सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1192, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1192

निर्देशः ] अष्टमं कोशस्थानम् ११६६
हीनोर्ध्वोपपन्नपरिनिवृतानां च१ तदभावात् ॥ २७ ॥
दर्शनायाक्ष्यभिज्ञेष्टा,
दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना ।
धीभेदाय प्रयोगजाः ।
प्रयोगजाः सर्वे गुणास्त्रैधातुकानस्रवाः प्रज्ञाप्रभेदाय समाधि-
भावना ।
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षमभावना ॥ २८ ॥
यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।
आत्मोपनायिका२ किलैषा भगवतो धर्मोपदेशना३ । अतश्चतुर्थं४
एवाह ॥ २८ ॥
कृतः समाधीनां कालगतो निर्देशः ॥
ऊर्ध्वोपपन्नानां द्वितीयादिषु । परिनिर्वृतानां च सम्परायसुखविहार-
स्याभावात् ॥ २७ ॥
ज्ञानदर्शनायेति । ज्ञानाय, दर्शनाय चेति समासः । तत्र ज्ञानं
मनोविज्ञानसम्प्रयुक्ता प्रज्ञा । “अमी भवन्तः सत्त्वाः कायदुश्चरितेन
समन्वागताः” इत्येवमादि विकल्पात् । दर्शनं चक्षुर्विज्ञानसम्प्रयुक्ता प्रज्ञा
अविकल्पिका ।
त्रैघातुका अनास्रवा इति । त्रैघातुका अशुभानापानस्मृत्यरण-
प्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः । अनास्रवा विमोक्ष-
सुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः । अत्र तु समाधिसम्प्रयोगात्
प्रायोगिकानां गुणानां समाधिभावनेत्युपचारः । प्रज्ञाप्रभेदायेति । प्रज्ञा-
विशेषकर्षाय । आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति । आत्मन
उपनायिका, आत्मनो देशिकेत्यर्थः । बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय
चक्षुषा सत्त्वान् च्युत्युपपत्तिसङ्कटस्थान् अभिवीक्ष्य तत्परित्राणाय मध्यमे
यामे ध्यानविमोक्षसमापत्तीः सम्मुखीकृतवान् । तेऽस्य प्रायोगिका गुणाः
प्रज्ञाप्रभेदाय जायन्ते । ततः तृतीये यामे चतुर्थं ध्यानं निःसृत्य नियाम-
मवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवानिति ।
१. का० पुस्तके नास्ति । ३. धर्मदेशना—का० ।
२. ०पनायिकी—का० । ४. ०श्रतुर्थं—का० ।