सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1201, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1201

११७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
एषां च विमोक्षाणाम्—
कामाप्तदृश्यविषयाः प्रथमाः,
कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम्।
ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ३४ ॥
आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चाल-
म्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः। अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं
चैकस्येति । कस्मान्न तृतीये ध्याने विमोक्षः । द्वितीयध्यानभूमिकवर्ण-
रागाभावात्, सुखमण्डेञ्जितत्वाच्च ।
यथायोगमिति । द्वयोर्विनीलकाद्यमनोज्ञं रूपमालम्बनम् । तृतीयस्य
मनोज्ञमालम्बनमिति ।
तद्धेतुनिरोधौ चेति । तस्य दुःखस्य समुदाय-निरोधौ । सर्वश्चान्वय-
ज्ञानपक्ष इति । ऊर्ध्वाधः स्वभूमिक इत्यर्थः । अप्रतिसंख्यानिरोधश्चेति ।
अप्रतिसंख्यानिरोधश्चारूप्यविमोक्षाणामालम्बनमिति वक्तव्यम् ।
“ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः” ।। इति अत्र वचनात् ।
आह—कतमः पुनरप्रतिसंख्यानिरोधस्तेषामालम्बनम् ? अत्रोच्यते—
अशैक्षस्यानिमित्तस्य समाधेरप्रतिसंख्यानिरोधमालम्बन्ते। एते हि आरूप्या
विमोक्षा अनिमित्तानिमित्तसमाधिस्वभावाः सम्भवन्ति । ते च सप्त
सामन्तकानि हित्वा अन्यास्वेकादशसु भूमिषु कामाधातावनागम्ये ध्यानान्त-
रेषु ध्यानायूप्येषु चाष्टास्विति । सोपसंख्यानं शास्त्रमिति शास्त्रलक्षणं
दर्शितं भवति । आकाशं चैकस्येति । वक्तव्यम्—आकाशानन्त्यायतनविमोक्ष-
स्यालम्बनम् । द्वितीयध्यानभूमिक-वर्णरागाभावादिति । द्वितीयध्यान-
भूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावादित्यर्थः । तदभावः कायिक-
विज्ञानाभावात् । सुखमण्डेञ्जितत्वाच्च । सुखस्य मण्डः । सर्वसुखस्योपरिस्थ-
सुखमित्यर्थः । तेनेञ्जितत्वात् कम्पितत्वात् । न तृतीये ध्याने विमोक्षो
व्यवस्थाप्यते ।