सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

१११० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्णाति—
कीदृशेऽपि मे काये कीदृशं चित्तं भवति । एवं परेषामप्याभुजतश्चित्तज्ञानादभि-
ष्पन्ना भवति । अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति ।
पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य
प्रातिलोम्येन¹ अवस्थान्तराणि मनसिकरोति । यावत् सन्धिश्चित्तम् ।
ततोऽन्तराभवस्यैकक्षणं मरणोऽपि निष्पन्नो भवति । एवं परस्यापि स्मरति
अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् । अनुभूतपूर्वस्यैव स्मरणम् ।
शुद्धावासानां कथं स्मरणम् ? श्रवणेनानुभूतत्वात् । आरूप्यच्युत-
स्येहोपपन्नस्य परसन्तत्यधिष्ठानेनोत्पादनम् । अन्येषां स्वसन्तत्यधिष्ठानेन ।
ऋद्ध्यादीनां तु लघुत्वशब्दालोकमनसिकरणं प्रयोगः ॥ ४३ ॥
ताः पुनरेताः पञ्चाभिज्ञाः—
स्वाधोभूविषयाः,
यद्भूमिका ऋद्ध्यभिज्ञा भवति तां भूमिं तया गच्छति । निर्मिणोति
परचित्तं हि ज्ञातुकाम इति विस्तरः । आभुजत इति । आभोगं कुर्वतः ।
निमित्तमुद्गृह्णाति । चित्तप्रकारं परिच्छिद्येत्यर्थः । तत्प्रातिलोम्येनेति ।
तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धानि अवस्थान्तराणि मनसि करोति
विलङ्घ्यापि स्मरणमिति । एकं जन्म द्वे वा विलङ्घ्यापि व्यतिक्रम्यापि
स्मरणम् ।
शुद्धावासानां कथं स्मरणमिति । यद्यनुभूतपूर्वस्यैव स्मरणम्,
न हि शुद्धावासानामिहागमनमस्ति ; अनागामित्वात् तेन नैषामिहानुभूतिः ।
नापि तत्र, पृथग्जनानां तत्रानुपपत्तेः ? श्रवणेनानुभूतत्वादिति । श्रुतं हि
तेन भवति—शुद्धावासा नाम देवा एवम्भूता इति । द्विविधो ह्यनुभवः—
दर्शनानुभवः, स्मरणानुभवश्च । परसन्तत्यधिष्ठानेनोत्पादनमिति । ध्यान-
संगृहीतं पूर्वनिवासानुस्मृतिज्ञानम्, तेन चारूप्यावचरं चित्तं न गृह्णाति ।
कथं च पुनः परसन्तत्यधिष्ठानेनोत्पादनम् ? समनन्तरनिरुद्धान्मनोविज्ञानात्
परकीयं निमित्तमुद्गृह्णेति विस्तरः । अन्येषामिति । ये आरूप्येभ्यो न
प्रच्युताः, तेषां स्वसन्तत्यधिष्ठानेनैवोत्पादनम्; पूर्वनिवासानुस्मृतिज्ञानस्य
सुकरत्वात् ।
ऋद्ध्यादीनामिति । ऋद्धि-दिव्यश्रोत्र-दिव्यचक्षुरभिज्ञानां तिसृणां
यथाक्रमं लघुत्वमनसिकरणम् ऋद्धेः प्रयोगः । शब्दमनसिकरणं दिव्यश्रोत्रस्य ।
आलोकमनसिकरणं दिव्यचक्षुषः ॥ ४३ ॥
१. तत्समनन्तरप्राति०—का० ।

निर्देशः ] सप्तमं कोशस्थानम् १२११
वा अधराम्, नोत्तराम् । एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोति
अधरभूमिकं वा, नोर्ध्वभूमिकम् । चेतःपर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं
जानाति । पूर्वनिवासानुस्मृत्या न स्मरति । च्युतोपपादाभिज्ञया न पश्यति ।
अत एवारूप्यभूमिकं चित्तं चेतःपर्यायपूर्वनिवासाभिज्ञाभ्यां न गृह्णाति;
ऊर्ध्वभूमिकत्वात् ।
कथमेता लभ्यन्ते ? अनुचिताः प्रयोगतः
लभ्याः, उचितास्तु विरागतः ।
जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते, वैशेषिक्यः प्रयोगतः ।
सर्वासाम् तु प्रयोगेणोत्पादनम् ।
तृतीया त्रीण्युपस्थानानि,
चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि; चित्तचैत्ता-
लम्बनत्वात् ।
आद्यं श्रोत्रं द्विचक्षुषी ॥ ४४ ॥
'अभिज्ञा' इति वर्तते । ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञाः स्मृत्युपस्थान-
मित्यर्थः । रूपालम्बनत्वात् । ऋद्धिश्चतुर्बाह्यायतनालम्बना, अन्यत्र शब्दात् ।
दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने ।
कथं तर्हि "च्युत्युपपादज्ञानेनैव १ अमी २ बत ३ भवन्तः सत्त्वाः काय-
कथमेता लभ्यन्त इति । प्राप्तिमधिकृत्य प्रश्नः । सम्मुखीभावस्तु
चित्तानाम् । अनुचितानां च प्रयोगत एव । अनुचिताः प्रयोगत इति ।
वैशेषिक्यो या अनुत्पादपूर्वाः । सर्वासाम् तु प्रयोगेणोत्पादनमिति । याश्च
वैराग्याल्लभ्यन्ते, याश्च प्रयोगतः, तासां सर्वासाम् ।
अन्यत्र शब्दादिति । उच्छेदित्वात् शब्दो न निर्मीयते । वक्ष्यति हि—
“कामाप्तं निर्मितं वाह्यं चतुरायतनम्” (अभि० को० ७.४९) इति ।
कथं तर्हीति विस्तरः । यदि चक्षुरभिज्ञा रूपायतनालम्बना, कथं
१. च्युतोपपाद०—का० । २. जानाति अमी—का० ।
३. का० पुस्तके नास्ति ।
अभि० को० ४ : ६

१११२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
दुश्चरितेन समन्वागताः” इत्येवमादि ? न तत्तेन जानाति । अभिज्ञापरिवार-
ज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति । अनिर्धारणाच्छेषे चतुःस्मृत्यु-
पस्थानस्वभावे इति सिद्धम् ।। ४४ ।।
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते । ते पुनश्चक्षुःश्रोत्रविज्ञानसम्प्रयुक्तप्रज्ञे ।
कथं तर्हि ते चतुर्ध्यानभूमिके सिद्धयतः ? आश्रयवशेन तद्भूमि-
निर्देशात् । तदाश्रये हि चक्षुःश्रोत्र चतुर्ध्यानभूमिके । आनन्तर्यमार्गवशेन
वा । अन्याश्चतस्रः कुशलाः । यत्तर्हि प्रकरणेषूक्तम्—“अभिज्ञा कतमा ?
कुशला प्रज्ञा” ( ) इति ? प्राधानिक एष निर्देशः, बाहुलिको वा ।
तर्हि च्युत्युपपादज्ञानेन अमी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता
इत्येवमादि । न वाङ्मनस्कर्मसमन्वागमाश्चक्षुर्विज्ञानेन गृह्यन्ते । आदि-
शब्देन मिथ्यादृष्टिग्रहणम् । न तदिति । तद् वाङ्मनस्कर्मसमन्वागमादि
तेन चक्षुर्ज्ञानेन न जानाति । केन तर्हि ? इत्याह—अभिज्ञापरिवारज्ञानं तु
तदिति । मानसं तदित्यर्थः । शेषे इति । पूर्वेनिवासानुस्मृति-आस्रवक्षयाभिज्ञे ।
ते चतुःस्मृत्युपस्थानस्वभावे । कथम् ? आस्रवक्षयाभिज्ञा चतुःस्मृत्युप-
स्थानस्वभावा; दशज्ञानस्वभावत्वात् । षड्ज्ञानस्वभावत्वेऽपि कायवेदना-
चित्तस्मृत्युपस्थानान्यपि अन्यगतानि भाव्यन्ते ।। ४४ ।।
कथं तर्हि ते चतुर्ध्यानभूमिके सिद्धयतः ? न हि द्वितीयादिध्यान-
भूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति; चक्षुःश्रोत्रविज्ञानसम्प्रयुक्तत्वात् ।
तयोश्च द्वितीयादिषु ध्यानेषु अभावात् । वक्ष्यति हि—
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तम्” (अभि० को० ८.१३) इति ।
आश्रयवशेनेति विस्तरः । चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोरपि
चतुर्ध्यानभूमिकत्वम् । चक्षुःश्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते । प्राधानिक
एष निर्देशो बाहुलिको वेति । प्रधाने भवः प्राधानिकः । एवं बाहुलिकः ।
कुशला अभिज्ञा प्रधानभूता । अतस्तदपेक्ष्यनिर्देशः क्रियते—कुशला प्रज्ञा
अभिज्ञेति । अथवा—बाहुल्येनाभिज्ञाः कुशलाः । अत एवं निर्देश इति ।
मुद्गादिभावेऽपि माषराशिवद्व्यपदेशवत् ।।

निर्देश: ] सप्तमं कोशस्थानम् १११३
आसां चाभिज्ञानाम्—
तिस्रो विद्याः,
पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या
उच्यन्ते '
कस्मादेता एव नान्याः ?
अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ४५ ॥
एता हि पूर्वापरान्तमध्यसम्मोहं व्यावर्तयन्ति यथाक्रमम् ॥ ४५ ॥
“पूर्वान्तादौ निवर्तनात्” । यावद् यथाक्रममिति ।
भगवद्विशेषादयस्तावदाहुः—पूर्वान्तसम्मोहं पूर्वनिवासानुस्मृत्या
निवर्तयति । च्युत्युपपादाभिज्ञा मध्यसम्मोहम् । आस्रवक्षयाभिज्ञा
अपरान्तसम्मोहम् । नापरमस्माद् भवं प्रजानातीति तेषां व्याख्यानकारा-
राणामभिप्रायः । अतीत:, प्रत्युत्पन्नः, अनागतोऽध्वेति अध्वानुक्रमः । तस्मा-
देवमर्थगतिरिति ।
आचार्यसङ्घभद्रस्तु व्याचष्टे—पूर्वान्तादौ निवर्तनात् । पूर्वनिवासा-
भिज्ञा हि पूर्वान्तसम्मोहं व्यावर्तयति । अपरान्तसम्मोहं च्युत्युपपादाभिज्ञा ।
मध्यसम्मोहमास्रवक्षयाभिज्ञेति । अतश्च तिसृणामेव विद्यात्वम् । पूर्वेयात्म-
परविपद्दर्शनात् संवेगोत्पत्तेः, परया परेषामेव । तथा संविग्नस्य भूतार्था-
वगमात् तृतीयेति ।
किमत्र प्रतिपत्तव्यम् ? आचार्यसङ्घभद्रव्याख्यानमेव युक्तरूपं
पश्यामः ।
आचार्यस्यापि तथैवाभिप्रायो लक्ष्यते । तथाहि—'पूर्वनिवास-
च्युत्युपपाद-आस्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः' इत्युक्त्वाऽऽह—'एता हि
पूर्वान्तापरान्तमध्यसम्मोहं व्यावर्तयन्ति यथाक्रमम्' इति । कथं पुनर्गम्येतेति ?
तिस्र एवाभिज्ञास्तिस्रो विद्या इति । यस्मादेवमाह—"अशैक्षी पूर्वनिवा-
सानुस्मृतिज्ञानसाक्षात्क्रिया विद्या, अशैक्षी च्युत्युपपादज्ञानसाक्षात्क्रिया विद्या,
अशैक्षी आस्रवक्षयज्ञानसाक्षात्क्रिया विद्या" इति विद्यात्रयव्यवस्थापनानु-
सूत्रादेव । एवं ह्याह—त्रिपटो¹ भवति त्रिविद्य इति ॥ ४५ ॥
१. त्रिपिटो—जा० । त्रिपिटको—इति तूचितः पाठः प्रतिभाति ।

१११४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
आसां परमार्थेन
अशैक्ष्यन्त्या,
आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या।
तदाख्ये द्वे तत्सन्तानसमुद्भवात्।
अन्ये द्वे अशैक्ष्यसन्तानसम्भूतत्वादशैक्ष्यावुच्येते। नैव तु ते शैक्ष्यौ
नाशैक्ष्यौ।
किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते? यतः शैक्ष्यौ विद्ये नोच्येते।
इष्टे शैक्ष्यस्य नोक्ते तु विद्ये साविद्यसन्ततेः ॥ ४६ ॥
न हि साविद्यसन्ताने विद्याव्यवस्थानं युज्यते; पुनरप्यविद्या-
भिभवात् ॥ ४६ ॥
आसां चाभिज्ञानाम्
आद्या तृतीया षष्ठी च प्रातिहार्याणि,
ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रमम्
ऋद्ध्यादेशनानुशासन-प्रातिहार्याणि। विनेयमनसामादितोऽत्यर्थं हरणात्
प्रातिहार्याणि; प्रातिशब्दयोरादिकर्मभृशार्थत्वात्। प्रतिहतमध्यस्थानां
मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा।
अशैक्षी विद्येति। अनास्रवत्वादित्यभिप्रायः। नैव तु१ ते१ पूर्वनिवास-
च्युत्युपपादाभिज्ञे न शैक्ष्यौ नाशैक्ष्यौ, सास्रवत्वात् ॥ ४६ ॥
त्रीणि प्रातिहार्याणि यथाक्रममिति। ऋद्धिविषयाभिज्ञा ऋद्धिप्रति-
हार्यम्। चेतःपर्यायाभिज्ञा आदेशनाप्रतिहार्यम्। ईदृशं ते चित्तमिति।
आस्रवक्षयाभिज्ञा अनुशासनप्रातिहार्यम्। यथाभूतोपदेश इत्यर्थः। प्रातिशब्दयो-
रादिकर्मभृशार्थत्वादिति। प्र-शब्दः आदिकर्मार्थः। इदमनेन कर्म
प्रारब्धमिति। अति-शब्दश्च भृशार्थः, अतिगत इति। तदिदमुक्तं भवति—
विनेयमनसाम् आदितः आदौ अतिभृशं हरन्त्येभिरिति प्रातिहार्यम्। प्रति-
हतमध्यस्थानामिति। नैरुक्तं२ विधिमाश्रित्योक्तम्। "वर्णागमो वर्णविपर्य-
यश्च" इति योज्यम्।
१-१. नैवर्तन्ते—जा०। २. वैयाकरणमित्यर्थः।

निर्देशः ] सप्तमं कोशस्थानम् १११५
एषां पुनः
शासनम् ।
अग्र्यम्,
अनुशासनं प्रातिहार्यमग्र्यम् ।
अव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ४७ ॥
ऋद्ध्यादेशने हि विद्यया विक्रियेते। अस्ति हि च गान्धारी नाम
विद्या ययाकाशेन गच्छति । ईक्षणिका च नाम विद्या यया परचित्तं जानाति ।
न तु यथाभूतानुशासनमन्यथा शक्यं कर्तुम्; अव्यभिचारित्वात् । प्रधान-
मावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेन फलेन योगो
भवति, उपायोपदेशादित्येवावश्यम् ऋद्धिरित्युच्यते ॥ ४७ ॥
केयम्ऋद्धिः ? वैभाषिकन्यायेन
ऋद्धिः समाधिः,
ऋद्ध्यत्यनेनेति कृत्वा योजयितव्यम्
किं तेन समृद्ध्यति ?
गमनं निर्माणं च,
ततस्तत्र
गतिस्त्रिधा ।
शरीरवाहिनी आधिमोक्षिकी, मनोजवा च तत्र गतिः ।
शास्तुर्मनोजवा,
मनस इवास्या जव इति मनोजवा गतिर्बुद्धस्यैव, नान्यस्य; सुदूरमपि
देशं चित्तोत्पादकालेन गमनात् । अतएव “अचिन्त्यो बुद्धानां बुद्धविषयः”
इत्युक्तं भगवता । इतरे तु गती बुद्धस्यानुक्तसिद्धे ।
अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ४८ ॥
श्रावक-प्रत्येकबुद्धानां शरीरवाहिनी च गतिः । पक्षिवत् क्रमेण
शरीरवाहनात् । आधिमोक्षिकी च; दूरस्यासन्नाधिमोक्षेणाश्वागमनात्¹ ।
“अव्यभिचारित्वात्” इति । क्लेशक्षयानान्तरीयकत्वादिति ॥ ४७ ॥
ऋद्ध्यतीति । सम्पद्यत इत्यर्थः । दूरस्यासन्नाधिमोक्षेणेति ।
१. ०णाशुगमनात्—का० ।

भिधर्मकोशे? Yes, Swami Dwarikadas Shastri's edition header is: [page number] स्फुटार्थान्वितेऽभिधर्मकोशेorभाष्य-स्फुटार्थान्वितेऽभिधर्मकोशे! Wait, look at the first word: भाष्य-! Let's look at the letter: भाhas a top bar with a gap, thenष्य. Definitely भाष्य-स्फुटार्थान्वितेऽभिधर्मकोशे`.

  • L2: निर्माणं पुनर्द्विविधम्—कामावचरम्, रूपावचरं च ॥ ४८ ॥
    Em dash / hyphen: — or -

  • L3: तत्र तावत्

  • L4: कामाप्तं निर्मितं बाह्यं˙ चतुरायतनम्,
    Wait, is that a raised dot after बाह्यं?
    Let's transcribe कामाप्तं निर्मितं बाह्यं चतुरायतनम्, or keep the mark? It looks like a footnote mark or printing speck, but let's check: in Dwarikadas Shastri edition, verses are in bold.
    Let's bold it: **कामाप्तं निर्मितं बाह्यं चतुरायतनम्,**

  • L5: `कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्याय

निर्देशः ] सप्तमं कोशस्थानम् १११७
किं खल्वभिज्ञयैव निर्माणं निर्मीयते ? नेत्युच्यते । किं तर्हि ?
अभिज्ञाफलैः ।
निर्माणचित्तैस्तानि चतुर्दश ॥ ४९ ॥
तानि पुनश्चतुर्दश निर्माणचित्तानि ॥ ४९ ॥
यथाक्रमं ध्यानफलं द्वे यावत् पञ्च,
प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते । द्वितीय-
ध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि । एवं तृतीयचतुर्थ-
ध्यानभूमिकानि चत्वारि पञ्च च योज्यानि ।
स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् ।
नोर्ध्वजम् ।
नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति । द्वितीयादिध्यानफलं
कामावचरं निर्माणं प्रथमध्यानभूमिकाद् गतितो विशिष्यते ।
तल्लाभो ध्यानवत्,
तेषां च निर्माणचित्तानां ध्यानवल्लाभः ।
द्वयायतनमिति । रूप-स्प्रष्टव्यायतनम्, न गन्धरसायतनम्; समन्वा-
गमाभावादित्यभिप्रायः । न शब्दायतनम्, उच्छिन्नत्वात् । अभिघातजत्वा-
दित्यपरे । आगन्तुकत्वादित्यभिप्रायः ॥ ४९ ॥
द्वितीयध्यानफलं त्रीणीति । अधरभूमिके च द्वे, स्वभूमिकं चेति ।
चत्वारि पञ्च च योज्यानीति । तृतीयध्यानभूमिकानि चत्वारि । अधर-
भूमिकानि त्रीणि, स्वभूमिकं चेति । चतुर्थध्यानभूमिकानि पञ्च, अधर-
भूमिकानि च चत्वारि, स्वभूमिकं चेति ।
द्वितीयादिध्यानफलमिति विस्तरः । द्वितीयध्यानफलं निर्माणं
यन्निर्मात्रा निर्मितम् । प्रथमध्यानभूमिकात् निर्माणफलात् प्रथमध्यानफलाद्
गतितो विशिष्यते । तद् द्वितीयध्यानफलं निर्माणं द्वितीयां ध्यानभूमिं
गच्छति । प्रथमध्यानफलं तु तां न गच्छति, किं तर्हि ? प्रथमध्यानभूमि-
मेवेति गमनविशेषाद् विशिष्यते ।
एवं तृतीयादिध्यानफलं योज्यम् ।

११९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
किं खलु निर्माणचित्तादेव स्यात् व्युत्थानम् ? नास्त्येतत् । यस्मा-
दुच्यते—
शुद्धात् तत् स्वतश्च,
शुद्धकाद्ध्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्ताद्वा, नान्यतः ।
ततोऽपि ते ॥ ५० ॥
निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते, नान्यत् । न
हि समाधिफलस्थितस्याप्रविश्य पुनः समाधिं तस्माद् व्युत्थानमस्ति ॥५०॥
सर्वस्य च निर्मितस्य
स्वभूमिकेन निर्माणम्,
नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते ।
भाषणं त्वधरेण च ।
स्वभूमिकेन चेति च-शब्दः । कामधातुप्रथमध्यानभूमिको हि निर्मितः
स्वभूमिकेनेव चित्तेन भाष्यते। ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन; ऊर्ध्वं
विज्ञप्तिसमुत्थापकाभावात् ।
बहूनां निर्मितानां भाषणं
निर्मात्रैव सहाशास्तुः,
ध्यानवल्लाभ¹ इति । मौलध्यानानामिव वैराग्यतो निर्माणचित्तानां
लाभः ।
शुद्धकाद् ध्यानाद् अनन्तरं निर्माणचित्तमिति । निर्माणचित्त-
सम्मुखीभावे यदाद्यं तत् शुद्धकादुत्पद्यते । निर्माणचित्ताद्धेति । द्वितीयादिप्रवाहे ।
निर्माणचित्तादपि शुद्धकमिति । निर्माणचित्ताद् व्युत्थाने निर्माणचित्तं
च प्रवाहे । समाधिफलस्थितस्येति । समाधिनिर्माणचित्तस्थितस्य ॥ ५० ॥
ऊर्ध्वभूमिकस्त्विति । द्वितीयादिध्यानभूमिकः । प्रथमध्यानभूमिकेन
भाष्यते । ऊर्ध्वं द्वितीयादिषु विज्ञप्तिसमुत्थापकस्य सवितर्कस्य सविचारस्य
चित्तस्याभावात् ।
१. ध्यानवान् लाभ—जा० ।

निर्देशः ] सप्तमं कोशस्थानम् १११६
बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते । यदा च बहवो निर्मिता
भवन्ति तदा युगपद् भाषन्ते ।
एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः ।
एकस्य तूष्णींभूतस्य सर्वे तूष्णीम्भवन्ति ते' ॥ ( )
इति गाथा ।
बुद्धस्य पूर्वं पश्चाद्वा यथेच्छं निर्मिता भाषन्ते ।
यदा भाषणचित्तं तदा निर्माणचित्ताभावः, निर्माणचित्ताभावा-
न्निर्मिताभाव इति कथमेनं भाषयन्ति ?
अधिष्ठायान्यवर्त्तनात् ॥ ५१ ॥
निर्माणमधिष्ठायावस्थानकामतया अन्येन चित्तेन¹ वाचं प्रवर्त्तयन्ति
॥ ५१ ॥
किं जीवित एवाधिष्ठानमनुवर्तते, अथ मृतश्चापि ?
मृतस्याप्यस्त्यधिष्ठानम्,
आर्यमहाकश्यपाधिष्ठानेन तदस्थिशङ्खलावस्थानात् । तत्तु—
नास्थिरस्य,
निर्माणचित्ताभावान्निर्मिताभाव इति । निमित्ताभावे नैमित्तिकस्याप्य-
भाव इत्यसन्तं कथमिनं निर्मितं भाषयन्तीत्यभिप्रायः ।
"अधिष्ठायान्यवर्त्तनात्" इति । निर्माणचित्तेन निर्मितं निर्माय
ततश्चाधिष्ठायावस्थानकामतया तिष्ठत्वेतदिति । ततः उत्तरकालमन्येन
विज्ञप्तिसमुत्थापकेन सवितर्कसविचारेकेण चित्तेन वाचं प्रवर्त्तयन्ति
निर्मातारः । पूर्वाभिप्रायं हि सन्ततिरनुवर्तते । पूर्वं हि तेन चेतसि
व्यवस्थापितम् — निर्माणं निर्मास्यामि, तदधिष्ठास्यामि, तद् वाचयिष्या-
मीति ॥ ५१ ॥
अवस्थाद्वयेऽधिष्ठानसम्भवात् पृच्छति — किं जीवित एवाधिष्ठान-
मित्यादि ।
आर्यमहाकाश्यपाधिष्ठानेनेति । आर्यमहाकश्यपाधिमोक्षेणे-
त्यर्थः ॥ ५२ ॥
१. मनसा — का० ।

११२० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम्; आर्यकाश्यपेन मांसादीना-
मधिष्ठानात् ।
अपरे तु न ।
अपरे पुनराहुः—नास्ति मृतस्याधिष्ठानम् । अस्थिशङ्कलावस्थानं
तु देवतानुभावादिति ।
किमेकेन चित्तेनैकमेव निर्मितं निर्मिणोति ?
आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ५२ ॥
आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति । जितायां
त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति ॥ ५२ ॥
अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति ?
अव्याकृतं भावनाजम्,
यद्भावनाफलं तदवश्यमव्याकृतं भवति ।
त्रिविधं तूपपत्तिजम् ।
उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति
देवनागपिशाचादीनाम् । तत्कृतं च स्वपरसम्बद्धं¹ निर्माणं¹ नवायतनिकं
भवति; अस्वभावरूपायतनत्वात्, इन्द्रियाविनिर्भूतत्वात्² । न त्विन्द्रियं
निर्मियते ।
किमेषैव द्विविधर्द्धिः भावनामयी चोपपत्तिलाभिका च ?
“त्रिविधं तूपपत्तिज

निर्देशः ] सप्तमं कोशस्था म् ११२१ :
एषा च द्विविधा
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ५३ ॥
समासतः पञ्चविधामृद्धिं वर्णयन्ति—भावनाफलम्, उपपत्ति-
ताभिकम्, मन्त्रजाम्, औषधजाम्, कर्मजां च । यथा मान्धातुः, अन्तरा-
भविकानां च ॥ ५३ ॥
यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च, किमेते दिव्ये एव ? आहोस्वित् दिव्ये
इव दिव्ये, यथा बोधिसत्त्वचक्रवार्तगृहपतिरत्नानाम ?
दिव्यश्रोत्राक्षिणी,
यस्मात् ते
रूपप्रसादौ ध्यानभूमिकौ ।
ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्यु-
पादायरूपप्रसादौ निर्वर्तते चक्षु श्रोत्रसामन्तके रूपशब्दयोर्दर्शनश्रवणहेतू इति
ध्यानभूमिकत्वात् दिव्ये एव ते चक्षुःश्रोत्रे ।
ते च पुनः—
सभागाऽवकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ५४ ॥
चित्तवशेन वर्तन्त इति.वक्तव्यम् ? आह—निर्मातुः चित्तवशेन वर्तन्ते इति ।
यदि तर्हि नवायतनिकं निर्मीयते, इन्द्रियनिर्माणात् कथं नापूर्वसत्त्वप्रादुर्भावो
भवति ? सत्त्वसङ्ख्यातानि हीन्द्रियाणि" इति । अत आह—इन्द्रियाविनि-
र्भात्वादिति । यस्माच्चक्षुरादिभिरिन्द्रियैः पञ्चभिः स्वपरशरीरसम्बद्धं
निर्माणं रूप-रस-स्प्रष्टव्यस्वभावविनिर्भागिनावस्थितं भवत् नवायतनिक-
मित्युरुयते । न त्विन्द्रियं निर्मीयते—इत्येष सिद्धान्तः । यत् पुनस्तदेव स्वपर-
शरीरासम्बद्धं निर्मिणोति, तच्चतुरायतनिकमेव भवति ॥
यथा मान्धातुरन्तराभविकानां चेति । कर्मजाया ऋद्धेरेतदुदाहरण-
मुच्यते ॥ ५३ ॥
किमेते दिव्ये एवेति । किमयं दिव्यशब्दो मुख्यवृत्तिः, आहोस्वित्
औपचारिक इत्यभिप्रायः । यदि हि 'एते दिवि भवे दिव्ये' इत्यर्थो गृह्यते,
मुख्यवृत्तिरयं शब्दो भवति; अथ तु दिव्ये इवेति दिव्ये इति, औपचारिकः ।
यथा बोधिसत्त्व-चक्रवर्ति-गृहपतिरत्नानामिति औपचारिके दृष्टान्तं दर्शयति ।

११२२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात्, नापि
विकलम्; काणविभ्रान्ताभावात्, रूपावचरसत्त्ववत्। दूरसूक्ष्मवृतान्यपि
रूपाणि शब्दांश्च तयोर्विषयः। आह चात्र—
दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते॥
कियद् दूरं पुनर्दिव्येन चक्षुषा पश्यति ? यस्य यादृशं चक्षुर्भवति।
श्रावक-प्रत्येकबुद्ध-बुद्धास्त्वनभिसंस्कारेण साहस्त्र-द्विसाहस्र-त्रिसाहस्रकान् लोक-
धातून् यथासंख्यं पश्यन्ति। ५४ ।।
अभिसंस्कारेण तु
द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खङ्गदैशिकाः ।
सर्वाभिसंस्कारेण सह श्रावकोऽपि द्विसाहस्रं लोकधातुं दिव्येन चक्षुषा
पश्यति। त्रिसाहस्रं खड्गविषाणकल्पः। बुद्धस्तु भगवानसंख्येयान् लोकधातून्
पश्यति यावदेवेच्छति।
किमृद्धिरेवोपपत्तिलाभिका भवति, अथान्यदपि ?
अन्यदप्युपपत्त्याप्तम्,
दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलब्धमस्ति¹। न तूपपत्त्याप्तं
किञ्चिदभिज्ञाख्यां लभते।
यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः,
विज्ञानसहितत्वादिति। रूपदर्शनमुखेनाभिनिहृतत्वान्नित्यं विज्ञान-
सहितमिति सभागमेव। काणविभ्रान्ताभावादिति। काणम्=आभ्यन्तर-
विकलम्। विभ्रान्तम्=केकरम्, सर्वतश्च न पश्यतीति। अर्थादुक्तं भवति—
दिव्यं चक्षुः पृष्ठतोऽपि पश्यति, पार्श्वतोऽपि पश्यति; न त्वेवमदिव्यं
चक्षुरिति ।। ५४ ।।
दिव्यश्रोत्रादिकमपि चतुष्टयमिति। आदि-शब्देन दिव्यं चक्षुः, पूर्वे-
निवासानुस्मृतिः, परचित्तज्ञानं च। एतदपि दिव्यश्रोत्रादिकं चतुष्टयम्।
उपपत्तिप्रतिलब्धमस्ति। दिव्यं चक्षुः केषामुपपत्तिप्रतिलम्भिकम् ? कामा-
वचराणां देवानाम्, अनागामिनां च रूपावचराणाम्, नारूप्यावचराणाम्।
तत्र रूपाभावाद् दृष्टिः गमनं निर्माणं च नास्ति। नापि दिव्यं श्रोत्रं
१ ०प्रतिलभ्य०—का०।

निर्देशः ] सप्तमं कोशस्थानम् ११२३
तद् दृश्यो नान्तराभवः१ ॥ ५५ ॥
अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते, नोपपत्तिप्रतिलब्धेन ॥ ५५ ॥
चेतोज्ञानं तु तत् त्रेधा,
'उपपत्त्याप्तम्' इति वर्तते। परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं
वेदितव्यं कुशलाकुशलाव्याकृतम् ।
तर्कविद्याकृतं च यत् ।
यच्चापि तार्किकं परचित्तज्ञानम्, नैमित्तिकानां यच्च विद्याकृतम्—
तदपि त्रिविधं वेदितव्यम् । न यथा भावनाफलं कुशलमेव । उपपत्तिप्रति-
लम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्याम् ।
जानते नारका आदौ,
यावन्न दुःखवेदनाभ्याहता भवन्ति । अन्यगतिस्था नित्यं जानते ।
नृणां नोत्पत्तिलाभिकम् ॥ ५६ ॥
मानुष्याणामेतद् यथोक्तमृद्ध्यादिकं नास्त्युपपत्तिलाभिकम्२ ।
यत्तर्हि प्रकृतिजातिस्मरा भवन्ति ? कर्मविशेषजाऽसौ तेषाम् ।
चक्षुश्चास्ति । परचित्तज्ञानमपि नास्ति; स्वपरसन्तानपरिच्छेदाभावात् ।
पूर्वनिवासानुस्मृतिरपि नास्ति; कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्य
असमुद्गमात् । अथवा सर्वा अपि अभिज्ञा न सन्ति; कामरूपावचरसत्त्ववत्
तादृशस्यात्मभावस्यासमुद्गमात् ॥ ५५ ॥
न यथा भावनाफलं कुशलमेवेति । विपरीतदृष्टान्तः ।
अन्यगतिस्था नित्यं जानत इति । ताभ्यां परचित्तपूर्वनिवासानु-
स्मृतिभ्यां देवादिगतिस्था नित्यं जानते; दुःखवेदनानव्याहतत्वात् ।
“नृणां नोत्पत्तिलाभिकम्” इति । मानुष्याणामेतद् यथोक्तम् ऋद्ध्या-
दिकं वैराग्यलाभिकं तर्कविद्यौषधकर्मकृतं३ चास्ति । न तूपपत्तिकलाभि-
कमस्ति ।
यत्तर्हि प्रकृतिजातिस्मरा इति । प्रकृतिजातिस्मरत्वं पूर्वनिवासा-
१. नान्तरीभवः—का० । २. 'उपपत्तिप्रतिलम्भिकम्—का० ।
३ ०विद्यौषधकर्म०—जा० ।

Here is the line-by-line transcription of the Sanskrit text from the image:

११२४ भाष्यस्फुटार्थसहिते भिधर्मकोशे [ ज्ञाननिर्देशः ]
त्रिविधा हि पूर्वनिवासानुस्मृतिः—भावनाफलम्, उपपत्तिप्रतिलब्धा¹,
कर्मजा चेति ॥ ५६ ॥
अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम
सप्तमं कोशस्थानम्²
नुस्मृत्या, सा चोपपत्तौ भवतीति । कथम् ? असावुपपत्तिलाभिका न भवती-
त्यभिप्रायः । आह—कर्मविशेषजासौ तेषामिति । तेषां बोधिसत्त्वानां कर्म-
विशेषनिर्वृत्ताः। उपपत्तिलाभिकं हि नाम यदुपपत्तिकाले एव सर्वेषां
निसर्गो लभ्यते, न तु यत् कस्यचिदेवोपपत्तिकालादूर्ध्वम् । यथा—
पक्षिणामाकाशगमनम् । तस्मात् कर्मविशेषजासौ तेषाम् ।
कथमिति ? आह— त्रिविधा हीति विस्तरः । भावनाफलं यथोक्तम् ।
उपपत्तिप्रतिलब्धा देवादीनाम् । कर्मजा यथा तेषां बोधिसत्त्वाना-
मिति ॥ ५६ ॥
आचार्ययशोमित्रकृतायामभिधर्मकोशव्याख्यायां
सप्तमं कोशस्थानं समाप्तम्
१. उपपत्तिलब्धा—का० ।
२. ०स्थविरश्रीलामावाकस्य यदत्र पुण्यम्।

ॐ नमो बुद्धाय
अष्टमं कोशस्थानम्
( समापत्तिनिर्देशः )
ज्ञानाधिकारेण¹ ज्ञानमयानां गुणानां कृतो निर्देशः । अन्यस्वभावानां²
तु कर्तव्य इत्यादित एव ध्यानान्यरभ्यन्ते; सर्वगुणाश्रयत्वात् ।
द्विधा ध्यानानि,
समासतो द्विविधानि ध्यानानि, उपपत्ति-समापत्तिध्यानभेदात् ।
तानि पुनः—
चत्वारि,
प्रथमं ध्यानं यावच्चतुर्थम् ।
तत्र ध्यानोपपत्तय पुनर्ने वक्तव्याः । लोकनिर्देशकोशस्थाने³ हि
प्रोक्तास्तदुपपत्तयः ।
कथं प्रोक्ताः ?
“पृथक् पृथक् ।
ध्यानं [त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकम् ॥” ( अभि० को०
३.२ ) इति ।
अष्टमं कोशस्थानम्
सप्तमादनन्तरमष्टमस्य कोशस्थानस्योपन्यासे सम्बन्धं दर्शयन्
आह—ज्ञानाधिकारेणेति विस्तरः । ज्ञानाधिकारेण दशानां ज्ञानानामधि-
कारेण ज्ञानमयानां ज्ञानस्वभावानां प्रणिधिज्ञानाभिज्ञादीनां कृतो निर्देशः ।
अन्यस्वभावानां तु समाध्यादीनां कर्तव्यः । सर्वज्ञाश्रयत्वादिति । कामम्
आरूप्या अपि गुणाश्रया भवन्ति, न सर्वगुणाश्रयाः । ध्यानानि तु सर्व-
गुणाश्रया इति ।
“द्विधा ध्यानानि” इति । कार्यध्यानानि, कारणध्यानानि चेत्यर्थः ।
१ श्री०—का० । २. अस्य स्व०—का० ३. तृतीये कोशस्थान इत्यर्थः ।

म्बनत्वे एकाालम्बनत्वं? Let's look at line 18: मप्येकालम्बनत्वे एकाालम्बनत्वं चित्तानामित्युच्यते, न पुनरेकालम्बनता`
Wait, look at line 18:
म-प्ये-का-ल-म्ब-न-त्वे (मप्येकालम्बनत्वे)
ए-का-ल-म्ब-न-त्वं (एकालम्बनत्वं)
चि-त्ता-ना-मि-त्यु-च्य-ते, (चित्तानामित्युच्यते,)
न पु-न-रे-का-ल-म्ब-न-ता (न पुनरेकालम्बनता)
Yes!

Line 19:
चित्तचैत्तानामित्युच्यते ? प्राधान्यात् चित्तान्येवैकालम्बनानि समाधिरिति ।

Line 20:
अवस्थाविशेषत्वाच्चित्तगुणभाववत्¹ । वैभाषिक आह-न चित्तान्येव

Line 21:
समाधिः । येन तु तान्येकाग्राणि वर्तन्ते समाहितानि स धर्मः समाधिः । यथा

Line 22:
वैशेषिक-नये शुक्लगुणयोगाच्छुक्लः पटः, स एव गुणोऽस्य शौक्लमित्युच्यते,

चेत् ? सम्प्रयुक्ते समाधिवैयर्थ्यम् । यत एव च कारणात् समाधिः, स्तत
एव कारणात्१ चित्तानामेकालम्बनत्वं किं नेष्यते, महाभूमिकत्वाच्च
समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः ? न; दुर्बलत्वात्समाधेः ।
चित्तान्येवैकाग्राणि समाधिः । तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धि-
प्र...ं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे ।
ध्यानमिति कोऽर्थः ? ध्यायन्त्यनेनेति । प्रजानन्तीत्यर्थः । समाहित-
चित्तस्य यथाभूतप्रज्ञानात् । चिन्तनार्थो ह्येष धातुः । चिन्तनं च प्रज्ञेति
लम्बने न विक्षेपः ? अस्मिन्नालम्बने न विक्षेप इति । सम्प्रयुक्ते समाधि-
वैयर्थ्यम् । यत् प्रथमं चित्तं समाधिसम्प्रयुक्तम्, तस्मिन् सम्प्रयुक्ते समाधि-
वैयर्थ्यम् । तत्र कारित्रं समाधिर्न करोति, द्वितीये करोतीति कृत्वा । किञ्च
यत एव च कारणात् समाधिरेकाग्रतालक्षणोऽभिप्रेतः । तत एव च
कारणात् चित्तानामेकालम्बनत्वं किं नेष्यते । किं समाधिना अर्थान्तरभूतेनेति
अभिप्रायः ।
न; दुर्बलत्वात् समाधेः । न; महाभूमिकत्वात् समाधेः सद्भावात्
सर्वस्य चित्तस्यैकाग्रताप्रसङ्गः२ । यच्चित्तं दुर्बलेन समाधिना सम्प्रयुज्यते, न
तदेकाग्रं भवति । यत् पुनर्बलवता, तच्चित्तमेकाग्रमिति सत्यपि महा-
भूमिकत्वे समाधेर्न सर्वचित्तानामेकाग्रताप्रसङ्गः ।
चित्तान्येवेति विस्तरः । चित्तान्येवैकाग्राणि समाधिः । नार्थान्तरभूत
इति । तथा हि अधिचित्तं शिक्षेति । “अधिचित्तं शिक्षा कतमा ? चत्वारि
ध्यानानि” इति सर्वम् । तथा चित्तपरिशुद्धिप्रधानं चत्वार्येव ध्यानानि इत्यु-
क्तानि । लिखितमिदं सूत्रम्— “ऋद्धिपादा समाधयः” (अभि० को० ६.६९)
इत्यत्र । यथा ह्यधिशीलं शिक्षा शीलमेव, न तस्मादन्या । अधिप्रज्ञं च शिक्षा
प्रज्ञैव, न तस्या अन्या । एवमधिचित्तं शिक्षा चित्तमेव, न तस्मादन्या । न
चित्तव्यतिरिक्तसमाधिरस्तीत्यर्थः । अधिचित्तं हि शिक्षा समाधिरिष्यते ।
यथा चास्मिन्नेव सूत्रे शीलपरिशुद्धिप्रधानं विमुक्तिपरिशुद्धिप्रधानमित्युक्ते न
शीलपरिशुद्धिः शीलादन्या । एवं दृष्टिपरिशुद्धिः, विमुक्तिपरिशुद्धिश्च । तथैव
चित्तपरिशुद्धिरपि न चित्तादन्या । चित्तपरिशुद्धिर्हि चतुर्ध्यानलक्षणा-
समाधिरिति ।
१. का० पुस्तके नास्ति । २. ०काग्रता०—जा० ।
अभि० को० ४ : ७

"?
The letter is 'नि' or 'वि'?
It has a loop at bottom left: 'नि'!
Wait, could it be "मिथ्यानिध्यानादित्यर्थः"? No, look at the repha on 'र्णा'!
Wait, "नितीर्णात्"? No, 'ती' + 'र्णा' = तीर्णा!
Wait, "मिथ्या नितीर्णादित्यर्थः" (or "मिथ्यानितीर्णादित्यर्थः").
Let's look at the letters:
म + ि = मि
थ + य + ा = थ्या
न + ि = नि
त + ी + र् = तीर्
ण + ा = णा
द + ि = दि
त + य + ः = त्यर्थः
Yes, "मिथ्यानितीर्णादित्यर्थः ।" (meaning: incorrectly deliberated/decided, from ni + tṝ / nitīrṇa).

Line 23:
"कामरागपर्यवस्थितेनापि चेतसा मिथ्योपनिध्यानात् तत्प्रसङ्गः । न; तत्प्रति-"
Wait, is there a semicolon after 'न'?
Yes: "न; तत्प्रति-"

Line 24:
"रूप एवेति विस्तरः । नैतदेवमतिप्रसङ्ग इति । तत्प्रतिरूप एव हि नाति-"

Line 25:
"बहुविलक्षणे क्लिष्टे ध्यानमिति संज्ञासन्निवेशः

निर्देशः ] अष्टमं कोशस्थानम् ११२६
कीदृशं पुनः कुशलमेकाग्र्यं प्रथमं ध्यानम्, कीदृशं यावच्चतुर्थम् ?
प्रथमं तावत्—
विचारप्रीतिसुखवत्,
विचारप्रीतिसुखसंयुक्तं कुशलमेकाग्र्यं तत् प्रथमं ध्यानम् । विचार-
वचनाद् वितर्कोऽप्युक्तो भवति; साहचर्याद् धूमाग्निवत् । न हि प्रीतिसुखवान्
विचारो विना वितर्केणास्ति ।
शेषं पुनर्ध्यानत्रयम्
पूर्वपूर्वाङ्गवर्जितम् ।
‘शुभैकाग्र्यम्’ वर्तते । विचारविवर्जितं प्रीतिसुखवत् द्वितीयम्,
विचारप्रीतिवर्जितं तृतीयम्, विचारप्रीतिसुखवर्जितं चतुर्थमिति ।
अनेन कामरागादिपर्यवस्थानस्यापि ध्यानत्वे सति न दोष इति
दर्शयति--धूमाग्निवदिति । यथा ‘धूमोऽत्र’ इति धूमवचनेनाग्निरप्युक्तो
भवति; साहचर्यात् । न विनाग्निना धूमो भवतीति । अनेनैव चाविना-
भावित्वेन धूमस्याभ्यर्हितत्वम्—यत्र हि धूमस्तत्राग्निः, न तु यत्राग्निस्तत्र
धूमः । तथा हि—अयोगुडाङ्गारादिष्वग्निरेव गृह्यते, न धूमः । अस्माच्चाभ्य-
र्हितत्वाद् धूमस्य पूर्वनिपातः, वासुदेवार्जुनवत् । अन्यथा हि “द्वन्द्वे घि”१ (पा०
सू० २.२.३२) इत्यग्निशब्दस्य पूर्वनिपातः स्यात् । कथं पुनः साहचर्येण हि
प्रीतिसुखवान् विचारो विना वितर्केण नास्ति । यथा ध्यानान्तरविचारः । न
प्रीतिसुखवानिति अवितर्कः, नैवमयं विचारः । विशेषितो ह्ययं विचारः प्रीति-
सुखसहपठितः “विचारप्रीतिसुखवत्” (अभि० को० ८.२) इति वक्ष्यति ।
वितर्कवर्जितं द्वितीयं ध्यानमिति ध्यानान्तरमपि द्वितीयं ध्यानं प्राप्नोति ।
किं च चत्वार्यङ्गानि प्रथमध्याननिर्देशावसानेऽनेनानुक्रमेणोक्तानि—'सवितर्कं
सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति' इति । ततः
विचारप्रीतिसुखसमाधयः प्रथमे ध्याने भवन्ति । एभिश्चतुर्भिरङ्गैर्वितर्केण च
सर्वप्रथमोक्तेन पञ्चाङ्गमुच्यते । द्वितीयं पुनरुच्यते—'अवितर्कमविचारं समा-
धिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति' इति । चतुर्णामेषां पूर्वाङ्गेन
विचारलक्षणेन वर्जितमिति । तृतीयमप्येवमुच्यते—'स प्रीतेर्विरागात् उपेक्षको
विहरति विस्तरेण, यावत् सुखविहारीति तृतीयं ध्यानमुपसम्पद्य विहरति'
१. द्वन्द्वेऽपि—जा० ।