सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1194, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1194

निर्देशः ] : अष्टमं कोशस्थानम् ११७१
उपेक्षाऽलोभः,
अलोभात्मिकोपेक्षा ।
कथं व्यापादप्रतिपक्षः ? तस्य लोभाकृष्टत्वात् । उभयस्वभावा
त्वसौ युज्यते ।
एषां तु मैत्र्यादीनाम्
आकारः सुखिता दुःखिता बत ।
मोदन्तामिति सत्त्वाश्च,
'सुखिता बत सत्त्वाः' इति मनसिकुर्वन् मैत्रीं समापद्यते । 'दुःखिता
बत सत्त्वाः' इति करुणां, 'मोदन्तां बत सत्त्वाः' इति मुदिताम्, 'सत्त्वाः'
इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते; माध्यस्थ्यात् ।
अतद्गतां१ सुखाधिमोक्षत्वात् कथं न विपरीतत्वं भवति ? सन्त्वित्य-
तस्य लोभाकृष्टत्वादिति । यस्माल्लोभाकृष्टो व्यापादस्तस्माल्लोभ-
प्रतिपक्षतां भजते इत्यभिप्रायः । उभयस्वभावा२ तु असौ युज्यते इति ।
अलोभस्वभावा च, अद्वेषस्वभावा च युज्यते इत्यर्थः । किं कारणम् ?
रागद्वेषयोः प्रतिपक्षत्वात् । अतस्तु नैको धर्मः उभयस्वभाव इति
ग्रहीतव्यम् । किं तर्हि ? अलोभाद्वेषयोरुपेक्षाशब्दो वर्तते इति ।
सुखिता बत सत्त्वा इति । सन्तु इत्यभिप्रायः । दुःखिता बत सत्त्वा
इति । दुःखिता दुःखाद् विमुच्यन्ताम्—इत्यभिप्रायः । तथा हि व्याख्या-
स्यते—व्यापादादयः क्लेशोपक्लेशाः दूरीक्रियन्ते, अतस्तत्प्रतिपक्षत्वमुक्तम् ।
कथमिति ? दर्शयति—कामधातुभूमिकानि अनागम्यभूमिकानि च मैत्र्या-
दीनि त्रीणि मौलाप्रमाणसदृशानि विद्यन्ते । प्रयोगालम्बनाकारस्वभाव-
सादृश्यात् मौलैः सदृशानि भवन्ति । तैरप्रमाणैस्त्रिभिस्तान् क्लेशान्
विष्कम्भ्य प्रहाणमार्गः । मैत्री विहिंसाबहुलानां तत्प्रहाणाय । माध्य-
स्थ्यादिति । अपक्षपातित्वेनापि अनुनीतः, नापि प्रथित इत्यर्थः ।
अतद्गतामिति विस्तरः । असुखवतां सुखमस्तीत्यधिमोक्षात् कथं न
विपरीतत्वं भवति । सन्तु—इत्यभिप्रायादिति । सुखिताः सन्त्वित्यभिप्रायात् ।
१. अश्रद्धतां—जा० । २. ०स्वभावात्—जा० ।