अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1193, कुल 1258 में से
संदर्भ में पढ़ें११७० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
इदानीं समाधिसन्निश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते—
अप्रमाणानि चत्वारि,
मैत्री, करुणा, मुदिता, उपेक्षा च; अप्रमाणसत्त्वालम्बनत्वात् ।
किमर्थं चत्वार्येव ?
व्यापादादिविपक्षतः ।
व्यापदविहिंसाऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि
यथासंख्यम् ।
अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः ? वर्णरागस्याशुभा
मैथुनरागस्योपेक्षेति वैभाषिकाः ।
एवं तु युज्यते—मैथुनरागस्याशुभा, मातापितृपुत्रज्ञातिरागस्योपेक्षेति ।
तत्र
मैत्र्यद्वेषः,
अद्वेषस्वभावा मैत्री ।
अपि करुणा,
करुणाप्येवम् ।
मुदिता सुमनस्कता ॥ २९ ॥
सौमनस्यस्वभावा मुदिता ॥ २९ ॥
यस्माच्चैवमात्मोपनायिका धर्मदेशना, अतश्चतुर्थ एव । "वज्रोपमोऽन्त्ये
यो ध्याने" इति ॥ २८ ॥
अप्रमाणसत्त्वालम्बनादिति । अप्रमाणसंज्ञाकरणे कारणमेतत् ।
यथासंख्यमिति । व्यापादबहुलानां तत्प्रहाणाय मैत्री । विहिंसा-
बहुलानां तत्प्रहाणाय करुणा । अरतिबहुलानां तत्प्रहाणाय मुदिता ।
कामरागव्यापादबहुलानां तत्प्रहाणायोपेक्षेति । कामरागप्रतिपक्षत्वे को
विशेष इति । कामरागबहुलान्¹ प्रति चिन्ता । मातापितृपुत्रज्ञातिराग-
स्योपेक्षेति । यथैवासम्बद्धाः पुरुषाः, एवमेवैते इत्युपेक्षेत्यभिप्रायः ॥ २६ ॥
१. ०बहुलात्—जा० ।