अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1196, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११७३
अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु, अनागम्ये ध्यानान्तरे
ध्यानेषु च; सप्रयोगमौलग्रहणात् ।
केचित् तु पञ्चसु ।
केचित् पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति ।
दशस्वित्यपरे । कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहित-
मौलप्रयोगग्रहणात् ।
यदुक्तम् - "व्यापादादिविपक्षतः"
किमप्रमाणैरपि क्लेशप्रहाणं भवति ?
न तैः प्रहाणम् ,
मौलध्यानभूमिकत्वात्, अधिमुक्तिमनस्कारत्वात्, सत्त्वालम्बनत्वाच्च ।
तत्प्रयोगेण तु व्यापादादिविष्कम्भणात् तत्प्रतिपक्षत्वमुक्तम् । प्रहीण-
दूरीकरणाच्च१ । कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाण-
समाहितासमाहितमौलप्रयोगग्रहणादिति । षट्-पञ्च-दशभूमिकत्वात्
त्रयाणामपि कारणमुच्यते सम्भवतः । तत्रासमाहितः कामधातुः । प्रयोगाः
सामन्तकानीति सम्भवतो योज्यम् । षड्भूमिकव्यवस्थाने अनागम्यसामन्त-
कमपीष्यते । सामन्तकान्यपि प्रयोगभूतानि गृह्यन्ते । किमङ्ग मौलानीति ।
मौलध्यानभूमिकत्वादिति । मौल-शुद्धक-ध्यानभूमिकत्वादित्यर्थः ।
न हि शुद्धकैमौलध्यानैः क्लेशाः प्रहीयन्ते - इत्युक्तं प्राक् । अधिमुक्ति-
मनस्कारत्वान्न तैः क्लेशाः प्रहीयन्ते । तत्त्वमनस्कारेण हि क्लेशप्रहाणम् ।
सत्त्वालम्बनत्वाच्च न तैः प्रहाणम् । धर्मसामान्यलक्षणमनस्कारेण हि
क्लेशप्रहाणमिति सिद्धान्तः ।
कथं तर्हि ? इत्याह-तत्प्रयोगेण त्विति विस्तरः । मैत्र्यादिप्रयोगेण
व्यापादादिविष्कम्भनात् तत्प्रतिपक्षत्वमुक्तमिति । व्यापादादिप्रतिपक्षत्व-
मुक्तम् । विष्कम्भणप्रहाणानि तानीत्यर्थः । प्रहीणदूरीकरणाच्चेति ।
यस्मादानन्तर्यमार्गैर्लौकिकैः लोकोत्तरैर्वा मार्गैः व्यापादादयः क्लेशोपक्लेशाः
दूरीक्रियन्ते, अतस्तत्प्रतिपक्षत्वमुक्तम् । कथम् ? इति दर्शयति-कामधातु-
भूमिकानि अनागम्यभूमिकानि च मैत्र्यादीनि त्रीणि मौलाप्रमाणसदृशानि
१. प्रहाण०-का० ।