सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1197, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1197

११७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
सदृशानि संविद्यन्ते । तैस्तान् विष्कम्भ्य प्रहाणमार्गैः प्रजहाति । ततो
वीतरागावस्थायां मौलाप्रमाणलाभात् । बलवत्प्रत्ययलाभेऽपि तैरनाधृष्यो
भवति ।
कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते ? यथा सुखितमात्मानं मन्यते
परान् वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते
एवं सुखिता बत सन्तु इति । न चेच्छक्नोति क्लेशस्योद्भूतवृत्तित्वात् स
मित्रपक्षं त्रिधा भित्त्वाऽधिमात्रे तत्सुखमधिमुच्यते । ततो मध्ये मृदौ च ।
तेषु चेत् समां मैत्रीं लभते तत उदासीनपक्षे । ततः शत्रुपक्षं त्रिधा भित्त्वा
मृदौ तत् सुखमधिमुच्यते । ततो मध्येऽधिमात्रे च । ततश्चेदधिमात्र इव
मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते । ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो
यावदेकां दिशं यावत् सर्वं लोकं मैत्र्या स्फरति । यस्तु सर्वगुणग्राही स मैत्रीं
क्षिप्रमुत्पादयति । शक्यं हि समुच्छिन्नकुशलमूलेऽपि गुणग्राहिणा भवितुम्,
प्रत्येकबुद्धे च दोषग्राहिणा; पूर्वपुण्यापुण्यफलसंदर्शनात्¹ ।
एवं करुणायां मुदितायां च प्रयुज्यते । अमी सत्त्वा बहुविधव्यसनौध-
निमग्ना अप्येव दुःखाद्विमुच्येरन्, अप्येवाभिप्रमोदेरन्² इत्यधिमुच्यमान
उपेक्षां तूदासीनपक्षादारभते ।
एतानि चाप्रमाणानि
नृष्वेव जन्यन्ते,
संविद्यन्ते; प्रयोगलम्बनाकारस्वभावसादृश्यान् मौलैः सदृशानि भवन्ति ।
तैरप्रमाणैः त्रिभिस्तान् क्लेशान् विष्कम्भ्य प्रहाणमार्गैः आनन्तर्यमार्गैः
प्रजहाति । बलवत्प्रत्ययलाभेऽपीति । व्यापादादिप्रत्ययलाभेऽपि बलवति
सति तैः क्लेशैरनाधृष्यो भवति । सम्मुखीभावात् ।
अधिमात्र इति । मित्रपक्षे । परममित्रे हि सुकरा मैत्री । स्फरतीति ।
व्याप्नोति । पूर्वपुण्यापुण्यफलसन्दर्शनादिति । पूर्वपुण्यफलमन्दर्शनात्
समुच्छिन्नकुशलमूलेऽपि पुद्गले शक्यं गुणग्रहणेनानेन भवितुं ‘पुण्यमनेन
कृतमासीद् येनास्य रूपादिम्पद्’ इति । प्रत्येकबुद्धे च दोषग्राहिणा ‘नूनमनेन
अपुण्यं कृतमासीद् येनास्यैवं रूपादिवैकल्यम्’ इति ।
अप्येव दुःखाद् विमुच्येरन् इत्यधिमुच्यमानः करुणायां प्रयुज्यते ।
अप्येवाभिप्रमोदेरन्निति अधिमुच्यमानो मुदितायां प्रयुज्यते ।
१. पूर्व—का० । २. ०वातिप्रमो०-का० ।