सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1180, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1180

निर्देशः ] अष्टमं कोशस्थानम् ११५७
अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ?
द्वे त्रीणि त्रीणि चैकं च हानभागाद्यनन्तरम् ।
हानभागोयं हानभाक् । तस्मादनन्तरं द्वे उत्पद्येते--हानि-स्थिति-
भागिये । स्थितिभागीयादनन्तरं त्रीणि, अन्यत्र निर्वेधभागीयात् । विशेष-
भागीयादनन्तरं त्रीणि, अन्यत्र हानभागीयात् । निर्वेधभागीयादनन्तरं
तदेवैकमिति ।
कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते ?
गत्वागम्य द्विधा भूमीरष्टाकृष्टैकलङ्घिताः ॥ १८ ॥
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीया ।
गत्वेति । अनुलोमं समापद्य । आगम्येति । प्रतिलोमं समापद्य ।
द्विधेति । सास्रवानास्रवा भूमीः । अष्टाविति । ध्यानाहूप्यसमापत्तीः ।
आकृष्टा१ इति । अनुक्रमेण । एकलङ्घिता इति । एकामेकामुत्क्रम्य ।
सास्रवा अष्टौ भूमीरनुलोमप्रतिलोमं निर्जित्य अनास्रवाश्च
सप्त । पश्चात् सास्रवात् प्रथमाद्ध्यानात् सास्रवं तृतीयं समापद्यते, तस्मा-
दाकाशानन्त्यायतनम्, तस्मादाकिञ्चन्यायतनम् । एवं पुनः प्रतिलोमं
निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यन्ते । अय
प्रयोगो व्युत्क्रान्तकसमापत्तेः ।
यदा तु प्रथमात् सास्रवात् तृतीयमनास्रवं ध्यानं समापद्यते, तस्मात्
सास्रवमाकाशानन्त्यायतनम्, तस्मादनास्रवमाकिञ्चन्यायतनम् । एवं पुनः
प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । अति-
विप्रकृष्टत्वान्न चतुर्थी समापद्यते । तां च त्रिषु द्वीपेषु असमयविमुक्त
हानस्थितिभागीये इति । हानभागीय प्रवाहकाले, स्थितिभागीय
विशेषगमनकाले । अन्यत्र हानभागीयादिति । विशेषभागीयाद्धीयमानस्य
स्थितिभागीयापरित्यागे तस्यैवोत्पत्तियोगात् । तदेवैकमिति । तदेव निर्वेध-
भागीय प्रवाहयोगेन ।
आकृष्टा इत्यनुक्रमेणेति । अनुलोमानुक्रमेण, प्रतिलोमानुक्रमेण च ।
१. शिष्टा-का० ।