अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1188, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११६५
निर्मलास्तु ते विमोक्षमुखत्रयम् ।
अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते । शून्यता
विमोक्षमुखम्, अप्रणिहितम्, आनिमित्तं विमोक्षमुखमिति; मोक्षद्वारत्वात् ।
पुनश्चोच्यन्ते—
शून्यताशून्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ २५ ॥
शून्यताशून्यता, अप्रणिहिताप्रणिहितः, आनिमित्तानिमित्तश्च ।
शून्यताद्यालम्बनत्वात्तन्नाम ॥ २५ ॥
तेषां पुनः—
आलम्बेते अशैक्षं द्वौ शून्यता¹ चाप्यनित्यतः¹ ।
अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं
शून्यतासमाधिमालम्बते शून्यताकारेण । अप्रणिहिताप्रणिहितोऽप्यशैक्षम-
मोक्षद्वारत्वादिति । द्वारार्थो मुखार्थ इति दर्शयति ॥
शून्यताद्यालम्बनत्वात्तन्नामेति । शून्यताप्रणिहितानिमित्तालम्ब-
नत्वात् ।
शून्यताशून्यतेति नाम । अप्रणिहिताप्रणिहितेति अनिमित्तानिमित्तेति
च ॥ २५ ॥
“शून्यता चाप्यनित्यतः” इति । यथासङ्ख्येन । शून्यताशून्यता हि
शून्यताकारेणाशैक्षं शून्यतासमाधिमालम्बते । नायमात्मीयमिति । नात्मा-
कारेण ।
आह—किमत्र कारणं यच्छून्यताशून्यतासमाधिः शून्यताकार एव,
न पुनरनात्माकारोऽपि शून्यतावदिति ? अत्रोच्यते—शून्यताकारप्रवृत्त-
शून्यतापृष्ठोत्पाद्यत्वात् । आह—किमर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठे-
नोत्पत्तिः, न पुनरनात्माकारप्रवृत्तशून्यतापृष्ठेनेति ? अत्रोच्यते—तदुत्पत्त्या-
नुकूल्यात् । स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस्तस्य शून्यता-
शून्यतासमाधेरुत्पत्तौ आनुकूल्येनावतिष्ठते, नानात्माकारः । न ह्येवम्
अनात्मदर्शनमुद्वेजयति, यथा शून्यतादर्शनम् । दृष्टेष्वपि हि अनात्मतो
१-१. शून्यतश्चाप्यनित्यतः—का० ।