अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1186, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११६३
प्रीतिसम्प्रयुक्तम्; साभिसंस्कारवाहित्वात् । अत एव दुःखा प्रतिपत् ।
तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः ? तद्धि
महाब्रह्मफलं च तत् ।
तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति । पुनः सर्व-
समाधीन् सङ्कल्य त्रयः समाधयः उक्ताः सूत्रे—१. सवितर्कः सविचारः
समाधिः, २. अवितर्को विचारमात्रः, ३. अवितर्कोऽविचार इति ।
तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाधिरिति ज्ञापितम्;
वितर्कमात्रप्रतिषेधात् । ततः—
सवितर्कविचारोऽधःसमाधिः,
तस्माद् ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः । प्रथमं
ध्यानमनागम्यं च ।
परतोऽद्वयः ॥ २३ ॥
नात्र द्वयमस्तीत्यद्वयः । परेण तु ध्यानान्तरात् समाधिरवितर्को-
ऽविचारः । द्वितीयध्यानसामन्तकाद् यावद् भवाग्रम् ॥ २३ ॥
पुनस्त्रयः समाधय उक्ताः—शून्यतासमाधिः, अप्रणिहितः, आनि-
मित्तश्च । तत्र
आनिमित्तः समाकारैः,
निरोधसत्याकारैः सम्प्रयुक्तः समाधिरानिमित्तश्चतुराकारः । निर्वाणं
हि दशनिमित्तापगतत्वादनिमित्तम् । तदालम्बनः समाधिरानिमित्तः ।
पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश ।
शून्यतानात्मशून्यतः ।
प्रवर्त्तते,
अनात्मशून्यताकाराभ्यां सम्प्रयुक्तः शून्यतासमाधिर्द्व्याकारः ।
अप्रणिहितः सत्याकारैरतः परैः ॥ २४ ॥
अत एव दुःखा प्रतिपदिति । अत एव हि संस्कारवाहित्वा-
वितर्कमात्रप्रतिषेधादिति । “अतर्कं ध्यानमन्तरम्” ( अभि० को० ८.२२ ,
इति वचनात् ॥ २३ ॥
तदालम्बनः समाधिरानिमित्त इति । अनिमित्ते भव आनिमित्तः ।