सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1199, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1199

११७६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [समापत्ति-
प्रथमौ द्वौ विमोक्षावशुभास्वभावौ; विनीलकाद्यालम्बनत्वात्¹। अत
एतयोरशुभावन्नयो वेदितव्यः। एतौ च
ध्यानयोर्द्वयोः।
प्रथमद्वितीययोर्ध्यानयोः, नान्यस्यां भूमौ। कामावचरप्रथमध्यानभूमि-
कयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम्।
तृतीयोऽन्त्ये,
शुभो विमोक्षश्चतुर्थध्याने।
स चालोभः,
सोऽप्यलोभस्वभावो न त्वशुभास्वभावः; शुभाकारत्वात्। सपरि-
वारास्त्वेते पञ्चस्कन्धस्वभावाः। आरूप्यविमोक्षास्तु
शुभारूप्याः समाहिताः ॥ ३२ ॥
कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते, न क्लिष्टा
नाप्यसमाहिताः; तद्यथा मरणभवे।
पश्यति; विनीलकाद्यालम्बनत्वात्। अशुभावन्नयो वेदितव्य इति।
अस्थिरागस्य वर्णरागादिप्रतिपक्षमारभ्य सम्भवतो विस्तरेण योज्यम्।
"अलोभा दशभूः कामदृश्यालम्बा नृजा शुभा" (अभि० को० ५.१२)
इति।
यथासंख्यमिति। कामावचरस्य वर्णरागस्य प्रतिपक्षेण प्रथमध्यान-
भूमिको विमोक्षः। प्रथमध्यानभूमिकस्यापि वर्णरागप्रतिपक्षेण द्वितीय-
ध्यानभूमिको विमोक्षः। एतौ च द्वौ पुनर्द्दूरीभावप्रतिपक्षौ वेदितव्यौ।
आह—द्वितीयादिध्यानेषु वर्णरागो नास्तीति कथं गम्यते?
चक्षुर्विज्ञानाभावात्। यो हि यस्माद् विषयाद् विरक्तः, नियतमसौ तद्-
ग्राहकादपि विज्ञानाद् विरक्तः, द्वितीयादिषु च ध्यानेषु चक्षुर्विज्ञानादि
नास्ति, इत्यतो वर्णवीतरागास्ते—इति सिद्धम्।
"शुभारूप्याः" इति। शुद्धकानास्स्रवाः।
१. ०द्याकारत्वात्—का०।