अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1203, कुल 1258 में से
संदर्भ में पढ़ें११८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
अभिभ्वायतनान्यष्टौ,
अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि
दुर्वर्णानि, तानि खलु रूपाण्यभिभूय जानात्यभिभूय पश्यतीत्येवंसंज्ञी भवति—
इदं प्रथममभिभ्वायतनम् । एवमधिमात्राणि । अध्यात्ममरूपसंज्ञ्येवमेव ।
इत्येतानि चत्वारि ।
अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ
भवन्ति ।
तेषाम्
एवमधिमात्राणीति । "अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति ।
अधिमात्राणि सुवर्णदुर्वर्णानि"—इति विस्तरः । यावत्, "इदं द्वितीय-
मभिभ्वायतनम्" । अध्यात्ममरूपसंज्ञी एवमेवेति । कथम् ? "अध्यास्म-
मरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानि" इति पूर्ववत्,
यावत्, "इदं द्वितीयमभिभ्वायतनम्" । तथा "अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यति अधिमात्राणि सुवर्णदुर्वर्णानि" इति पूर्ववत्, यावत्, "इदं
तृतीयमभिभ्वायतनम्" । तथा अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
अधिमात्राणि सुवर्णदुर्वर्णानि" इति पूर्ववत्, यावत् "इदं चतुर्थमभिभ्वा-
यतनम्" । इत्येतानि चत्वारि । अरूपसंज्ञी एव पुनर्नील-पीत-लोहिता-
वदातानि पश्यतीति । कथम् ? "अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि
पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि । तद्यथा—
उमकापुष्पं सम्पन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं
नीलनिर्भासं तानि खलु रूपाण्यभिभूय जानाति, अभिभूय पश्यति, एवं-
संज्ञी च भवति—इदं पञ्चममभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा
रूपाणि पश्यति पीतानि पीतवर्णानि, पीतनिदर्शनानि पीतनिर्भासानि ।
तद्यथा—कर्णिकार-पुष्पं सम्पन्नं वाराणसेयं वा वस्त्रं पीतमिति विस्तरः—
इदं षष्ठमभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि, तद्यथा
बन्धूक-पुष्पं सम्पन्नं वा वाराणसेयं वस्त्रं लोहितमिति विस्तरः—इदं
सप्तममभिभ्वायतनम् । अध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यति
अवदातानि अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि, तद्यथा—
उशनस्तारकासम्पन्नं वा वाराणसेयं वस्त्रमवदातमिति विस्तरः—इदम-
ष्टममभिभ्वायतनमिति । मूर्धकानि चत्वारि, इमानि चत्वारीत्यष्टौ भवन्ति ।