अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1195, कुल 1258 में से
संदर्भ में पढ़ें११७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
भिप्रायात् । आशयस्याविपरीतत्वाद् वा; अधिमुक्तिसंज्ञानात् ।
अथ वा क एवं विपरीतत्वे दोषः ? अकुशलत्वमिति चेत्, न;
कुशलमूलत्वात्, व्यापादादिप्रतिपक्षत्वाच्च ।
उक्त एषामाकारः ॥
कामसत्त्वास्तु गोचरः ॥ ३० ॥
कामावचराः सत्त्वा एषामालम्बनम्; तदालम्बनानां व्यापादादीनां
प्रतिपक्षत्वात् ।
यत्तूक्तम्—एकां दिशमधिमुच्येतेति ? तद्भाजनेन भाजनगतं
दर्शितम् ॥ ३० ॥
कतिभूमिकान्येतानि ?
ध्यानयोर्मुदिता,
प्रथमद्वितीयध्यानयोर्मुदिता; सौमनस्यत्वात् ।
अन्यानि षट्सु,
न विपरीतत्वमित्यभिप्रायः । आशयस्याविपरीतत्वाद्वेति । अस्य कुशल-
धर्माः सुखिता बत सत्त्वा इत्येते चित्तचैत्ताः सपरिवाराः । अस्याशयस्या-
विपरीतत्वान्न विपरीतत्वं भवति ।
कथं पुनरस्याशयस्याविपरीतत्वादिति ? आह ? अधिमुक्तिसंज्ञानादिति ।
अधिमुक्तेः संज्ञानम् अधिमुक्तिसंज्ञानं तस्मात् । यस्मात् तामधिमुक्तिं तथैव
सञ्जानीते । आधिमोक्षिकोऽयं मनस्कार इति परिच्छिनत्ति । अकुशलत्व-
मिति । विपरीतग्रहणातः । न; कुशलत्वात् । नैतदेवम्; कस्मात् ? कुशल-
मूलत्वात् । कथं पुनः कुशलमूलम् ? इत्याह—व्यापादादिप्रतिपक्षत्वादिति ।
अद्वेषस्वभावत्वात् मैत्री व्यापादप्रतिपक्षः । दुःखापनयनाकारत्वाच्च करुणा
दुःखोपसंहाराकाराया विहिंसायाः प्रतिपक्षो भवति । मुदिता च अरतेः
प्रतिपक्षः; सौमनस्यरूपत्वात् । उपेक्षा च माध्यस्थ्यात् कामरागव्यापादयोः
प्रतिपक्ष इति ।
तदालम्बनानामिति । कामावचरसत्त्वालम्बनानामित्यर्थः ।
तद्भाजनेन भाजनगतं दर्शितमिति । स्थानेन स्थानीयसत्त्वलोको ।
दर्शित इत्यर्थः ॥ ३० ॥