अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1198, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११७५
मनुष्येषूत्पाद्यन्ते, नान्यत्र ।
किं पुनर्य एकेनाप्रमाणेन समन्वगतः सोऽवश्यं सर्वैः ? किन्तु
त्र्यन्वितो ध्रुवम् ॥ ३१ ॥
तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वगतो भवति । त्रिभिस्त्व-
प्रमाणालाभी नित्यं समन्वगतो भवति ॥ ३१ ॥
अष्टौ विमोक्षाः,
‘रूपी रूपाणि पश्यति’ इति प्रथमो विमोक्षः । ‘अध्यात्मरूपसंज्ञी बहिर्द्धा
रूपाणि पश्यति’ इति द्वितीयः । ‘शुभं विमोक्षं कायेन साक्षात्कृत्वोपसम्पद्य
विहरति’ इति तृतीयः । चत्वार आरूप्याः । संज्ञावेदितनिरोधश्चाष्टमः ।
तेषाम्
प्रथमावशुभा,
मुदितया न समन्वगत इति । तृतीयचतुर्थयोः सौमनस्या-
भावात् ॥ ३१ ॥
“अष्टौ विमोक्षाः” इति । यथासूत्रम् । “अष्टौ विमोक्षाः । कतमे-
ऽष्टौ ? ‘रूपी रूपाणि पश्यति’ इत्ययं प्रथमो विमोक्षः । ‘अध्यात्ममरूपसंज्ञी
बहिर्द्धा रूपाणि पश्यति’ इत्ययं द्वितीयो विमोक्षः । ‘शुभं विमोक्षं कायेन
साक्षात् कृत्वोपसम्पद्य विहरति’ इत्ययं तृतीयो विमोक्षः । ‘सर्वशो रूप-
संज्ञानां समतिक्रमात्, प्रतिघसंज्ञानामस्तङ्गमात्, नानात्वसंज्ञानाममनसिकारात्
‘अनन्तमाकाशम्, अनन्तमाकाशम्’ इत्याकाशानन्त्यायतनमुपसम्पद्य
विहरति, तद्यथा--देवा आकाशानन्त्यायतनोषगाः—अयं चतुर्थो विमोक्षः ।
पुनरपरं सर्वश आकाशानन्त्यायतनं समतिक्रम्य ‘अनन्तं विज्ञानम्, अनन्तं
विज्ञानम्’ इति विज्ञानानन्त्यायतनमुपसम्पद्य विहरति, तद्यथा--देवा विज्ञाना-
नन्त्यायतनोषगाः—अयं पञ्चमो विमोक्षः । पुनरपरं सर्वशो विज्ञाना-
नन्त्यायतनं समतिक्रम्य ‘नास्ति किञ्चिद्’ इत्याकिञ्चन्यायतनमुपसम्पद्य
विहरति, तद्यथा--देवा आकिञ्चन्यायतनोषगाः—अयं षष्ठो विमोक्षः ।
पुनरपरं सर्वश आकिञ्चन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनमुपसम्पद्य
विहरति, तद्यथा--देवा नैवसंज्ञानासंज्ञायतनोपगाः—अयं सप्तमो विमोक्षः ।
पुनरपरं सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञावेदितनिरोधंकायेन
साक्षात्कृत्वोपसम्पद्य विहरति—अयमष्टमो विमोक्षः” ( ) इति ।
रूपी रूपाणीति । स्वात्मनि रूपाणि विभाव्य बहिरपि रूपाणि
अभि० को० ४ : १०