अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
११५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समापत्ति-
सेञ्जितानि उक्तानि भगवता; सापक्षालत्वात् ॥ १० ॥
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।
के पुनस्तेऽपक्षालाः ?
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ११ ॥
वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च—एषा-
मष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्ति, अतस्तदानेञ्ज्यमुक्तम् ।
वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानम्; सूत्रे
निवातप्रदीपनिदर्शनादित्यपरे¹ ॥ ११ ॥
द्वयोर्ध्यानयोः सौमनस्यमुक्तम्; प्रीतिवचनात् । तृतीये सुखम्, चतुर्थे
उपेक्षा । तत् किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु ? नेत्याह ।
किं तर्हि ?
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ १२ ॥
प्रथमध्यानोत्पत्तौ तिस्रो वेदनाः—सुखं त्रिविज्ञानकायिकम्, सौमनस्यं
मनोभूमिकम्, उपेक्षा चतुर्विज्ञानकायिकी । द्वितीयध्यानोपपत्तौ द्वे वेदने—
सौमनस्योपेक्षे मनोभूमिके । सुखं नास्ति; अस्य विज्ञानकायाभावात् ।
तृतीयध्यानोपपत्तौ द्वे वेदने—सुखोपेक्षे मनोभूमिके । चतुर्थध्यानोपपत्तावु-
पेक्षैव ॥ १२ ॥
कुशलमहाभूमिकयोः प्रश्रब्ध्युपेक्षयोरपरिग्रहाद् भवत एव ते
इत्यपरे ॥ १० ॥
“श्वासौ” इति । आश्वासप्रश्वासौ । द्वित्वप्रदर्शनार्थ चात्र द्विवचन-
निर्देशः । वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादिति । यथा पूर्वकानि त्रीणि
ध्यानानि वितर्कादिभिः कम्प्यन्ते²; प्रथमं ध्यानं वितर्कविचाराभ्यां कम्प्यते,
द्वितीयं प्रीत्या, तृतीयं सुखेन; नैवमेभिश्चतुर्थं कम्प्यते ।
यथा निवाते दीपो न कम्प्यते वायुना तद्वदित्युक्तं सूत्रे इत्यपर
आहुः । अष्टापक्षालमुक्तत्वात् ॥ ११ ॥
१. निर्वात—का० । २. कम्प्यते—जा० ।
निर्देशः ] अष्टमं कोशस्थानम् ११५१
यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्क-
विचारौ च, कथं ते पश्यन्ति ? यावत् स्पृशन्ति । कथं चाविज्ञप्ति
समुत्थापयन्ति ? न वै तेषूपपन्नानां चक्षुर्विज्ञानादयो न सन्ति । न तु
स्वभूमिकाः । किं तर्हि ?
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तम्,
प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च
द्वितीयादिषु च ध्यानेषु सम्मुखीकुर्वन्ति । निर्माणचित्तवद् येन ते पश्यन्ति
यावद्विज्ञप्ति समुत्थापयन्ति ।
अक्लिष्टाव्याकृतं च तत् ॥ १३ ॥
अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते
सम्मुखीकुर्वन्ति । न क्लिष्टं वीतरागत्वात्, न कुशलं हीनत्वादिति ॥ १३ ॥
[
११५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
वैराग्याद्वा । अधोभूम्युपपत्तितो वा; अन्यत्र भवाग्रात् । न हि तस्योपपत्तितो
लाभः ।
अतद्वानिति किमर्थं समन्वागतः ? शुद्धकेन प्रयोगतो१ निर्वेधभागीयम्
शुद्धकं प्रतिलभते । परिहाणितोऽपि२ हानभागीयम् ।
अत एवोच्यते—"स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत, वैराग्येण
विजह्यात् । एवं परिहाण्या चोपपत्त्या च ।
आह३–स्याद्धानभागीयं प्रथमं ध्यानम् । तद्धि कामवैराग्येण लभ्यते ।
ब्रह्मलोकवैराग्येण त्यज्यते । ब्रह्मलोकवैराग्यपरिहाण्या लभते४ । काम-
धातुवैराग्यप्रहाण्या५ त्यज्यते । उपरिष्टाद् ब्रह्मलोक उपपद्यमानो६ लभते ।
ध्यानम्, आरूप्यं वा । कामवैराग्यात् प्रथमं शुद्धकं प्रतिलभते त्रिप्रकारम्,
अन्यत्र निर्वेधभागीयात् । एवं यावत् आकिञ्चन्यायतनवैराग्याद् भवाग्रं
प्रतिलभते । अधोभूम्युपपत्तितो वेति । उपरिष्टात् अधरायां भूमौ
उपपद्यमानस्तल्लभते । अन्यत्र भवाग्रादिति । तस्याधोभूमिवैराग्यादेव लाभः ।
प्रयोगतो निर्वेधभागीयमिति । तस्य वैराग्योपपत्तिकृतः स लाभो
न भवति । परिहाणितोऽपि हानभागीयमिति । स्थितिभागीयात् परिहीय-
माणो हानभागीयं लभते ।
अत एवोच्यत इति । यस्मात् परिहीणोऽपि हानभागीयं लभते ।
एवं परिहाण्या चोपपत्त्यापि योज्यम् । कथम् ? स्याच्छुद्धकं परिहाण्या
लभेत, परिहाण्या विजह्यात् । स्याच्छुद्धकं ध्यानमुपपत्त्या लभेत, उपपत्त्या
विजह्यादिति । आह–स्यात् । कथम् ? इत्याह–हानभागीयं प्रथमं ध्यान-
मिति । ब्रह्मलोकः प्रथमं ध्यानं त्रिभूमिकम्; 'विशेषेण ब्रह्मलोके उपपद्य-
मानत्वाद्' इति वचनात् । ब्रह्मलोकवैराग्येण त्यज्यत इति । यस्मात्
प्रथमध्यानवैराग्येण हानभागीयं ध्यानं क्लेशानुगुण्यात् तद्भूमिकक्लेशमिव
त्यजति, अतो ब्रह्मलोकवैराग्येण त्यज्यते—इत्युच्यते । एवं प्रथमस्य प्रश्नस्य
विसर्जनम् ।
ब्रह्मलोकवैराग्यपरिहाण्या लभते । यदि ब्रह्मलोकवैराग्यपरिहाण्या
परिहीयते, पुनस्तद्धानभागीयं प्रतिलभते; तद्भूमिकक्लेशवत् । कामधातु-
१ प्रयोगतोऽपि—का० । २. परिहाणितो वा—का० ।
३. का० पुस्तके नास्ति । ४. लभ्यते—का० ।
५. कामवैराग्य०—का० । ६. उत्पद्य०—का० ।
निर्देशः ] अष्टमं कोशस्थानम् ११५३
यस्मात्¹ कामधातावुपपद्यमानो विजहाति" इति ।
अनास्रवं तु वैराग्यात्,
'अतद्वान् लभते' इति वर्तते । तद्वांस्तु क्षयज्ञानतोऽप्यशैक्षं लभते ।
इन्द्रियसञ्चारतोऽपि शैक्षाशैक्षम् । ननु च नियमावक्रान्तितोऽप्यनास्रवं
प्रथयतो लभते ? नावश्यम्; आनुपूर्विकेणालाभात् । यथा त्ववश्यं लभते
तथोक्तम् ।
क्लिष्टं हान्युपपत्तितः ॥ १४ ॥
'अतद्वान् लभते' इत्येवानुवर्तते । परिहाणितो यदि तद्वैराग्यात् परि-
हीयते । उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते ॥ १४ ॥
कतमस्मात् समापत्तिद्रव्यादनन्तर कत्युपपद्यन्ते ? अनास्रवप्रथम-
ध्यानान्तर षडुत्पद्यन्ते— स्वभूमिके शुद्ध नास्रवे² द्वितीयतृतीयध्यानभूमिके च ।
आकिञ्चन्यायतनानन्तरं सप्त स्वभूमिके शुद्धकानास्रवे, विज्ञानाकाशानन्त्या-
यतनभूमिके च । भवाग्रं शुद्धकमेव, अनास्रवाभावात् । द्वितीयध्यानान्तर-
वैराग्यपरिहाण्या त्यज्यते । यदा कामधातुवैराग्यात् परिहीयते, तदा शुद्धकं
त्यज्यते । उपरिष्टाद् ब्रह्मलोक उपपद्यमानो लभत इति । द्वितीयादिभ्यो
ब्रह्मलोक उपपद्यमानं हानभागीय॑ तद्भूमिकक्लेशवदेव लभते । तस्मात्
मधातावुपपद्यमानो विजहातीति । तस्माद् ब्रह्मलोकात् कामधातावुप-
.द्यमानो विजहाति ।
इन्द्रियसञ्चारतोऽपि शैक्षाशैक्षमिति । श्रद्धाविमुक्तो दृष्टिप्राप्तायां
शैक्षं लभते । समयविमुक्तोऽप्यकोप्याप्रतिवेधे अशैक्षं लभते ।
नावश्यम्, आनुपूर्विकेणालाभादिति ३ । यद्यानुपूर्विकोजनागम्यसन्नि-
श्रयेण नियममवक्रामति, न लभते ॥ १४ ॥
स्वभूमिके शुद्धानास्रवे इति । व्युत्थानकाले प्रवाहतश्च । द्वितीय-
तृतीयध्यानभूमिके चेति । मिश्रकामिश्रतानुलोमसमापत्तौ व्युत्क्रान्तका-
समापत्तौ च । सप्तस्वभूमिके शुद्धकानास्रवे इति । पूर्ववत् विज्ञानाकाश-
नन्त्यायतनभूमिके च । तथैव प्रतिलोमसमापत्तौ । भवाग्रं शुद्धकमेव,
अनास्रवाभावादिति । मान्द्यादनास्रवं नास्तीत्युक्तम् । अनुलोमसमापत्तौ तु
१. तस्मात् पुन. - का० । २. शुद्धका० - का० ।
३. ०केनालाभा० -- जा० ।
११५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
मष्टौ—स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च । विज्ञाना-
नन्त्यायतनान्तरं नव—स्वभूमिके द्वे, आकाशानन्त्यायतनचतुर्थध्यानभूमि-
कानि चत्वारि, आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति ।
एवमन्यध्यानानारूप्यादनन्तरं १ दश द्रव्याणि योज्यानि ।
एष तु संक्षेपः—
तृतीयाद् यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।
उत्पद्यते,
शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् । अनास्रवस्य समापत्ति-
द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते । ऊर्ध्वाधोभूमिके च
तृतीयाद् यावत् । व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं
नोत्सहन्ते । अन्वयज्ञानान्तरं चारूप्यान् समापद्यन्ते, न धर्मज्ञानानन्तरम्;
तस्याधराश्रयालम्बनत्वादिति ।
व्युत्थानकाले तद् भवति । तृतीयचतुर्थप्रथमध्यानभूमिके चेति । अमिश्रक-
मिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालुषु ।
आकाशानन्त्यायनचतुर्थध्यानभूमिकानि चत्वारीति । तेष्वेव कालेषु ।
त्रीणीति । अनास्रवाभावात् । एवमन्यध्यानानारूप्यादनन्तरं दश द्रव्याणि
योज्यानीति । तद्यथा तृतीयध्यानादनन्तरं दश—स्वभूमिके द्वे शुद्धकानास्रवे,
चतुर्थध्यानाकाशानन्त्यायतनभूमिकानि चत्वारि, तथैव च प्रथमद्वितीयध्यान-
भूमिकानि चत्वारीति । चतुर्थध्यानादनन्तरं दश—स्वभूमिके द्वे शुद्धकानास्रवे,
आकाशविज्ञानानन्त्यायतनभूमिकानि चत्वारि, द्वितीयतृतीयध्यानभूमिकानि
चत्वारीति । आकाशानन्त्यायतनादनन्तरं दश—स्वभूमिके द्वे, विज्ञानाकिञ्च-
न्यायतनभूमिकानि चत्वारि, तृतीयचतुर्थध्यानभूमिकानि चत्वार्युत्पद्यन्ते—
इत्येवं दश भवन्ति ।
अन्वयज्ञानानन्तरं चेति विस्तरः । इदं व्युत्पाद्यते, ऊर्ध्वाधरभूम्या-
लम्बनत्वाद्व्यानानामस्ति प्रसङ्ग इति कृत्वा । तस्याधराश्रयालम्बनत्वादिति ।
यस्मात् तद्धर्मज्ञानम् अधराश्रयकामधात्वाश्रयमधरालम्बनं कामदुःखाद्या-
१. ०रूप्यानन्तरं—का० ।
निर्देशः ] अष्टमं कोशस्थानम् ११५५
यथा चानास्रवादनन्तरमुक्तं वेदितव्यम्,
तथा शुद्धात् क्लिष्टं चापि स्वभूमिकम् ॥ १५ ॥
स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते । शेषं यथैवानास्रवात् ।
अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति ॥ १५ ॥
क्लिष्टात् स्वं शुद्धं क्लिष्टम्,
क्लिष्टात् समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते ।
' एवं चाधरशुद्धकम् ।
क्लेशोत्पीडितो ह्यधरमपि समापत्ति शुद्धकं बहु मन्यते । यदि
क्लिष्टं परिच्छिद्याधः सञ्चरति । कुशलात् सञ्चरितो भवति न क्लिष्टात् ।
अथापरिच्छिद्य कथं सञ्चरति ? पूर्वविघात् । पूर्वं हि स एवंकामो भवति—
वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति । पूर्वाभिप्रायं च सन्ततिरनु-
वर्तते सत्त्वानाम्, प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् । अनास्रवं तु
क्लिष्टादनन्तरं सर्वथा नोत्पद्यते । समापत्तिकालं प्रत्येतदुक्तम् । शुद्धात्
क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते, नान्यभूमिकमिति ।
व्युत्तौ तु शुद्धात् क्लिष्टं सर्वम्,
लम्बनम् । तस्याधराश्रयत्वालम्बनत्वान्न धर्मज्ञानानन्तरमारूप्यान् समा-
पद्यन्ते ।
शेषं यथैवानास्रवादिति । स्वभूमिके च शुद्धानास्रवे उत्पद्येते;
ऊर्ध्वाधोभूमिके च, यावत् तृतीयादिति ॥ १५ ॥
प्रणिधायेति विस्तरः । यदि कश्चिदेवं बुद्धिमुत्पाद्य 'अर्धरात्रे चन्द्रोदये
चन्द्रास्तमये वा मया प्रबोद्धव्यम्' इति स्वपेद् स पूर्वाभिप्रायानुवर्तनात्
सन्ततेः, तस्मिन्नेव काले प्रबुद्ध्यते । यथाऽस्यैवं प्रणिधाय सुप्तस्य
तस्याभिप्रेते काले प्रबोधो भवति । तद्वदेतत् । सर्वथा नोत्पद्यत
इति । नापि स्वभूमिकम्, नाप्यधरभूमिकमुत्पद्यते-इत्यर्थः । समापत्तिकालं
प्रत्येतदित्युक्तमिति । शुद्धात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव
क्लिष्टमुत्पद्यते, नान्यभूमिकमिति । कथम् ? तथा शुद्धात् क्लिष्टं वापि
स्वभूमिकम्, क्लिष्टात् स्वं शुद्धं क्लिष्टमित्येवम् ।
१. शेषान्—जा० ।
११५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्ट-
मुत्पद्यते।
क्लिष्टात्तु नोत्तरम् ॥ १६ ॥
क्लिष्टात्तु ध्यानादारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्ट-
मुत्पद्यते। नोर्ध्वभूमिकम् ॥ १६ ॥
न च सर्वस्माच्छुद्धकादनास्रवं
चतुर्धा शुद्धकं हानभागीयादि,
हानभागीयम्, विशेषभागीयम्, स्थितिभागीयम्, निर्वेधभागीयमिति
चतुर्विधं शुद्धकम्। भवाग्रं तु त्रिविधम्; अन्यत्र विशेषभागीयात्।
किमस्य लक्षणम् ?
यथाक्रमम्।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ १७ ॥
क्लेशोत्पत्त्यनुगुणं ; स्वभूम्यनुगुणं स्थितिभागीयम्, ऊर्ध्व-
भूम्यनुगुणं विशेषभागीयम्, अनास्रवानुगुणं निर्वेधभागीयम्। तस्मादनास्रव-
मुत्पद्यते ॥ १७ ॥
च्युतिकाले तु। मरणभवे। उपपत्तिलाभिकाच्छुद्धकादिति विस्तरः।
उपपत्तिध्यानेषु यदुपपत्तिलाभिकं कुशलं समाहितम्, तदपि शुद्धकं
ध्यानमित्युच्यते। अत इदमुच्यते—च्युतिकाले त्विति विस्तरेण। किं
कारणम् ? असमाहितत्वान्मरणभवस्य। न हि तदानीं शुद्धकं समापत्ति-
ध्यानमस्तीति।
अथ सर्वभूमिकं क्लिष्टमुत्पद्यत इति। स्वभूमिकाधरोर्ध्वभूमिकं
प्रतिसन्धिश्चित्तं क्लिष्टमसमाहितमुत्पद्यते—इत्यर्थः।
नोर्ध्वभूमिकमिति। क्लिष्टसद्भावे सति तत्रोपपत्त्यसम्भवात् ॥ १६ ॥
अन्यत्र विशेषभागीयादिति। इत ऊर्ध्वभूम्यभावात्।
तस्मादनास्रवमुत्पद्यत इति। निर्वेधभागीयात् ॥ १७ ॥
निर्देशः ] अष्टमं कोशस्थानम् ११५७
अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ?
द्वे त्रीणि त्रीणि चैकं च हानभागाद्यनन्तरम् ।
हानभागोयं हानभाक् । तस्मादनन्तरं द्वे उत्पद्येते--हानि-स्थिति-
भागिये । स्थितिभागीयादनन्तरं त्रीणि, अन्यत्र निर्वेधभागीयात् । विशेष-
भागीयादनन्तरं त्रीणि, अन्यत्र हानभागीयात् । निर्वेधभागीयादनन्तरं
तदेवैकमिति ।
कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते ?
गत्वागम्य द्विधा भूमीरष्टाकृष्टैकलङ्घिताः ॥ १८ ॥
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीया ।
गत्वेति । अनुलोमं समापद्य । आगम्येति । प्रतिलोमं समापद्य ।
द्विधेति । सास्रवानास्रवा भूमीः । अष्टाविति । ध्यानाहूप्यसमापत्तीः ।
आकृष्टा१ इति । अनुक्रमेण । एकलङ्घिता इति । एकामेकामुत्क्रम्य ।
सास्रवा अष्टौ भूमीरनुलोमप्रतिलोमं निर्जित्य अनास्रवाश्च
सप्त । पश्चात् सास्रवात् प्रथमाद्ध्यानात् सास्रवं तृतीयं समापद्यते, तस्मा-
दाकाशानन्त्यायतनम्, तस्मादाकिञ्चन्यायतनम् । एवं पुनः प्रतिलोमं
निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यन्ते । अय
प्रयोगो व्युत्क्रान्तकसमापत्तेः ।
यदा तु प्रथमात् सास्रवात् तृतीयमनास्रवं ध्यानं समापद्यते, तस्मात्
सास्रवमाकाशानन्त्यायतनम्, तस्मादनास्रवमाकिञ्चन्यायतनम् । एवं पुनः
प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । अति-
विप्रकृष्टत्वान्न चतुर्थी समापद्यते । तां च त्रिषु द्वीपेषु असमयविमुक्त
हानस्थितिभागीये इति । हानभागीय प्रवाहकाले, स्थितिभागीय
विशेषगमनकाले । अन्यत्र हानभागीयादिति । विशेषभागीयाद्धीयमानस्य
स्थितिभागीयापरित्यागे तस्यैवोत्पत्तियोगात् । तदेवैकमिति । तदेव निर्वेध-
भागीय प्रवाहयोगेन ।
आकृष्टा इत्यनुक्रमेणेति । अनुलोमानुक्रमेण, प्रतिलोमानुक्रमेण च ।
१. शिष्टा-का० ।
११५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
एवाहून्नुत्पादयति; निःक्लेशत्वात्, समाधिवशित्वाच्च । दृष्टि प्राप्तस्य
यद्यपि तीक्ष्णेन्द्रियत्वात् समाधौ वशित्वम्, न तु निःक्लेशः । समयविमुक्तो
यद्यपि निःक्लेशः, न त्वस्य समाधौ वशित्वमिति ।
केनाश्रयेण कति ध्यानानारूप्याः सम्मुखीक्रियन्ते ?
स्वाधोभूम्याश्रया एव,
ध्यानाश्रया एव ।
ध्यानानारूप्याः,
भवाग्रं भवाग्रे च सम्मुखीक्रियते, अधश्च यावत् कामधातौ । शेषाणि
स्वस्यां भूमावधश्चेति ।
किं कारणमूर्ध्वोपपन्नो नाधरां समापत्तिं सम्मुखीकरोति ? यस्मात्तस्य
वृथाऽधरम् ॥ १९ ॥
नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित् प्रयोजनं विधीयते;
निहीनत्वात् ॥ १९ ॥
उत्सर्गं कृत्वापवादं करोति—
आर्याकिञ्चन्यसाम्मुख्यात् भवाग्रे त्वास्रवक्षयः ।
भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसम्मुखीभावादास्रवक्षयो
भवति ।
कथं तत्रोपपन्नस्य तत्सम्मुखीभावः ? स्वस्याभावात्, तस्य
चाभ्यासात् ।
विधीयत इति । क्रियत इत्यर्थः । स्थाप्यत इति वा । किं कारणम् ?
निहीनत्वात् ॥ १८-१९ ॥
“आर्याकिञ्चन्यसाम्मुख्यात्” इति । आर्यमनास्रवम् । अनास्रवस्य
आकिञ्चन्यायतनस्य साम्मुख्यात् सम्मुखीभावात् ।
भवाग्रे जातस्यास्रवप्रहाणं भवति । तु-शब्दोऽपवादार्थं द्योतयति ।
स्वस्याभावादिति । भवाग्रिकस्यानास्रवस्य मार्गस्याभावादित्यर्थः ।
तस्य चाभ्यासादिति । तस्य आकिञ्चन्यायतनस्य अनास्रवस्याभ्यासात्,
सन्निकृष्टत्वात् ।
निर्देशः ] अष्टमं कोशस्थानम् ११५९
अथैषां ध्यानाप्याणां किमालम्बनम् ?
सतृष्णाः स्वभवालम्बाः,
आस्वादनासम्प्रयुक्ताः स्वभूमिकं भवमालम्बन्ते। भवग्रहणेन सास्रवं
वस्तु गृह्यते। नाधरमालम्बन्ते; वीतरागत्वात्। नोत्तरम्; तृष्णा-
परिच्छिन्नत्वात् भूमीनाम्। नानास्रवम्; कुशलत्वप्रसङ्गादिति।
ध्यानं सद्विषयं शुभम् ॥ २० ॥
कुशलं ध्यानं शुभकमनास्रवं च । तत् सर्वालम्बनं यत्किञ्चिदस्ति
संस्कृतमसंस्कृतं वा ॥ २० ॥
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।
मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनम्, स्वोर्ध्व-
भूम्यालम्बनत्वात्। अनास्रवं त्वालम्बनम्। सर्वान्वयज्ञानपक्षो१ न धर्म-
तृष्णापरिच्छिन्नत्वाद् भूमीनामिति। या यस्यां भूमौ, तस्यामेव
भूमावनुशयनात्, तया सा भूमिः परिच्छिन्ना भवति। अन्यथा हि
तस्योत्तरत्वमेव न सिद्ध्येत्, एकभूमिस्थानानन्तरत्वात्। अथ एवोत्तराधर्येऽपि
स्थानान्तराणां त्रयाणां त्रयाणाम्, अष्टानां चैकभूमिता सिद्ध्यति;
तृष्णाव्यतिहारयोगात्। नानास्रवं कुशलत्वप्रसङ्गादिति। तत्प्रार्थना हि
कुशलो धर्मच्छन्द इति ॥ २० ॥
“न मौलाः कुशलारूप्याः सास्रवाधरगोचराः” इति। मौलग्रहणं
सामन्तकनिरासार्थम्। आरूप्यसामन्तकानि ह्याधरां सास्रवां भूमिमालम्बन्ते२।
कुशलग्रहणम् आस्वादनासम्प्रयुक्तनिरासार्थम्। उभयकुशलग्रहणार्थं च।
यदि हि 'आरूप्या' इत्येवोच्येत, आस्वादनासम्प्रयुक्ता मौला आरूप्या न
सास्रवाधरगोचरा इति सम्भाव्येरन्। अनास्रवा एवारूप्या एवमिति
गृह्येरन्। आरूप्यग्रहणं ध्याननिरासार्थम्। ध्यानानि हि मौलान्यपि
सास्रवाधरवस्त्वालम्बनानि भवन्ति; समन्तालोचनत्वाद् ध्यानानाम्।
सास्रवग्रहणं अनास्रवनिवृत्त्यर्थम्। अनास्रवा हि अधरा धर्मा
मौलानां कुशलानामारूप्याणामालम्बनानि सम्भवन्ति। अधरग्रहणमूर्ध्व-
विशेषणार्थम्। ऊर्ध्वभूमिकसास्रवालम्बनसम्भवात्। अनास्रवं त्वालम्बन-
१. ०पक्ष्यो—का० । २. ०मालम्बते—जा० ।
'अभि० को० ४ : ९
११६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
ज्ञानपक्षः, नाधोभूमिनिरोधः । सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरा-
लम्बनम् ।
एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम्
अनास्रवेण हीयन्ते क्लेशाः,
न शुद्धकेन । कुत एव क्लिष्टेन ! वीतरागत्वान्नाधः । तस्यैव
तदप्रतिपक्षत्वान्न स्वभूमौ । विशिष्टतरत्वान्नोर्ध्वमिति ।
सामन्तकेन च ॥ २१ ॥
ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते । शुद्धकेनापि; अधो-
मित्युद्ग्राह्य दर्शयति—सर्वान्वयज्ञानपक्ष इति । सर्व इति नवभूमिक
इन्द्रियगोत्रादिभेदभिन्नोऽपि गृह्यते । अन्वयज्ञानपक्ष इति पक्षग्रहणेन
दुःखान्वयज्ञानक्षान्तय तत्सहभुवश्च गृह्यन्ते । न धर्मज्ञानपक्ष इति ।
कामदुःखाद्यालम्बत्वेन विप्रकृष्टत्वात् । नाधोभूमिनिरोधः । अधोभूमि-
ग्रहणप्रसङ्गादिति । व्याख्यातमेतत् पुरस्तात् ॥
“अनास्रवेण हीयन्ते क्लेशाः” इति । ध्यानारूप्याणां योऽनास्रवः
सम्भवति, तेन यथासम्भवं क्लेशाः प्रहीयन्ते । कतमेनानास्रवेण ? मौलेन ।
वक्ष्यति हि—सामन्तकेन चेति । (अभि० को० ८.२१) । अपवादकरूपेण
सामन्तरूपेण शुद्धकेन क्लेशाः प्रहीयन्ते—इत्यधिकृतम् । कुत एव
क्लिष्टनेति । क्लिष्टेन क्लेशप्रहाणं नैव सम्भवतीत्यभिप्रायः । किं कारणं
शुद्धकेन क्लेशाः न प्रहीयन्ते इति ? आह—वीतरागत्वान्नाध इति विस्तरः ।
अधरभूमिवीतरागत्वान्न शुद्धकेनाधरभूमिकाः प्रहीयन्ते, कुत एव क्लिष्टेन !
तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ । तस्यैव प्रथमध्यानस्य, यावत्,
नैवसंज्ञानासंज्ञायतनस्य । तदप्रतिपक्षत्वात्—तस्याप्रतिपक्षः तदप्रतिपक्षः,
तद्भावस्तस्मात् तदप्रतिपक्षत्वान्न स्वभूमौ क्लेशाः प्रहीयन्ते । न हि
भवेन भवस्य निःसरणमस्ति । विशिष्टतरत्वान्नोर्ध्वमिति । नोर्ध्वभूमिका
क्लेशाः अधरभूमिकेन शुद्धकेन प्रहीयन्ते; विशिष्टतरत्वात् क्लेशानाम् ।
न च न्यूनमाश्रित्य विशिष्टानां प्रहाणं युज्यते इति अनेन शुद्धकेनापि
क्लेशा न प्रहीयन्ते कुत एव क्लिष्टेनेति सिद्धमेतत् । शुद्धकेनापीति । अपि-
शब्दात् अनास्रवेणापीति । सम्भवतस्त्वेतदुक्तम् । अत एवोच्यते—
अधोभूमिप्रतिपक्षत्वादिति । कामावचरा हि क्लेशाः प्रथमध्यानसामन्तकेन
निर्देशः ] अष्टमं कोशस्थानम् ११६१
भूमिप्रतिपक्षत्वात् ॥ २१ ॥
कति पुनः सामन्तकानि ?
अष्टौ सामन्तकान्येषाम्,
एकैकस्यैकैकं येन तत्प्रवेशः ।
किं तान्यपि त्रिविधानि, तथैव च तेषु वेदना ? नेत्युच्यते ।
शुद्धादुःखासुखानि हि ।
शुद्धकानि च तान्युपेक्षेन्द्रियसम्प्रयुक्तानि च यत्नवाह्यत्वाद्, अधोभूम्यु-
द्वेगानपगमात्, वैराग्यपथत्वाच्च नास्वादनासम्प्रयुक्तानि ।
आर्यं चाद्यम्,
आद्यं सामन्तक मनागम्यं तच्छुद्धकं चानास्रवं च । यद्यपि सामन्तकचित्तेन
प्रहीयन्ते । प्रथमध्यानभूमिका द्वितीयध्यानसामन्तकेन । एवं यावत्
आकिञ्चन्यायतनभूमिका नैवसंज्ञानासंज्ञायतनसामन्तकेनेति ॥ २१ ॥
येन तत्प्रवेश इति । येन सामन्तकेन तेषां मौलानां ध्यानारूप्याणां
प्रवेशः । किं तान्यपि त्रिविधानीति । आस्वादनासम्प्रयुक्तादिभेदात् ।
तथैव च तेषु वेदनेति । प्रथमयोर्ध्यानयोः प्रीतिः, तृतीये सुखम्, चतुर्थे
उपेक्षेत्युक्तम्, किमेवं सामन्तकेषु ।
उपेक्षेन्द्रियसम्प्रयुक्तानि च यत्नबाह्यत्वादिति । अनभिसंस्कारवाही
मार्गः प्रीतिसुखाभ्यां सम्प्रयुज्यते । तानि च सामन्तकानि यत्नबाह्यानि
साभिसंस्कारवाहानीति अत उपेक्षेन्द्रियसम्प्रयुक्तानि । पुनरधोभूम्युद्वेगान-
पगमात् प्रीतिसुखयोरयोग इति । अतोऽपि उपेक्षेन्द्रियसम्प्रयुक्तानि ।
नास्वादनासम्प्रयुक्तानीति । यदि ह्यास्वादनासम्प्रयुक्तानि
स्युः, वैराग्यमार्गो न स्यात् । न हि तृष्णासम्प्रयुक्तो मार्गः क्लेश-
प्रहाणाय भवति ।
अथवा अयमभिसम्बन्धः—उपेक्षेन्द्रियसम्प्रयुक्तानि च यत्नबाह्य-
त्वात् । अधोभूम्युद्वेगानपगमाद् वैराग्यपथत्वाच्चेति द्वाभ्यां कारणाभ्यां
नास्वादनासम्प्रयुक्तानीति । पूर्ववत् वक्तव्यं शेषम् ।
यद्यपि सामन्तकचित्तेन सन्निबन्ध नि । अष्टास्वपि ध्याना-
११६२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
सन्धिबन्धः १ क्लिष्टो भवति । समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते ।
त्रिधा केचित्,
केचित् पुनरिच्छन्ति—आस्वादनासम्प्रयुक्तमप्यनागम्यं सामन्तकं
चोच्यते, ध्यानान्तरं च ।
किमिदमेकार्थम्, आहोस्विन्नानार्थम् ? सामन्तकं हि वैराग्यमार्गः ।
अतर्कं ध्यानमन्तरम् ॥ २२ ॥
ध्यानमेव हि वितर्कासम्प्रयुक्तं ध्यानान्तरम्; ध्यानविशेषत्वात् । अत
एव द्वितीयादिषु ध्यानेषु न व्यवस्थाप्यते; विशेषाभावादिति ॥ २२ ॥
तत् पुनर्ध्यानान्तरम्
त्रिधा,
आस्वादनासम्प्रयुक्तम्, शुद्धकम्, अनास्रवं च ।
अदुःखसुखं तच्च,
नात्र सुखं दुःखमित्यदुःखसुखम् । उपेक्षेन्द्रियसम्प्रयुक्तमित्यर्थः । न
रूप्येषु यस्य यत् सामन्तके, तस्य तेन सामन्तकचित्तेन क्लिष्टेनासमाहितेन
सन्धिबन्ध इत्येष सिद्धान्त इति । अत इदमुच्यते—यद्यपि सामन्तकचित्तेनेति
विस्तरः ।
आस्वादनासम्प्रयुक्तमप्यनागम्यमिति । अनागम्यस्य पटुत्वात् । यथा
हि तदनास्रवमपि सम्भवति, तथास्वादनासम्प्रयुक्तमपीत्यभिप्रायः ।
मौलप्रतिस्पर्धित्वादास्वादनासमुत्पत्तिसद्भावादिति आचार्यसङ्घभद्रः ।
ध्यानविशेषत्वादिति । तदेवं मौलं प्रथमं ध्यानं वितर्कापगमाद्
विशिष्टं ध्यानान्तरमुच्यते—इत्यर्थः । विशेषाभावादिति । यथा प्रथमे
ध्याने विशेषो भवति—क्वचिद् वितर्कविचारौ क्वचिद् विचार एवेति,
न तथा द्वितीयादिष्विति । अतो ध्यानेषु न व्यवस्थाप्यते ध्याना-
न्तरम् ॥ २२ ॥
१. प्रतिसन्धिबन्धः—का० ।
निर्देशः ] अष्टमं कोशस्थानम् ११६३
प्रीतिसम्प्रयुक्तम्; साभिसंस्कारवाहित्वात् । अत एव दुःखा प्रतिपत् ।
तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः ? तद्धि
महाब्रह्मफलं च तत् ।
तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति । पुनः सर्व-
समाधीन् सङ्कल्य त्रयः समाधयः उक्ताः सूत्रे—१. सवितर्कः सविचारः
समाधिः, २. अवितर्को विचारमात्रः, ३. अवितर्कोऽविचार इति ।
तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाधिरिति ज्ञापितम्;
वितर्कमात्रप्रतिषेधात् । ततः—
सवितर्कविचारोऽधःसमाधिः,
तस्माद् ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः । प्रथमं
ध्यानमनागम्यं च ।
परतोऽद्वयः ॥ २३ ॥
नात्र द्वयमस्तीत्यद्वयः । परेण तु ध्यानान्तरात् समाधिरवितर्को-
ऽविचारः । द्वितीयध्यानसामन्तकाद् यावद् भवाग्रम् ॥ २३ ॥
पुनस्त्रयः समाधय उक्ताः—शून्यतासमाधिः, अप्रणिहितः, आनि-
मित्तश्च । तत्र
आनिमित्तः समाकारैः,
निरोधसत्याकारैः सम्प्रयुक्तः समाधिरानिमित्तश्चतुराकारः । निर्वाणं
हि दशनिमित्तापगतत्वादनिमित्तम् । तदालम्बनः समाधिरानिमित्तः ।
पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश ।
शून्यतानात्मशून्यतः ।
प्रवर्त्तते,
अनात्मशून्यताकाराभ्यां सम्प्रयुक्तः शून्यतासमाधिर्द्व्याकारः ।
अप्रणिहितः सत्याकारैरतः परैः ॥ २४ ॥
अत एव दुःखा प्रतिपदिति । अत एव हि संस्कारवाहित्वा-
वितर्कमात्रप्रतिषेधादिति । “अतर्कं ध्यानमन्तरम्” ( अभि० को० ८.२२ ,
इति वचनात् ॥ २३ ॥
तदालम्बनः समाधिरानिमित्त इति । अनिमित्ते भव आनिमित्तः ।
११६४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
परैः शेषैः सत्याकारैः समाधिरप्रणिहितो दशाकारः। अनित्य-
दुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतयाऽवश्यत्याज्यत्वात् तदाकारः
समाधिरप्रणिहितः; तदतिक्रमाभिमुखत्वात्।
शून्यतानात्मताभ्यां तु नोद्वेग; निर्वाणसामान्यात् ॥ २४ ॥
त एते त्रयः समाधयो द्विविधाः-
शुद्धाऽमलाः,
शुद्धकाश्च, अनास्रवाश्च; लौकिकलोकोत्तरत्वात्। लौकिका
एकादशसु भूमिषु। लोकोत्तरा यत्र मार्गः।
दशाकार इति। अनित्यदुःखाकारौ द्वौ, समुद्रायाकाराश्चत्वारः,
मार्गाकाराश्चत्वारः-इत्येते दश आकाराः। अनित्यदुःखतद्धेतुभ्य उद्वेगा-
दिति। अनित्याद् दुःखात्, तद्धेतोश्च। तस्य दुःखस्य हेतोश्च समुदाया-
दुद्वेगात्। किम्? अप्रणिहितः। अकृतसंस्कार इत्यर्थः। मार्गस्य कोलो-
पमतयाऽवश्यत्याज्यत्वात्। कोल उच्यते उडुपः। स उपमा अस्येति
कोलोपमः मार्गः, तद्भावस्तया। कोलोपमतया मार्गस्यावश्यत्याज्यत्वम्,
तस्मात्। अप्रणिहित इत्यधिकृतः। यथा हि कोलमाश्रित्य नदीमुत्तरन् न
कोलनिष्ठो भवति, तस्यावश्यत्याज्यत्वात्; एवं मार्गमाश्रित्य न मार्गनिष्ठो
भवति, तस्यावश्यत्याज्यत्वात्। तदाकार इति। तद्दशाकारो यथोक्तः।
तदतिक्रमाभिमुखत्वादिति। तस्य मार्गस्यातिक्रमेऽभिमुखत्वात्। अनेना-
वश्यत्याज्यत्वमस्य दर्शयति। अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्यनुक्त-
मप्येतद् गम्यत एव। शून्यतानात्मताभ्यां तु नोद्वेग इति। शून्यानात्मा-
काराभ्यां तु नोद्वेगो योगिनो भवति। यद्यपि हि दुःखसत्यं शून्यानात्मा-
काराभ्यामाकार्यते, न तु ताभ्यां तस्माद् दुःखादुद्वेगः। कस्मात्?
निर्वाणसामान्यात्। निर्वाणमपि शून्यानात्मलक्षणम्। शून्यताऽनात्मता
हि सर्वधर्माणां लक्षणमिति। न च ताभ्यां तस्मान् निर्वाणाद् उद्वेगः।
तस्मान्न तदाकारोऽप्रणिहितसमाधिरिति ॥ २४ ॥
लौकिका एकादशस्विति। कामधातावनागम्ये ध्यानान्तरे, ध्याना-
रूप्येषु चेति। यत्र मार्ग इति। कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु
भूमिषु।
निर्देशः ] अष्टमं कोशस्थानम् ११६५
निर्मलास्तु ते विमोक्षमुखत्रयम् ।
अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते । शून्यता
विमोक्षमुखम्, अप्रणिहितम्, आनिमित्तं विमोक्षमुखमिति; मोक्षद्वारत्वात् ।
पुनश्चोच्यन्ते—
शून्यताशून्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ २५ ॥
शून्यताशून्यता, अप्रणिहिताप्रणिहितः, आनिमित्तानिमित्तश्च ।
शून्यताद्यालम्बनत्वात्तन्नाम ॥ २५ ॥
तेषां पुनः—
आलम्बेते अशैक्षं द्वौ शून्यता¹ चाप्यनित्यतः¹ ।
अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं
शून्यतासमाधिमालम्बते शून्यताकारेण । अप्रणिहिताप्रणिहितोऽप्यशैक्षम-
मोक्षद्वारत्वादिति । द्वारार्थो मुखार्थ इति दर्शयति ॥
शून्यताद्यालम्बनत्वात्तन्नामेति । शून्यताप्रणिहितानिमित्तालम्ब-
नत्वात् ।
शून्यताशून्यतेति नाम । अप्रणिहिताप्रणिहितेति अनिमित्तानिमित्तेति
च ॥ २५ ॥
“शून्यता चाप्यनित्यतः” इति । यथासङ्ख्येन । शून्यताशून्यता हि
शून्यताकारेणाशैक्षं शून्यतासमाधिमालम्बते । नायमात्मीयमिति । नात्मा-
कारेण ।
आह—किमत्र कारणं यच्छून्यताशून्यतासमाधिः शून्यताकार एव,
न पुनरनात्माकारोऽपि शून्यतावदिति ? अत्रोच्यते—शून्यताकारप्रवृत्त-
शून्यतापृष्ठोत्पाद्यत्वात् । आह—किमर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठे-
नोत्पत्तिः, न पुनरनात्माकारप्रवृत्तशून्यतापृष्ठेनेति ? अत्रोच्यते—तदुत्पत्त्या-
नुकूल्यात् । स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस्तस्य शून्यता-
शून्यतासमाधेरुत्पत्तौ आनुकूल्येनावतिष्ठते, नानात्माकारः । न ह्येवम्
अनात्मदर्शनमुद्वेजयति, यथा शून्यतादर्शनम् । दृष्टेष्वपि हि अनात्मतो
१-१. शून्यतश्चाप्यनित्यतः—का० ।
प्रणीततश्चानित्याकारेण। न दुःखतो न हेत्वादितोऽनास्रवस्यातल्लक्षणत्वान्न
मार्गकारैः दूषणीयत्वात्।
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम्' ॥ २६ ॥
आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोध-
मालम्बते। शान्ताकारेण; अनास्रवस्य प्रतिसंख्यानिरोधाभावात्।
भवेष्वभिरति रस्तः संसारे शून्यतादर्शनाभावात्। तद्यथा अध्वगस्यासम्बन्धाद्
अध्वगदर्शनादपि प्रीतिः। एकाकिनस्तु तच्छून्यत्वादप्रीतिरिति, तद्वत्।
अनित्याकारेणेति। दशानामाकाराणाम्। न दुःखत इति विस्तरः।
न दुःखत आकारयन्ति, अनास्रवस्यातल्लक्षणत्वात्। आर्यप्रतिकूलतया हि
दुःखमिष्यते, न हेतुसमुदयप्रभव-प्रत्ययाकारैरनास्रवस्यातल्लक्षणत्वादेव,
अनास्रवस्यासमुदयादिलक्षणत्वादित्यर्थः। न मार्गाकारैर्द्रूषणीयत्वादिति।
सोऽशैक्षः समाधिर्दुषयितव्यः, न च मार्गाकारा दूषणरूपा इति। अतो न
मार्गाकारैस्तं समाधिमालम्बते। निरोधाकारैस्तु नैव सम्बन्ध इति। न
तैश्चिन्त्यते। पारिशेष्यादनित्याकारेणैव।
असंख्यया क्षयमिति। अप्रतिसंख्यानिरोधमित्यर्थः। अशैक्षस्या-
निमित्तस्य समाधेर्लक्षणविशेषधर्ममालम्बते। शान्ततः। शान्तोऽयमिति।
कथं तस्याप्रतिसंख्यानिरोधः ? अशैक्षादनिमित्तात् समाधेर्व्युत्थितस्य तद-
नन्तरं ये सास्रवाः क्षणा अतिक्रामन्ति, अन्ये चानास्रवाः। यदि ते
नोत्पन्नाः स्युः, अशैक्षा अनिमित्तक्षणा उत्पन्नाः स्युः। तेषां सास्रवाणाम्,
अन्यानास्रवाणां चोत्पत्तिकाल तेषामशैक्षाणामानिमित्तक्षणानाम् अप्रति-
संख्यानिरोधो लभ्यते; प्रत्ययवैकल्यात्। तमप्रतिसंख्यानिरोधमालम्बते
शान्ताकारेण; 'अनास्रवस्य प्रतिसंख्यानिरोधाभावात्। न प्रतिसंख्या-
निरोधमालम्बते। कस्मात् पुनरनास्रवस्य प्रतिसंख्यानिरोधो नास्ति ?
अप्रतिकूलत्वात्। यद्धि प्रतिकूलमार्याणाम्, तत्संयोगस्य विसंयोगाय यतस्ते
यतन्ते। विसंयोगश्च प्रतिसंख्यानिरोधः। अतोऽनास्रवस्य न प्रतिसंख्या-
निरोधः। किञ्च—अशैक्षस्यानिमित्तस्य समाधेः प्रतिसंख्यानिरोधाभावात्,
अप्रतिसंख्यानिरोधस्य च तत्प्रत्यर्थिकभूतत्वात्, तत्प्रोत्साहनेनैव तद्वि-
दूषणमभिलषन् तदप्रतिसंख्यानिरोधमेवालम्बते। शत्रुप्रग्रहेण हि लोके
मार्गोपघातः क्रियमाणो दृश्यत इति। न निरोधप्रणीतनिःसरणाकारैरिति ।
१. ०संख्येया क्षयम्—जा०।
निर्देशः ] अष्टमं कोशस्थानम् ११३७
न निरोधप्रणीतनिःसरणाकारैः, अनित्यतानिरोधसाधारणत्वाद्, अव्या-
कृतत्वाद्, अविसंयोगाच्च ॥ २६ ॥
एकान्तेन चैते परसमाधयः—
सास्रवाः,
आर्यमार्गद्वेषित्वात् । नह्येवमनास्रवा इति ।
कुत्रोत्पद्यन्ते ?
नृषु,
मनुष्येष्वेव, न देवेषु ।
कस्योत्पद्यन्ते ?
अकोप्यस्य,
नान्यस्यार्हतः ।
कतिभूमिकाः ?
निरोधः साधारणः, न निरोध इति तद्भावः, तस्मात् । अनित्यतानिरोध-
साधारणत्वाद् । अयमप्रतिसंख्यानिरोधः, न निरोधाकारेणाकार्यते । अन्यथा
हि शान्ताकारेण तद्विशिष्टेन नालम्बितः स्यात् । निरोधाकारेण हि
अनित्यतानिरोधेनैव दूषित एवासौ अप्रतिसंख्यानिरोधः स्यात् । तद्-
दूषणेन नाशैश्र अनिमित्तसमाधिदूषितः स्यादित्यभिप्रायः । न प्रणीता-
कारेण; अव्याकृतत्वाद् अप्रतिसंख्यानिरोधस्य । कुशलं हि प्रणीतम्,
नाव्याकृतम् । अतो न प्रणीताकारेणालम्बते । अविसंयोगाच्च । अप्रतिसंख्या-
निरोधस्य । न निःसरणाकारेण तमालम्बते । संक्लेशवियोगो हि संक्लेश-
निःसरणमिष्यते । यस्मान्नाप्रतिसंख्यानिरोधेन संसारनिःसरणं भवति ।
तथा हि सत्यपि अप्रतिसंख्यानिरोधे केषाञ्चित् कुशलाकुशलानां धर्माणां
तैः सम्प्रयुक्त एव, तत्प्राप्त्यविच्छेदात् ॥ २६ ॥
आर्यमार्गद्वेषित्वादिति । कथं द्वेष्टि ? शून्यतादिभिराकारैस्त-
द्वैमुख्यात् ।
“अकोप्यस्य” इति । अकोप्यधर्मणः । तस्य तीक्ष्णेन्द्रियत्वात्
तदुत्पादने सामर्थ्यमस्ति, नान्यस्यार्हतः । तेभ्यो दृष्टधर्मसुखविहारत्वात्
११६८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
सप्तसामन्तवर्जिताः ।
सप्त सामन्तकानि हित्वाऽन्यास्वेकादशसु भूमिषु । कामधात्वनाग-
म्यध्यानान्तरध्याना रूप्येषु ।
पुनश्चतस्रः समाधिभावना उच्यन्ते । "अस्ति समाधिभावना आसेविता
भाविता बहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते" इति विस्तरः । तत्र—
समाधिभावना ध्यानं शुभमार्धं सुखाय हि ॥ २७ ॥
कुशलं प्रथमं शुद्धकमनास्रवं दृष्टधर्मसुखविहाराय ˙समाधिभावना ।
तदादिकत्वादन्यान्यपि¹ ज्ञेयानि । नावश्यं सम्परायसुखविहाराय; अपरि-
त्रासङ्गास्पदभूतेभ्योऽशैक्षेभ्यः शून्यतादिसमाधिभ्यो वैमुख्यार्थमपरसमाधीन्
समापद्यन्ते ।
विस्तर इति । "अस्ति समाधिभावना आसेविता भाविता बहुलीकृता
दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तते । अस्ति
निर्देशः ] अष्टमं कोशस्थानम् ११६६
हीनोर्ध्वोपपन्नपरिनिवृतानां च१ तदभावात् ॥ २७ ॥
दर्शनायाक्ष्यभिज्ञेष्टा,
दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना ।
धीभेदाय प्रयोगजाः ।
प्रयोगजाः सर्वे गुणास्त्रैधातुकानस्रवाः प्रज्ञाप्रभेदाय समाधि-
भावना ।
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षमभावना ॥ २८ ॥
यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।
आत्मोपनायिका२ किलैषा भगवतो धर्मोपदेशना३ । अतश्चतुर्थं४
एवाह ॥ २८ ॥
कृतः समाधीनां कालगतो निर्देशः ॥
ऊर्ध्वोपपन्नानां द्वितीयादिषु । परिनिर्वृतानां च सम्परायसुखविहार-
स्याभावात् ॥ २७ ॥
ज्ञानदर्शनायेति । ज्ञानाय, दर्शनाय चेति समासः । तत्र ज्ञानं
मनोविज्ञानसम्प्रयुक्ता प्रज्ञा । “अमी भवन्तः सत्त्वाः कायदुश्चरितेन
समन्वागताः” इत्येवमादि विकल्पात् । दर्शनं चक्षुर्विज्ञानसम्प्रयुक्ता प्रज्ञा
अविकल्पिका ।
त्रैघातुका अनास्रवा इति । त्रैघातुका अशुभानापानस्मृत्यरण-
प्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः । अनास्रवा विमोक्ष-
सुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः । अत्र तु समाधिसम्प्रयोगात्
प्रायोगिकानां गुणानां समाधिभावनेत्युपचारः । प्रज्ञाप्रभेदायेति । प्रज्ञा-
विशेषकर्षाय । आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति । आत्मन
उपनायिका, आत्मनो देशिकेत्यर्थः । बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय
चक्षुषा सत्त्वान् च्युत्युपपत्तिसङ्कटस्थान् अभिवीक्ष्य तत्परित्राणाय मध्यमे
यामे ध्यानविमोक्षसमापत्तीः सम्मुखीकृतवान् । तेऽस्य प्रायोगिका गुणाः
प्रज्ञाप्रभेदाय जायन्ते । ततः तृतीये यामे चतुर्थं ध्यानं निःसृत्य नियाम-
मवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवानिति ।
१. का० पुस्तके नास्ति । ३. धर्मदेशना—का० ।
२. ०पनायिकी—का० । ४. ०श्रतुर्थं—का० ।