सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1182, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1182

निर्देशः ] अष्टमं कोशस्थानम् ११५९
अथैषां ध्यानाप्याणां किमालम्बनम् ?
सतृष्णाः स्वभवालम्बाः,
आस्वादनासम्प्रयुक्ताः स्वभूमिकं भवमालम्बन्ते। भवग्रहणेन सास्रवं
वस्तु गृह्यते। नाधरमालम्बन्ते; वीतरागत्वात्। नोत्तरम्; तृष्णा-
परिच्छिन्नत्वात् भूमीनाम्। नानास्रवम्; कुशलत्वप्रसङ्गादिति।
ध्यानं सद्विषयं शुभम् ॥ २० ॥
कुशलं ध्यानं शुभकमनास्रवं च । तत् सर्वालम्बनं यत्किञ्चिदस्ति
संस्कृतमसंस्कृतं वा ॥ २० ॥
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।
मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनम्, स्वोर्ध्व-
भूम्यालम्बनत्वात्। अनास्रवं त्वालम्बनम्। सर्वान्वयज्ञानपक्षो१ न धर्म-
तृष्णापरिच्छिन्नत्वाद् भूमीनामिति। या यस्यां भूमौ, तस्यामेव
भूमावनुशयनात्, तया सा भूमिः परिच्छिन्ना भवति। अन्यथा हि
तस्योत्तरत्वमेव न सिद्ध्येत्, एकभूमिस्थानानन्तरत्वात्। अथ एवोत्तराधर्येऽपि
स्थानान्तराणां त्रयाणां त्रयाणाम्, अष्टानां चैकभूमिता सिद्ध्यति;
तृष्णाव्यतिहारयोगात्। नानास्रवं कुशलत्वप्रसङ्गादिति। तत्प्रार्थना हि
कुशलो धर्मच्छन्द इति ॥ २० ॥
“न मौलाः कुशलारूप्याः सास्रवाधरगोचराः” इति। मौलग्रहणं
सामन्तकनिरासार्थम्। आरूप्यसामन्तकानि ह्याधरां सास्रवां भूमिमालम्बन्ते२।
कुशलग्रहणम् आस्वादनासम्प्रयुक्तनिरासार्थम्। उभयकुशलग्रहणार्थं च।
यदि हि 'आरूप्या' इत्येवोच्येत, आस्वादनासम्प्रयुक्ता मौला आरूप्या न
सास्रवाधरगोचरा इति सम्भाव्येरन्। अनास्रवा एवारूप्या एवमिति
गृह्येरन्। आरूप्यग्रहणं ध्याननिरासार्थम्। ध्यानानि हि मौलान्यपि
सास्रवाधरवस्त्वालम्बनानि भवन्ति; समन्तालोचनत्वाद् ध्यानानाम्।
सास्रवग्रहणं अनास्रवनिवृत्त्यर्थम्। अनास्रवा हि अधरा धर्मा
मौलानां कुशलानामारूप्याणामालम्बनानि सम्भवन्ति। अधरग्रहणमूर्ध्व-
विशेषणार्थम्। ऊर्ध्वभूमिकसास्रवालम्बनसम्भवात्। अनास्रवं त्वालम्बन-
१. ०पक्ष्यो—का० । २. ०मालम्बते—जा० ।
'अभि० को० ४ : ९