अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1200, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११७७
अन्यदाप्यसमाहिताः सन्तीत्यपरे । सामन्तकविमुक्तिमार्गा¹ अपि
विमोक्षाख्यां लभन्ते, नानन्तर्यमार्गाः; अधरालम्बनत्वात् । वैमुख्यार्थो हि
विमोक्षार्थ इति ॥ ३२ ॥
निरोधस्तु समापत्तिः,
संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः । सा च
पूर्वं निर्दिष्टा । संज्ञावेदितवैमुख्यात्, सर्वसंस्कृताद्वा ।
समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे ।
तां तु समापद्यन्ते
सूक्ष्मसूक्ष्मादनन्तरम् ।
भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते ।
समापन्नानां तु
स्वशुद्धकाधराद्वयेण व्युत्थानं चेतसा ततः ॥ ३३ ॥
भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन-
भूमिकेन वा सास्रवेण । तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति,
सास्रवानान्तर्यं तु व्युत्थानचित्तमिति ॥ ३३ ॥
अन्यदाप्यसमाहिताः सन्तीति । आरूप्येषु विपाकजान् चित्तचैत्तान्
अभिसन्धायोच्यते । पूर्वस्मिंस्तु पक्षे मरणभवावस्थायामेवासमाहिता
आरूप्या इति दर्शयति । सामन्तकविमुक्तिमार्गा अपि विमोक्षाख्यां
लभन्त इति । किमङ्ग मौला इत्यपि-शब्दार्थः । नानन्तर्यमार्गे इति विस्तरः ।
यस्माद् अधरभूमिवैमुख्याद् विमोक्षा इत्युच्यन्ते, तस्माद् आनन्तर्यमार्गा न
विमोक्षाख्यां लभन्ते; अधरालम्बनत्वात् । विमुक्तिमार्गास्तु लभन्ते;
ऊर्ध्वालम्बनत्वात् ॥ ३२ ॥
“निरोधस्तु समापत्तिः” । अष्टम इति वाक्यशेषः । संज्ञावेदित-
वैमुख्यादिति । संज्ञावैमुख्यात्, वेदितवैमुख्याच्च विमोक्षः । सर्वसंस्कृताद्वा ।
वैमुख्याद् विमोक्षः ।
समापत्त्यावरणविमोक्षणाद् विमोक्ष इति । समापत्त्यावरणविमोक्ष-
वैमुख्यात् विमोक्ष इति । तत्र समापत्त्यावरणम्—यस्मिन्नावरणे चित्ताकर्मण्यता
त्रिधातुकवीतरागा अपि सन्तः प्रथममपि मौलं ध्यानं नोत्पादयन्ति ॥ ३३ ॥
१. ०विमुक्त०—जा० ।