदुर्वर्णानि" इति पूर्ववत्, यावत्, "इदं
तृतीयमभिभ्वायतनम्" । तथा अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
अधिमात्राणि सुवर्णदुर्वर्णानि" इति पूर्ववत्, यावत् "इदं चतुर्थमभिभ्वा-
यतनम्" । इत्येतानि चत्वारि । अरूपसंज्ञी एव पुनर्नील-पीत-लोहिता-
वदातानि पश्यतीति । कथम् ? "अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि । तद्यथा—
उमकापुष्पं सम्पन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं
नीलनिर्भासं तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, एवं-
संज्ञी च भवति—इदं पञ्चममभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यति पीतानि पीतवर्णानि, पीतनिदर्शनानि पीतनिर्भासानि ।
तद्यथा—कर्णिकार-पुष्पं सम्पन्नं वाराणसेयं वा वस्त्रं पीतमिति विस्तरः—
इदं षष्ठमभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, तद्यथा
बन्धूक-पुष्पं सम्पन्नं वा वाराणसेयं वस्त्रं लोहितमिति विस्तरः—इदं
सप्तममभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
अवदातानि अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि, तद्यथा—
उशनस्तारकासम्पन्नं वा वाराणसेयं वस्त्रमवदातमिति विस्तरः—इदम-
ष्टममभिभ्वायतनमिति । मूर्धकानि चत्वारि, इमानि चत्वारीत्यष्टौ भवन्ति ।
निर्देशः ] अष्टमं कोशस्थानम् ११८१
द्वयमाद्यविमोक्षवत् ।
यथा प्रथमो विमोक्षः, एवं द्वे अभिभ्वायतने प्रथमद्वितीये ।
द्वे द्वितीयवत्,
यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे ।
अन्यानि पुनः शुभविमोक्षवत् ॥ ३५ ॥
यथा शुभो विमोक्ष एवमन्यानि चत्वारि ।
अयं तु विशेषः—तैर्विमोक्षमात्रम्¹, एभिस्त्वालम्बनाभिभवनम्;
“द्वयमाद्यविमोक्षवत्” इति । यथा रूपी रूपाणि पश्यतीति प्रथमो
विमोक्षः, आत्मगतं रूपं पश्यन् बहिर्गतं रूपं पश्यति—एवमाद्ये अभिभ्वा-
यतने । तयोर्ह्येकमात्मगतं रूपं पश्यन् बहिर्गतं पश्यति । तथा ह्येतत्
पठ्यते— “अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परित्तानि” इति
विस्तरः । द्वितीयमपि तथैव । अयं तु विशेषः—बहिर्धा रूपाणि पश्यति
अधिमात्राणि । किञ्च—यथा प्रथमो विमोक्षः प्रथमध्यानभूमिकः कामावचर-
वर्णरागप्रतिपक्षः कामावचररूपायतनालम्बनश्च, तथैमे प्रथमे अभिभ्वायतने
वेदितव्ये ।
“द्वे द्वितीयवत्” इति । यथा अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यतीत्येवंलक्षणो द्वितीयो विमोक्षः । एवंलक्षणे तृतीयचतुर्थे²
अभिभ्वायतने । ते अपि ह्येवं पठ्येते— “अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यति परित्तानि” इति तृतीयः पठ्यते । 'अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यत्यधिमात्राणि” इति चतुर्थः पठ्यते । किञ्च—यथा द्वितीयो
विमोक्षो द्वितीयध्यानभूमिकः प्रथमध्यानभूमिकवर्णरागप्रतिपक्षः कामावचर-
रूपालम्बनश्च, तथा तृतीयं चतुर्थं चाभिभ्वायतनम् ।
“अन्यानि पुनः शुभविमोक्षवत्” इति । यथा शुभो विमोक्षः चतुर्थ-
ध्यानभूमिकः कामावचरमनोज्ञरूपायतनालम्बनश्च, तथा नीलपीत-
लोहितावदाताभिभ्वायतनानि । केवलं त्विह वर्णचतुष्टयं विभज्य गृह्यते ।
शुभस्य च विमोक्षस्यालोभः स्वभावः । एवमेषामपि । यथायं शुभो
विमोक्षः सपरिवारग्रहणात् पञ्चस्कन्धस्वभावः, तथैव तान्यपीति अव-
१. तैर्विमोक्ष्य०—का० । २. एवं तृतीय०—जा० ।