अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1187, कुल 1258 में से
संदर्भ में पढ़ें११६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
परैः शेषैः सत्याकारैः समाधिरप्रणिहितो दशाकारः। अनित्य-
दुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतयाऽवश्यत्याज्यत्वात् तदाकारः
समाधिरप्रणिहितः; तदतिक्रमाभिमुखत्वात्।
शून्यतानात्मताभ्यां तु नोद्वेग; निर्वाणसामान्यात् ॥ २४ ॥
त एते त्रयः समाधयो द्विविधाः-
शुद्धाऽमलाः,
शुद्धकाश्च, अनास्रवाश्च; लौकिकलोकोत्तरत्वात्। लौकिका
एकादशसु भूमिषु। लोकोत्तरा यत्र मार्गः।
दशाकार इति। अनित्यदुःखाकारौ द्वौ, समुद्रायाकाराश्चत्वारः,
मार्गाकाराश्चत्वारः-इत्येते दश आकाराः। अनित्यदुःखतद्धेतुभ्य उद्वेगा-
दिति। अनित्याद् दुःखात्, तद्धेतोश्च। तस्य दुःखस्य हेतोश्च समुदाया-
दुद्वेगात्। किम्? अप्रणिहितः। अकृतसंस्कार इत्यर्थः। मार्गस्य कोलो-
पमतयाऽवश्यत्याज्यत्वात्। कोल उच्यते उडुपः। स उपमा अस्येति
कोलोपमः मार्गः, तद्भावस्तया। कोलोपमतया मार्गस्यावश्यत्याज्यत्वम्,
तस्मात्। अप्रणिहित इत्यधिकृतः। यथा हि कोलमाश्रित्य नदीमुत्तरन् न
कोलनिष्ठो भवति, तस्यावश्यत्याज्यत्वात्; एवं मार्गमाश्रित्य न मार्गनिष्ठो
भवति, तस्यावश्यत्याज्यत्वात्। तदाकार इति। तद्दशाकारो यथोक्तः।
तदतिक्रमाभिमुखत्वादिति। तस्य मार्गस्यातिक्रमेऽभिमुखत्वात्। अनेना-
वश्यत्याज्यत्वमस्य दर्शयति। अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्यनुक्त-
मप्येतद् गम्यत एव। शून्यतानात्मताभ्यां तु नोद्वेग इति। शून्यानात्मा-
काराभ्यां तु नोद्वेगो योगिनो भवति। यद्यपि हि दुःखसत्यं शून्यानात्मा-
काराभ्यामाकार्यते, न तु ताभ्यां तस्माद् दुःखादुद्वेगः। कस्मात्?
निर्वाणसामान्यात्। निर्वाणमपि शून्यानात्मलक्षणम्। शून्यताऽनात्मता
हि सर्वधर्माणां लक्षणमिति। न च ताभ्यां तस्मान् निर्वाणाद् उद्वेगः।
तस्मान्न तदाकारोऽप्रणिहितसमाधिरिति ॥ २४ ॥
लौकिका एकादशस्विति। कामधातावनागम्ये ध्यानान्तरे, ध्याना-
रूप्येषु चेति। यत्र मार्ग इति। कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु
भूमिषु।